________________
२२ द्वाविंशोऽध्यायः ]
पद्मपुराणम् ।
ब्रह्मविष्णुगिरिशादयः सुरा येऽपि सिद्धमुनयः पुरातनाः । dsपि योगबलिनो विमोहिता लीलया तदबलाभिरद्भुतम् ॥ योषितां नयनतीक्ष्णसायकै भ्रूलता सुदृढ चापनिर्गतैः । धन्विना मकरकेतुना हतः कस्य नो पतति वा मनोमृगः ॥ तावदेव नयधीविराजते तावदेव जनता भयं भवेत् । तावदेव धृत्तचित्तता भृशं तावदेव गणना कुलस्य च ॥ तावदेव तपसः प्रगल्भता तावदेव समवेतता नृणाम् । यावदेव ललितेक्षणासवैर्माद्यतेऽद्भुतमदैर्न पूरुषः ॥ मोहयन्ति मदयन्ति रागिणं योषितः स्वललितैर्मनोहरैः । मोहयन्ति मदयन्ति मामिमा धर्मरक्षणपरं हि स्वैर्गुणैः ॥ मांमरक्तमलमूत्रनिर्मिते योषितां वपुषि निर्गुणेऽशुचौ । कामिनस्तु परिकल्प्य चारुतामाविशन्ति सुविमूढचेतसः ॥ दारुणा हि परिकीर्तिताऽङ्गना साधुभिर्विमलबुद्धिभिर्बुधैः । यावदेव न समीपगास्त्विमास्तावदेव हि गृहं व्रजाम्यहम् ॥ समीपं तस्य यावन्न आगच्छन्ति वरस्त्रियः । वैष्णवेन प्रभावेण तावदन्तर्दधे द्विजः ॥ तस्य योगबलाद्भुप गतस्यादर्शनं तदा । दृष्ट्वा तदद्भुतं कर्म वैष्णवब्रह्मचारिणः ॥ वित्रस्तनयना बालाः कुरङ्गय इव कातराः । संक्रान्तनयनाः जुन्या ददृशुस्ता दिशो दश ।। ४७
४४
४५
४६
३७
* एतच्चान्तर्गतं . पुस्तके |
१८. सर्जका । २ ख. अ. कुतो । ३ क. वेदा । प । ४ ख. अ. था । दुःखदत्वं न प्रयान्ति ।
३८
३९
४०
४१
४२
४३
कन्या ऊच:
४९
इन्द्रजालं स्फुटं वेत्ति मायां जानाति वा पुनः । दृष्टोऽप्यदृष्टरूपोऽभूदित्यूचुस्ताः परस्परम् ॥ ४८ व्याप्तं च हृदयं तासां तदैव विरहाग्निना । ज्वलद्दावानलेनेव सुस्निग्धं सर्वकाननम् ॥ त्यजेन्द्रजालिका विद्यां कान्त दर्शय सत्वरम् । आत्मानं न हि ते युक्तं प्राग्ग्रासे मक्षिकोपमम् ||५० हा कष्टं दर्शितः कस्माद्धात्रा त्वं घटितः कुतः । ज्ञोतं महानुसंतापहेतुर्नस्त्वं विनिर्मितः ॥ ५१ कच्चित्ते निर्दयं चेतः कच्चिदस्मासु नो मतिः । कच्चित्क्रूरोऽसि हे कान्त कच्चिन्मुष्णासि नो मनः ।। ५२ कच्चिन्न प्रत्ययोऽस्मासु कच्चिदस्मान्परीक्षसं । कच्चिन्निर्ममताशीलः कच्चिन्मायाविशारदः ।। ५३ कच्चिच्चित्ते प्रवेष्टुं च वेत्सि विज्ञानलाघवम् । कच्चिन्निष्क्रमणोपायं न जानासि कुतः पुनः ॥५४ कच्चिद्विनाऽपराधं तु किमस्मासु प्रकुप्यसे । कच्चिदुःखं न जानासि परेषां विमलम्भनम् ।। ५५ त्वदर्शनं विना नष्टा हृदयेश्वर सांप्रतम् । न जीवामोऽथ जीवामः पुनस्त्वद्दर्शनाशया ॥ ५६ वयं च नीयन्तां तत्र शीघ्रं यत्र गतो भवान् । त्वदर्शनहरो धाता व्यधान्मोदाङ्कुरच्छिदाम् ।। ५७ सर्वथा दर्शनं देहि करुणो भव सर्वथ । पर्यन्तं न प्रपश्यन्ति कस्यचित्सज्जना जनाः ॥ ५८ इत्थं विलप्य ताः कन्याः प्रतीक्ष्य च बहुक्षणम् । पितुर्भयागृहं गन्तुं शीघ्रमारेभिरे ततः ॥ ५९ तत्प्रेमनिगडैर्ब्रद्धा भृशं विरहविक्लवाः । कथंचिद्धैर्यमालम्ब्य ताः स्वं स्वं गृहमागताः ॥ ६० आगत्य पतिताः सर्वा मातॄणां तु समीपतः । किमेतन्मातृभिः पृष्टाः कुतः कालात्ययोऽभवत् । । ६ १ [कन्या ऊचुः]—