________________
महामुनिश्रीव्यासप्रणीत
[२ भूमिखण्डे
अथ द्वादशाधिकशततमोऽध्यायः ।
कुञ्जल उवाच
तदेव गानं च सुरागनाभिर्गीतं समाकर्ण्य च गीतकैर्भुवः ।
समाकुला चापि बभूव तत्र सा शंभुपुत्री परिचिन्तयाना ॥ आसनासूर्णमुत्थाय महोत्साहेन संयुता। तूर्ण गता वरारोहा तपोबलसमन्विता ॥ तं दृष्ट्वा देवसंकाशं दिव्यलक्षणसंयुतम् । दिव्यगन्धानुलिप्ताङ्गं दिव्यमालाभिशोभितम् ॥ ३ दिव्यैराभरणैर्वस्त्रेः शुशुभे नृपनन्दनः । [*दीप्तिमांश्च यथा सूर्यो दिव्यलक्षणसंयुतः॥ ४ किंवा देवी महाप्राज्ञो गन्धर्वो वा भविष्यति। किंवा नागसुतः सोऽयं किंवा विद्याधरी भवेत् ॥५ देवेषु नैव पश्यामि कुतो यक्षेषु जायते । अनया लीलया देवः सहस्राक्षोऽपि जायने ॥ ६ शंभरेव भवेत्किवा किंवा चायं मनोभवः। किंवा पितुः सखा मे स्यान्पोलस्त्योऽयं धनाधिपः ।। एवं समालोकयन्ती बलरूपगुणान्वितम् । समेत्य तं सखीभिस्तु रम्भाद्याभिः स्थिताऽभवत् ।।८ इति श्रीमहापुराणे पाझे भूमिखण्डे वेनोपाख्याने गुरुतीर्थे द्वादशाधिकशततमोऽध्यायः ।। १५ ।।
आदितः श्लोकानां समष्ट्यङ्काः-८५३२
अथ त्रयोदशाधिकशततमोऽध्यायः ।
रम्भोवाचतप एतत्परित्यज्य किमालोकयसे शुभे । मनः संरक्ष वै साध्वि पुरुषस्य विचिन्तनात् ॥ १
___ अशोकसुन्दर्युवाच .. मनस्तपसि लीनं मे नहुषस्यापि काम्यया । न व चालयितुं शक्यं देवैरपि संहेश्वरः ॥ २ एनं दृष्ट्वा महाभागे मनो मे चलते भृशम् । रन्तुमिच्छाम्यहं गत्वा एवमुत्कण्ठतां गतम् ॥ ३ एवं विपर्ययश्चाऽऽसीन्मनसो मे वरानने । तन्मे त्वं कारणं ब्रूहि तवास्ति ज्ञानमुत्तमम् ॥ ४ आयोः पुत्रस्य भार्याऽहं देवैः सृष्टा महात्मनः । कस्मान्मे धावते चेत उत्सुकं रन्तुमेव च ॥ ५
रम्भोवाचसर्वेष्वेवे महाभागे देहरूपेषु भामिनि । वसत्यात्मा स्वयं ब्रह्म ज्ञानरूपः सनातनः ॥ ६ यद्यपि प्रकृतेर्भावैरिन्द्रियैरपकारिभिः । मोहपाशर्शतबद्धस्तथा सिद्धस्तु सर्वदा॥ प्रकृतिर्नैव जानाति तां वै वैज्ञानिकी कलाम् । अयं शुद्धस्तु धर्मज्ञ आत्मा वेत्ति च मुन्दरि ॥८
* एतचिहान्तर्गतः पाठः क. ख. ड. च. छ. झ. ड. ढ. पुस्तकस्थः ।
१ घ. छ. ट. ठ. इ. नाभिः स्तोत्रं सुपुण्य परिचारणेरितम् । तमेव गायन्ति सुगीतकैस्तु शभोस्तु पुत्री ।२ क. ख. घ. ङ. च. छ. स. ट. ठ. ड. ढ. व्यरूपसमप्रभम् । ३ क. ख. घ. ड. च. छ. झ. ट. ठ. ड. ढ. 'माचिन्तयतीव यावत्सविस्तरं रूपगुणान्विता सा । समेत्य रम्भा सुमहासखीभिरुवाच तां शम्भुमुतां प्रहस्य ॥८॥ ४ क. ख. घ. ङ. च. छ. स. ट. ठ. ड. ढ. भे। तपसः क्षरणं स्याद्वै पु । ५ ड. महाभागं । ६ ड. शुभे । ७क. ख. घ. ड. च, छ. स.ट. 8. इ. द. "हि यद्यस्ति । ८ क. ख. घ. ङ. च. छ. श. ट. ट. ड. द. महात्माभिः । ९ क. ख. घ. ङ. च छ. स. ट. ठ. ४. द. व हि सत्त्वेषु घटरू' । १. ग. ज. अ. ट. नि । वासनात्मा स्वयं ब्रह्माज्ञानरूपस्य चाऽऽत्मनः ।