________________
महामुनिश्रीव्यासमणीतं
[ आदिखण्डेकीडन्त्यः किंनरीभिस्तु सार्थ संगतकं यदा। संस्थितास्तेन न ज्ञावो दिवसोऽच्योदसरोवरे॥६२ पपि श्रान्ता वयं मातः संतापस्तेन नस्तनौ । मोहेन महता वक्तुं न केनाप्युत्सहामहे ॥ ६३
[* नारद उवाचइत्युक्त्वा लुठितास्तत्र मणिभूमौ कुमारिकाः। आकारं मोषवन्स्यस्ता मुग्धा जल्पन्ति मातृभिः।।६४ काचिभर्तयति क्रीडामयूर न मुदा तदा । म पाठयति से कीरं पञ्जरेऽन्या कुतहलात् ।। ६५ लालयेनकुलं नान्या नोल्लापयति सारिकाम् । अपराऽतीव संमुग्धा नैव खेलति सारसैः॥६६ भेजिरे न विनोदं ता रेमिरे नैव मन्दिरे । ऊचिरे वान्धवर्नालं वीणाबाचं न चक्रिरे ॥ ६७ कल्पद्रुमप्रसूनं यत्सर्व तच्चानलोपमम् । मन्दारकुमुमामोदि न पधर्मधुरं मधु ॥ ६८ योगिन्य इव ताः कन्या नासाग्रन्यस्तलोचनाः । अलक्ष्यध्यानसंतानाः पुरुषोत्तममानसाः॥६९ चन्द्रकान्तमणिच्छन्ने स्रवद्वारिणि कन्दरे । क्षणं वातायने स्थित्वा जलयगृहे क्षणम् ॥७० रचयन्ति क्षणं शय्यां दीर्घिकाम्भोजिनीदलेः। वीज्यमानाः सखीभिस्ताः शीतलेनलिनीदलैः॥७१ इत्यं युगसमां रात्रिमनयंस्ता वरस्त्रियः । कथंचिद्धारणं कृत्वा विहलाः मज्वरा इव ॥ ७२ प्रातोममणिं दृष्ट्वा मन्यमानाः स्वजीवितम् । विज्ञाप्य मातरं स्वां स्वां गौरी पूजयितुं गताः ॥७३ स्नात्वा तेन विधानेन पुष्पेधूपैस्तथा पुनः। विधाय पूजनं देव्या गायन्त्यस्तत्र ताः स्थिताः।।७४ एतस्मिन्नन्तरे विप्रः स्नातुं सोऽपि समागतः । पितुराश्रमतस्तस्मादच्छोदेऽत्र सरोवरे ॥ ७५ मित्रं दृष्ट्वैव राज्यन्ते पअिन्य इव कन्यकाः । उत्फुल्लनयना जातास्तं दृष्ट्वा ब्रह्मचारिणम् ॥७६ गत्वा तत्रैव ताः कन्याः समीपं ब्रह्मचारिणः । सव्यापसव्यबन्धेन भुजपाशं च चक्रिर ।। ७७ गतोऽसि प्रिय पूर्वेधुर्गन्तुमद्य न लभ्यते । वृतस्त्वं ननमम्माभिर्नात्र नेऽस्ति विचारणा ॥ ७८ इत्युक्तो ब्राह्मणः प्राह प्रहसन्बाहुपाशगः । युप्माभिरुच्यते भद्रमनुकलं प्रियं वचः॥ ७९ प्रथमाश्रमनिष्ठस्य किं तु नश्येत मे व्रतम् । विद्याभ्यमनशीलस्य निष्ठतश्च गुगः कुले ॥ ८० आश्रमे यत्र यो धर्मो रक्षणीयः स पण्डितेः । विवाहोऽयमतो मन्ये न धर्म इनि कन्यकाः।। ८१ आकर्ण्य विश्वाक्यानि विप्रमूवरस्त्रियः । सकलध्वनि सात्कण्ठाः कोकिला इव माधव ॥ ८२ धर्मादर्थोऽर्थतः कामः कामात्सुखफलोदयः । इत्येवं निश्चयज्ञास्त वणेयन्ति विपश्चितः ॥ ८३ स कामो धर्मबाहुल्यात्पुरतस्ते समुत्थितः । सेव्यतां विविधौगः स्वच्छा भूमिरियं यतः॥८४ श्रुत्वा तद्वचनं तासां प्राह गंभीरया गिरा । तथ्यं वा वचनं किं तु ममाप्यावश्यकं व्रतम् ॥ ८५ माप्यानुज्ञां गुरोः कुर्वे विवाहकर्म नान्यथा । इत्युक्ताः पुनरूचुस्ताः स्फुटं मूढोऽसि सुन्दर ॥८६
सिद्धौषधं ब्रह्मधिया रसायनं सिद्धिनिधिः साधुकला वराङ्गनाः।। मन्त्रस्तथा सिद्धरसश्च धर्मतो मुने निषेव्याः सुधिया समागताः॥ ८७ कार्य तु देवायदि सिद्धिमागतं तस्मिन्नुपेक्षां न च यान्ति नीतिगाः॥
यस्मादुपेक्षा न पुनः फलपदा तस्मान दीर्धीकरणं प्रशस्यते ॥ विषादप्यमृतं ग्रामममेध्यादपि काश्चनम् । नीचादप्युत्तमा विद्या स्त्रीरत्नं दुष्कुलादपि ॥ ८९
८८
* ट. पुस्तक एवायं पाठः।
ख. म. सहतिके । २ ख. म. 'चित्तर्पय । ३ इ.च.ट. द. ने तव ।ख अ. 'ने सब । ४ क. तु नाद्यापि मे । ५ क. 'स्य नाभूत्पारं गु।