SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ९३ त्रिनवतितमोऽध्यायः 1 पद्मपुराणम् । ३४ तीर्थमाता महादेवी अघराशिविनाशिनी । उभयोः कूलयोर्मध्ये यत्र तत्र नरः सुधीः ॥ अश्वमेधफलं भुङ्क्ते स्नानेनैकेन मानवः ॥ एतत्ते सर्वमाख्यातं यत्त्वया परिपृच्छितम् । सर्वपापापहं पुण्यं गतिदं चापि शृण्वताम् ॥ ३५ इति श्रीमहापुराणे पाये भूमिखण्डे वेनोपाख्याने गुरुतीर्थे च्यवनेोपाख्याने द्विनवतितमोऽध्यायः ॥ ९२ ॥ आदितः श्लोकानां समश्यङ्काः – ७५९४ अथ त्रिनवतितमोऽध्यायः । कुञ्जल उवाच किं विज्वल त्वया दृष्टमद्भुतं भ्रमता महीम् । आश्वर्येण समायुक्तं तन्मे कथय सुव्रत ॥ इतः प्रयासि यं देशमाहारार्थं तु सांप्रतम् । तत्र दृष्टं ममाऽऽचक्ष्व चित्रं कौतुकमेव वा ॥ विज्वल उवाच – २१७ .. २ ७ ८ ९ अस्ति मेरुगिरेः पृष्ठ आनन्दं नाम काननम् । दिव्यवृक्षैः समाकीर्ण फलपुष्पमयैः सदा ॥ देवनृन्दैः समाकीर्ण मुनिमिद्धसमन्वितम् । अप्सरोभिः सुरूपाभिर्गन्धर्वैः किंनरोरगैः ॥ वापीकूपतडागैश्च नदीप्रस्रवणैस्तथा । आनन्दकाननं पुण्यं दिव्यभावैः प्रभासते । विमानैः कोटिसंख्याभिर्हसकुन्देन्दुमंनिभैः । गीतकोलाहलै रम्यैर्मेधध्वनिनिनादितम् || षट्पदानां निनादैश्च सर्वत्र मधुरायते । चन्दनैश्व सुट्टक्षैश्च चम्पकैः पुष्पितैर्वृतम् || नानादृक्षैः प्रभात्येवमानन्दवनमुत्तमम् । नानापक्षिनिनादैश्च वनं कोलाहलान्वितम् || एवमानन्दकं दृष्टं मया तत्र सुशोभनम् । त्रिमलं च सरस्तात शोभते सागरोपमम् ॥ संपूर्ण पुण्यतोयेन पद्मसौगन्धिकैः शुभैः । जलजन्तुसमायुक्तं हंसकारण्डवान्वितम् ।। [*एवमासीत्सरस्तस्य सुमध्ये काननस्य हि । देवगन्धर्वसंवाधैर्मुनिवृन्दैरलंकृतम् ] ॥ [+ किंनरोरगगन्धर्वैश्वारणैश्च सुशोभत । तत्राऽऽश्वर्य मया दृष्टं तात वक्तुं न शक्यते ] ॥ विमाने दिव्यभोगाव्ये कलशैरुपशोभिते । छत्रदण्डपताकाभी राजमानोऽथ तत्र हि ॥ [*सर्व भोगयुतेना (तथा) पिगीयमानोऽथ किंनरैः । गन्धर्वैश्वाप्सरोभिश्च शोभमानोऽथ सुव्रत ] १४ स्तूयमानो महासिद्धैर्ऋषिभिस्तत्त्ववेदिभिः । रूपेणाप्रतिमो लोके न दृष्टस्तादृशः कचित् ॥ १५ सर्वाभरणशोभाङ्गो दिव्यमालाविभूषितः । महारत्नकृता माला तस्योरसि विराजते ॥ १६ तत्समीपे स्थिता चैका नारी दृष्टा वरानना । मुक्ताहारैः समायुक्ता वलयैः कङ्कणैर्युता ॥ १० ११ १२ १३ १७ ३ ४ * एतच्चिहान्तर्गतः पाठः क ख च झ. पुस्तकस्थः । + एतच्चिदान्तर्गतः पाठ क. ख. घ. ह. च. छ. झ ट ठ ड. द. पुस्तकस्थः । * एतच्चिद्वान्तर्गतः पाठः क. ख. घ ङ च छ झ ट ट ट ड ढ पुस्तकस्थः । १ क. ख. घ. ड च. छ. झ ट ठ ड ढ तीर्थमाला । २क. ख. ङ. च. छ. झ. ड. ८. म्। एवमुक्त्वा महाप्राज्ञस्तृर्तायं पुत्रमब्रवीत् । इ ं । ३ घ ट ठ ड वृक्षै स । ४ ड ते । कोटिसंख्यादिभिर्युक्तं हंसैः कु । ५ घ ङ. छ. झ. ट. ठ, ड, ँम्यैर्वेदध्व ं । ६ डम् । विमलोऽस्ति तत्र वै तात सागरः शोभते सदा । सं । अ म् । तत्र तावत्प्रमाणोऽस्ति शोभमानः सरोवरः । सं । ७ अ. संपूर्णः । ८ न युक्तो हं' । ९ म. न्वितः । दें। क, ख, घ, ङ. व. छ. झ ट. ट. ड. द. 'ते । हेमहारश्च मुक्तानां वल ।
SR No.010652
Book TitlePadmapurana Part 01
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1893
Total Pages387
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy