________________
९४ चतुर्नवतितमोऽध्यायः ]
पनपुराणम् । अथ चतुर्नवतितमोऽध्यायः ।
११९
am"s
,
कुञ्जल उवाचश्रूयतामभिधास्यामि तत्सर्व कारणं सुत । यस्मात्तौ तादृशी जातो स्वासपरिभक्षकौ ॥ ? सर्वत्र कारणं कर्म शुभं वाऽशुभमेव च । पुण्येन कर्मणा पुत्र जन्तुः सौख्यं भुनक्ति च ॥ दुष्कृतं भुक्त एवापि पापयुक्तेन कर्मणा ॥ सूक्ष्मधमे विचार्यैव शास्त्रज्ञानेन चक्षुषा । स्थूलधर्म प्रदृष्ट्वैव सुविचार्य पुनः पुनः॥ ३ समारभेत्ततः कर्म मनसा विपुलेन वा । स मूर्तिकारकः शिल्पी समावर्तयते यथा ॥ अग्नेश्च तेजसा पुत्र ज्वालाभिश्च समन्ततः । द्रवीभूतो भवेद्धातुर्वह्निना तापितः शनैः ।। यादृशं वत्स भक्ष्यं तु रसयुक्तं च सेव्यते । तादृशं जायते वन्स रूपं चैव न संशयः॥ कर्म एव प्रधानं यजीवरूपेण वर्तते ॥ यादृशं वपते बीजं क्षेत्रे तु कृषिकारकः । भुनक्ति तादृशं वत्स फलमेव न संशयः॥ यादृशं क्रियते कर्म तादृशं परिभुज्यते । विनाशहेतुः कर्मास्य सर्वे कर्मवशा वयम् ॥ कर्मदायादका लोके कर्म एव च वान्धवाः । कर्माणि चोदयन्तीह पुरुष सुखदुःखयोः ॥ ९ सुवर्ण रजतं वाऽपि यथा रूपं निपेच्य(व्य)ते । तथा निपेव्यते जन्तुः पूर्वकर्मवंशानुगः ॥ १० पश्चैतान्यपि मृज्यन्ते गर्भस्थस्यैव देहिनः । आयुः कम च वित्तं च विद्या निधनमेव च ॥ ११ यथा कृषिफलं कर्तुः प्राप्यते यद्यदीहति । तथा पूर्वकृतं कर्म कर्तारं प्रतिपद्यते ॥ .. १२ देवत्वमथ मानुष्यं पशुतां पक्षितां तथा । तिर्यक्त्वं स्थावरत्वं च याति जन्तुः स्वकर्मभिः॥ १३ स एव तु तथा भुतं नित्यं विहितमात्मनः । आत्मना विहितं दुःखमात्मना विहितं सुखम् ॥ गर्भशय्यामुपादाय भुङ्क्ते ते पूर्वदेहिके ।। पूर्वदेहकृतं कर्म न कश्चित्पुरुषो भुवि । बलेन प्रजया वाऽपि समर्थः कर्तुमन्यथा ॥ १५ स्वकृतान्येव भुञ्जन्ति दुःखानि च सुखानि च । हेतुभिः करणवाऽपि सोऽहंकारेण बध्यते ॥१६ यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् । तद्वच्छुभाशुभं कर्म कतारमनुगच्छति ।। उपभोगाइते तस्य नाश एव न विद्यते ॥ प्राक्तनं बन्धनं कर्म कोऽन्यथा कर्तुमर्हति । सुशीघ्रमपि धावन्तं विधानमपि धावति ॥ १८ शोभते संनिपातेन पुरा कर्म यथाकृतम् । उपतिष्ठति निष्ठन्तं गच्छन्तमनुगच्छति ॥ १९ करोति कुर्वतः कर्म च्छायेवानुविधीयते । यथा छायातपो नित्यं सुसंवन्धौ परस्परम् ॥ उपसर्गा हि विषया उपसर्गा जरादयः । पीडयन्ति नरं पश्चात्पीडितं पूर्वकर्मणा ॥ २१ येन यत्रोपभोक्तव्यं सुखं वा दुःखमेव च । स तत्र वध्यते जन्तुर्वलावन नीयते ॥ २२ दैवं प्राहुश्च जीवानां सुखदुःखोपपादनम् । अन्यथा कर्म तच्चिन्त्यं जाग्रतः स्वपतोऽपि वा ॥२३ अन्यथा दुःखिनं दैवं वध्यमेव जिघांसनि । शस्त्राग्निविषदुर्गेभ्यो रक्षितव्यं च रक्षति ॥ २४ यथा पृथिव्यां बीजानि ह्यन्नं वृक्षास्तृणानि च । तथैवाऽऽत्मनि कर्माणि तिष्ठन्ति प्रभवन्ति च ॥ तैलक्षयाद्यथा दीपो निर्वाणमधिगच्छति । कर्मक्षयात्तथा जन्तोः शरीरं नाशमृच्छति ॥ २६
१ क. ख. च. छ. झ. इ. सा निपुणेन च । स । २ म. यत्र । ३ ङ. छ. द. म् । प्रहराजा विषराजो डाकिन्यो भतविज्वराः। पि।