________________
[ १ आदिखण्डे
महामुनिश्रीव्यासप्रणीतकुमार्यः पञ्च सर्वास्ता वयमा संभगाः पुनः । भाषन्ते च मिथस्तास्तु भगिन्य इव सर्वदा ॥१२ चन्द्रादिव विनिष्क्रान्ताश्चन्द्रिका इव सोज्ज्वलाः। चन्द्राननाः सुकेश्यश्च चन्द्रकान्ता इवोज्ज्वलाः। देवेष्वेता विलासिन्यः कौमुद्यः कैरवेष्विव । लावण्यपिण्डसंभूता बहुरूपा मनोहराः॥ १४ उद्भिशकुचपभिन्यः केतक्य इव माधवं । उन्मीलधौवनैः कान्ता वल्लीव नवपल्लवैः॥ १५ हेमगौराश्च हेमामा हेमाभरणभूषिताः । हेमचम्पकमालिन्यो हेमच्छविसुवाससः ॥ १६ खरग्रामवलीहासु(?) विविधामूर्छनासु च । तालवाद्यविनादेषु वेणुवीणावादने ॥ १७ मृदानादसंभिन्नलास्यमध्यलयेषु च । चित्रादिषु विनोदेषु कलासु च विशारदाः ॥ १८ एवंभूताश्च ताः कन्या मुमुहुः क्रीडनैवरैः । पितृभिर्लालिताः सर्वाश्वेश्च धनदालये ॥ १९ कौतुकादेकदा पश्च मिलित्वा मासि माधवे। कन्या मन्दारपुप्पाणि विचिन्वत्यो वनाद्वनम् ।। २०
गौरी समाराधयितुं सुराङ्गनाः कदाचिदच्छोदसरोवरं ययुः। हेमाम्बुजानि प्रवराणि ताः पुनस्तस्मादुपादाय वरात्पलैः सह ॥ वैडूर्यशुद्धस्फटिकप्रकुट्टिमे स्नात्वा तु घट्टे परिधाय चाम्बरम् । मोनेन च स्थाण्डलपिण्डिकामयीं सुवर्णमुक्ताभरणां विनिर्ममुः ॥ समर्चितां चन्दनगन्धकुड़कुमैरभ्यर्च्य गौरी वरपङ्कजादिभिः । नानोपहारैश्च सुभक्तिभाविता लास्यप्रयांगैननृतुः कुमारिकाः ॥ गान्धर्वमाश्रित्य परं स्वरं ततो गेयं सभावध्वनिभिः समूर्छनम् । एणीदृशस्ताः प्रजगुः कलाक्षरं तारपद्धं गतिभिश्च मुस्वरम् ॥ तस्मिन्सुभावे रसवर्षहर्षे कन्यास्वलंनिर्भरचित्तवृत्तिषु । अच्छोदतीर्थे प्रवरे तदाऽऽगतः स्नातुं मुनेर्वेदनिधेः सुतोऽग्रजः ॥ रूपेण निःसीमतरो वराननः प्रफुल्लपद्मायतलांचना युवा । विस्तीर्णवक्षाः सुभुजोऽतिसुन्दरः श्यामच्छविः काम इवापरो हि सः ॥ २६ स ब्रह्मचारी मुशिखो हि शोभते दण्डेन युक्तो धनुपेव मन्मथः ।
एणाजिनप्रावरणः समुद्रधृग्धेमाभमोञ्जीकटिमेखलः परः ।। तं दृष्ट्वा ब्राह्मणं वालास्तास्तत्र सरसस्तंट । जहषुः कौतुकाविष्टा अयं ना भविताऽतिथिः ॥ २८ संमुक्तगीतनृत्यास्तास्तस्याऽऽलोकनलालसाः। हरिण्या लुब्धकेनेव विद्धाः कामेन सायकैः।। २९ पश्य पश्यति जल्पन्त्यो मुग्धाः पञ्च ससंभ्रमम् । तस्मिन्त्रिप्रवरे यूनि कामदेवभ्रमं ययुः ॥ ३० पुनः पुनस्तमभ्यर्च्य नयनैः पङ्कजेरिव । पश्चाद्विचार(?)मारब्धमप्सरोभिः परस्परम् ॥ ३१ यद्ययं कामदेवो हि रांतहीनः कथं भवेत् । अन्यथा ह्यश्विनी देवी तावुभौ युगचारिणौ ॥ ३२ गन्धर्वः किनरो वाऽथ सिद्धो वा कामरूपधृक । ऋपिपुत्रोऽथ वा कश्चित्कश्चिद्वा मनुजोत्तमः॥३३ अस्ति वा कश्चिदेवायं धात्रा सृष्टो हि नः कृते । यथा भाग्यवतामर्थे निधानं पूर्वकर्मभिः ॥ ३४ तथाऽस्माकं कुमारीणां गौर्याऽऽनीतो वरोत्तमः । करुणाजलकल्लोललब्धाकृतचित्तया ॥ ३५ पया वृतस्त्वया चायं त्वया वृतस्तथाऽनया । एवं पञ्चसु कन्यासु वदन्तीषु नृपोत्तम ॥ ३६ श्रुत्वा तद्वचनं तत्र कृतमाध्याह्निकक्रियः । आलोच्य हृदये सोऽपि विनमंतद्विचिन्तितम् ॥ ३७
१. ससमा गणैः । भा २ ख. म. यः। चिन्तयामास मेधावी कि कृत्वा सक्रतं भवेत । गाधिसंभवपराशरादयः कणुदेवलमुखाश्च ये द्विजाः ॥ ते'।