________________
२३ त्रयोविंशोऽध्यायः ]
पद्मपुराणम् ।
९०
सान्द्रानुरागाः कुलजन्मनिर्मलाः स्नेहार्द्रचित्ताः सुगिरः स्वयंवराः । कन्याः सुरूपाः खलु चारुयौवना धन्या लभन्तेऽत्र नरास्तु नेतरे ॥ $ वयं सुरसुन्दर्यः क भवांस्तापसो बदुः । दुर्घटस्य विधानेन मन्ये धातैव पण्डितः ॥ ९१ तस्मादस्मादि (नि)दानीं तु स्वीकुर्यान्मङ्गलं भवान् । गान्धर्वेण विवाहेन अन्यथा नोपजीवनम् ॥ ९२ श्रुत्वा वाक्यं ततः प्राह ब्राह्मणो धर्मवित्तमः । भो मृगाक्ष्यः कथं त्याज्यो धर्मो धर्मधनैर्नरैः ॥९३ धर्मश्वाश्च कामश्च मोक्षचतुष्टयम् । यथोक्तं फलदं ज्ञेयं विपरीतं तु निष्फलम् ॥ ९४ नाकाsहं व्रती कुर्यामतो दारपरिग्रहम् । न क्रिया फलमामोति क्रियाकालं न वेत्ति यः ॥ ९५ यतो धर्मविचारेऽस्मिन्प्रसक्तं मम मानमम् । तस्माच्छृणुत हे कन्या न समीहे स्वयंवरम् ॥ ९६ एवं ज्ञात्वाऽऽशयं तस्य समीक्ष्यैव परस्परम् । करात्करं विमुच्याथ जग्राहाङ्घ्रि प्रमोहिनी ॥१७ भुजौ जगृहतुस्तस्य सुशीला सुस्वरा तथा । आलिलिङ्ग सुतारा च वक्त्रं चुम्बति चन्द्रिका ॥ ९८ Farst fafaarisar प्रलयानलसंनिभः । शशाप ब्रह्मचारी ताः क्रोधेनात्यन्तमूर्च्छितः ।। ९९ पिशाच्य इव मां लग्नास्तत्पिशाच्या भविष्यथ । एवं तेनाऽऽशु शप्तास्तास्तं त्यक्त्वा पुरतः स्थिताः ॥ किमेतच्चेष्टितं पापं ह्यनागसि विचेष्टया । प्रियंकृतोऽप्रियं कृत्वा धिक्त्वां धर्मकृतान्तकः ॥ १०१ अनुरक्तेषु भक्तेषु मित्रेषु द्रोहकारिणः । पुंसो लोकोभयोः सौख्यं नाशमेतीति नः श्रुतम् ॥१०२ तस्मात्रमपि नः शापात्पिशाचो भव सत्त्वरम् । इत्युक्त्वाऽपि च ता बाला निःश्वसत्यैः क्षुधाकुलाः॥ तदैवान्योन्यसंरम्भास्तस्मिन्सरसि पार्थिव । ताः कन्या ब्रह्मचारी च सर्वे पैशाच्यमागताः ।। १०४ स पिशाचः पिशाच्यस्ताः क्रन्दमानाः सुदारुणम् । क्षपयन्ति विपाकांस्तान्पूर्वोपात्तस्य कर्मणः १०५ स्वकाले प्रभवत्येव पूर्वोपात्तं शुभाशुभम् । स्वच्छायाभिव (?) दुवारं देवानामपि पार्थिव ॥ १०६ क्रन्दन्ति पितरस्तासां मातरस्तत्र तत्र च । भ्रातरश्चैव बालानां देव हि दुरतिक्रमम् ।। १०७ अत ऊर्ध्वं पिशाचास्त आहारार्थं सुदुःखिताः । इतस्ततश्च धावन्तो वसन्ति सरसस्तटे ।। १०८ इति श्रीमहापुराणे पाच आदिसण्डे द्वाविशोऽध्यायः ।। २२ ।। आदित. लोकानां समयङ्काः - १११७
अथ त्रयोविशोऽध्यायः ।
३९
नारद उवाच --
१
एवं बहुतिथे काले लोमशो मुनिसत्तमः । आगतश्च महाभागस्तत्र यादृच्छिको मुनिः ॥ तं दृष्ट्वा ब्राह्मणं सर्वे पिशाचाः क्षुत्समाकुलाः । धावन्तो यत्तकामास्ते मिलित्वा यूथवर्तिनः ॥ २ दह्यमानाः सुतीत्रेण तेजसा लोमशस्य तु । असमर्थाः पुनः स्थातुं ते सर्वे दूरतः स्थिताः || ३ तत्र पूर्वकर्मबलात्पिशाचः स ह वै द्विजः । समीक्ष्य लोमशं राजन्साष्टाङ्गं प्रणिपत्य च ॥ ४ उवाच सूनृतां वाचं बद्ध्वा शिरसि चाञ्जलिम् । महाभाग्योदये विम साधूनां संगतिर्भवेत् ॥ ५ गङ्गादिपुण्यतीर्थेषु यो नरः स्नाति सर्वदा । यः करोति सतां सङ्गं तयोः सत्सङ्गमो वरः ।। ६ गुरूणां सङ्गमो विप्र दृष्टादृष्टफलो भुवि । स्वर्गदो रोगहारी च किं तमोपहरो मतः ॥
I
७
५ क "कृत्योमय कृत्वा तां धर्मकृतां तव । अ । २ ख. म. 'यः कुधा । ३ क च । आप्रसादं च बा ं । ४ ख. ञ. ंन्तां वक्तुका । ५ ख. अ. 'त्वा पांथ व ।