________________
९९ नवनवतितमोऽध्यायः ] पद्मपुराणम् ।
यो दृष्टो निजपण्डपे सुरगणैः श्रीवामनः सामगः __ सामोद्गीतकुतूहलः सुरगणेचैलोक्य एकः प्रभुः । कुर्वस्तु ध्वनितैः स्वकैर्गतभयान्यः पापभीतारणे __तस्याहं चरणारविन्दयुगलं वन्दे परं पावनम् ॥ राजन्तं निजमण्डले मखमुखे ब्रह्मश्रिया पूजितं
दिव्येनापि स्वतेजसा करमयं यं चेन्द्रनीलोपमम् । देवानां हितकाम्यया सुतनुजं वैरोचनस्यार्पर्क
दासत्वं मम दीयतां सुरपते बन्दे परं वामनम् ॥ तं दृष्टं रविमण्डले मुनिगणैः संप्राप्तवन्तं दिवं
चन्द्रार्की तु तपन्नमेव सहसा संप्राप्तवन्ती सदा । तस्यैवापि सुचक्रिणः सुरगणाः पापुर्लयं सांपतं
काये विश्वविकोशके तमतुलं नौमि प्रभुं विक्रमम् ॥ इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनोपाग्व्याने गुरुतीर्थेऽश्नवतितमोऽध्यायः ॥ ९८ ॥
आदितः श्लोकानां समयङ्काः-७९.५७
अथ नवनवतितमोऽध्यायः ।
विष्णुरुवाच -
स्तोत्रं पवित्रं परमं पुराणं पापापहं पुण्यमयं शिवं च ।। धन्यं सुसक्तं परमं सुजाप्यं निशम्य राजन्म सुरवी बभूव ।। गता सुतृष्णा क्षुधया समेना देवोपमो भुमिपनिर्वभृव । भार्या च राज्ञः सुभगा वभव जातावुभौ पापविमुक्तदेहौ ।। हरिस्तु देवः प्रभुराविरासीद्विप्रः सुपुण्यैर्हरिभक्तियुक्तः । आगत्य भूपं गतकल्मषं तं श्रीशङ्खचक्राब्जगदासिधा ॥ श्रीनारदो भार्गवव्यासमुख्याः समागतास्तत्र मृकण्डसूनुः । वाल्मीकिनामा मुनिर्विष्णुभक्तः समागतो ब्रह्मसुतो वसिष्ठः ।। गर्गो महात्मा हरिभक्तियुक्तो जावालिरभ्यावथं काश्यपश्च । आजग्मुरेते हरिणा समेना विष्णुप्रिया भागवतां वरिष्ठाः ॥ पुण्याः सुधन्या गतकल्मपास्ते हरेः सुपादाम्बुजभक्तिलीनाः। श्रीवासुदेवं परिवार्य तस्थुः स्तुवन्ति भूपं विविधप्रकारैः ॥
१क.ख. घ. ङ. च. छ. झ. ट. . ढ. सूत उवाच । २ क. ख. १. च छ. झ. ड. द. राजा स । ३ घ. ट.. १. भूतप । ४ क. ख. च. ड. च तस्यापि सुभाति रूपाता । ङ. छ. झ. द. च तस्यापि विभाति रूपैर्जाता। प. ट. ठ. च तस्य सुभगा च रूपाता । ५ इ. छ. झ. ह. द. ५ कश्य । ६ क. ख. च. झ. पं परिवार्य तस्थुः । दें। छ. 'पं परिवार्य ते तु । दें।