________________
३०४
महामुनिश्रीव्यासप्रणीतं -
[२ भूमिखण्डे
उज्ज्वल उवाच
बद तात परं ज्ञानं प्रथमं मम सांप्रतम् । पश्चाख्यानं व्रतं पुण्यं नाम्नां शतमथापि वा ॥ कुञ्जल उवाच—
परं ज्ञानं प्रवक्ष्यामि यन दृष्टं तु केनचित् । श्रूयतां पुत्र कैवल्यं केवलं दु:खवर्जितम् ।। सूत उवाच
५९
६०
६१
६२
६३
६४
६५
६६
६९
यथा दीपो निवातस्थो निश्चलो वायुवर्जितः । प्रज्वलन्नाशयेत्सर्वमन्धकारं महामते । तद्दोषविहीनात्मा भवत्येव निराश्रयः । निराशो निश्चलो वत्स न मित्रं न रिपुस्तदा ॥ न शोको न च हर्षश्च न लोभो न च मत्सरः । संभ्रमालापमोहैश्च सुखदुःखैर्विमुच्यते ॥ विषयेष्वपि सर्वेषु इन्द्रियाणि न भुञ्जते । तदा स केवलो जातः कैवल्यत्वं प्रजायते ॥ अग्निकर्मप्रसङ्गेन दीपस्तैलं प्रशोषयेत् । वर्त्याधारेण राजेन्द्र निस्तमो वायुवर्जितः || कज्जलं वमते पश्चात्तैलस्यापि महामते । [कृष्णा सा दृश्यते रेखा दीपस्याग्रे महामते ] ॥ स्वयमाकर्षते तैलं तेजसा निर्मलो भवेत् । देहवर्तिस्थितस्तद्वत्कर्मतैलं प्रशोषयेत् ।। विषयान्कज्जलं कृत्वा प्रत्यक्षान्संप्रदर्शयेत् । जाप्येन निर्मलो भूत्वा स्वयमेव प्रकाशयेत् ॥ क्रोधादिभिः क्लेशसंज्ञैर्वायुभिः परिवर्जितः । निस्पृहो निश्चलो भूत्वा तेजसा स्वयमुज्ज्वलेत् ६७ त्रैलोक्यं पश्यते सर्व स्वस्थानस्थः स्वतेजसा । [ केवलं ज्ञानरूपोऽयं मया ते परिकीर्तितः ६८ ध्यानं चैत्र प्रवक्ष्यामि द्विविधं तस्य चक्रिणः ] । केवलं ज्ञानरूपेण दृश्यते ज्ञानचक्षुषा ।। योगयुक्ता महात्मानः परमार्थपरायणाः । यं पश्यन्ति यतीन्द्रास्ते सर्वज्ञं सर्वदर्शकम् ।। हस्तपादादिहीनश्च सर्वत्र परिगच्छति । सर्वे गृह्णाति त्रैलोक्यं स्थावरं जङ्गमं सुत । मुखनासाबिहीनस्तु घाति भुक्ते हि पुत्रक । अकर्णः शृणुते सर्व सर्वसाक्षी जगत्पतिः ।। अरूपो रूपसंपन्नः पञ्चवर्गसमन्वितः । सर्वलोकस्य यः प्राणः पूजितः स चराचरैः ।। rfast वदते सर्व वेदशास्त्रानुगं सुत । अत्वचः स्पर्शमेवापि सर्वेषामेव जायते ॥ सदानन्दो विरक्तात्मा एकरूपो निराश्रयः । निर्जरो निर्ममो व्यापी सगुणो निर्गुणोऽमलः ।।७५ अवश्यः सर्ववश्यात्मा सर्वदः सर्ववित्तमः । तस्य ध्याता न चैवास्ति सर्वैः सर्वमयो विभुः ७६ एवं सर्वमयं ध्यानं पश्यते यो महात्मनः । [*स याति परमं स्थानममूर्तममृतोपमम् ॥] ७७ द्वितीयं तु प्रवक्ष्यामि ह्यस्य ध्यानं महात्मनः । मूर्ताकारं तु साकारं निराकारं निरामयम् ॥ ७८ ब्रह्माण्डं सर्वमतुलं वासितं यस्य वासना । ( ) स तस्माद्वासुदेवेति उच्यते मम नन्दन ॥ वर्षमाणस्य मेघस्य यद्वर्षं तस्य तद्भवेत् । सूर्यतेजःप्रतीकाशं चतुर्बाहुं सुरेश्वरम् ||
७०
1
७१
७२
७३
७४
७९ ८०
५७
५८
* एतविहान्तर्गतः पाठः क. ख. ड.च. छ. झ. ढ. पुस्तकस्थः । एतचिहान्तर्गतः पाठो घ. ट. ड. ट. पुस्तकस्थः । * अत्र "ड" पुस्तके, अधिको प्रन्थो दृश्यते स संगतिहीनो भात्यत एव टिप्पणीरूपेण दीयते "केवलं ज्ञानरूपोऽसौ विश्वात्मा प्रीयतामिति । अनेन विधिना विद्वान्कुर्याद्यः शुभमुत्तमम् । इदं पठेद्यः शृणुयान्मुहूर्ते पश्येत्प्रसङ्गादपि दी. मानम् । सोऽप्यत्र संघातविमुतदेहः प्राप्नोति विद्याधरनायकत्वम् । यावत्समाः सप्त नरः करोति यः सप्तमी सप्तविधानयुक्ताम्” इति ।
* एतच्चिहान्तर्गतः पाठः क. ख. ङ. च. छ. झ. ड ढ पुस्तकस्थः ।
१ क. ख. ङ च छ झ मलवर्जितम् । २ ८. विविधं । ३ छ. झ. ते तेन च । ४ क. ख. च. द. न्ति विनिद्रास्तु यतयः स' । छ. न्ति विनिद्रास्तु सर्वगं स । ५. वैकृत्परि । ६क. ख. ड. च. छ. स. ट. वशं गतः । ७ म. ब्रह्मणः सर्वमतुलावा । ८ म सिता य' ।