________________
१८६
महामुनिश्रीव्यासप्रणीतं -
[ १ भूमिखण्डे -
1
१७
१०
[*अपि संतोषशीलश्च मृदुगामी प्रियंकरः । निर्मलो रसवांश्चासौ पुण्यवीर्यो मलापहः ।। तथा शान्तो भवेत्पुत्रि सर्वसौख्यप्रदायकः । यथा वह्निप्रसङ्गाच्च मलं त्यजति काञ्चनम् ।। १८ तथा सतां हि संसर्गात्पापं त्यजति मानवः । सत्यवह्निप्रदीप्तश्च प्रज्वलेत्पुण्यतेजसा ॥ सत्येन दीप्तिमचैव ज्ञानेनापि सुनिर्मलः । अत्युष्णो ध्यानभावेन ह्यस्पृश्यः पापजैर्नरैः ॥ २० सत्यवह्नेः : प्रसङ्गाच्च पापेन्धनं दिधक्षति । तस्मात्सत्यस्य संसर्गः कर्तव्यां नान्यथा त्वया ] ॥ २१ तस्मात्पुत्रि महाभागे चिन्तयाधोक्षजं हरिम् । पापभावं परित्यज्य पुण्यमेव समाश्रय ॥
२३
सूत उवाच --
एवं पित्रा सुनीथा सा दुःखिता प्रविबोधिता । नमस्कृत्य पितुः पादों सा गता निर्जनं वनम् ॥ arerrar परित्यज्य बाल्यभावं तपस्विनी । मोहद्रोहौ च मायां च त्यक्त्वा चैकान्तमास्थिता २४ तस्याः सख्यः समाजग्मू रम्भाद्यास्तास्तपोन्विताः । ददृशुस्तां विशालाक्ष्यः सुनीथां दुःखभागिनीम ध्यायन्तीं चिन्तयानां तामूचुस्ताः समुपागताः । कस्माच्चिन्तसि भद्रं ते त्वनया चिन्तयाऽन्विता ॥ संतापकारणं ब्रूहि चिन्ता दुःखप्रदायिनी । एकैव सार्थका चिन्ता धर्मस्यार्थे विचिन्त्यते ॥ २७ द्वितीया सार्थका चिन्ता योगिनां धर्मनन्दिनि । अन्या चानर्थका चिन्ता तां नैव परिकल्पयेत् ।। कॉमनाशकरी चिन्ता बलतेजः प्रणाशिनी । नाशयेत्सर्वसौख्यं तु रूपहानिं विदर्शयेत् ॥ २९ [ तृष्णामोहौ तथा लोभमेनांश्चिन्ता हि प्रापयेत् । पापमुत्पादयेचिन्ता चिन्तिता च दिने दिने ३० चिन्ता व्याधिप्रकाशाय नरकाय प्रकल्पयेत् ] । तस्माच्चिन्तां परित्यज्य चानुवर्तस्व शोभनं ।। ३१ अर्जितं कर्मणा पूर्व स्वयमेव नरेण तु । तदेव भुतेऽसौ जन्तुज्ञानवान्न विचिन्तयेत् || तस्माच्चिन्तां परित्यज्य सुखदुःखादिकं वद । तामां तद्वचनं श्रुत्वा सुनीथा वाक्यमब्रवीत् ।। ३३ इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनेोपाख्याने सुनीथाचरितं नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥ आदितः श्लोकानां समश्यङ्काः – ४९४४
३२
अथ त्रयस्त्रिशोऽध्यायः ।
सूत उवाच
यथा शप्ता बने पूर्व सुशङ्खेन महात्मना । तासु सर्वे यथाssव्यातं सखीप्वेवं विचेष्टितम् ।। आत्मनश्च महाभागा दुःखेनापि प्रपीडिता ।।
सुनीथोवाच
अन्यच्चाहं प्रवक्ष्यामि सख्यः शृण्वन्तु सांप्रतम् ||
मदीयां रूपसंपत्ति वयसां गुणसंपदम् । विपश्यन्मां पितुश्चिन्ता संजाता मम कारणात् ।। देवेभ्यो दातुकामोऽसौ मुनिभ्यस्तु महायशाः । स्वहस्ते तु निगृह्येव देवानिदमुदाहरत् । गुणाढ्येयं सुता बाला ममत्रं चारुलोचना । दातुकामोऽस्मि भद्रं वो गुणिने व महात्मनं ॥
एतच्चिहान्तर्गतः पाठः क. ख. ङ च छ झ. ड. ट. पुस्तकस्थः । एतच्चिदान्तर्गताऽय पाठी ड. पुस्तकस्थः ।
*
४
१ क. ख. उ. च. छ. झ. ट. भारं पं । २क. ख. ड. च. छ. झ. ट. 'जग्मुः क्रीडार्थ लीलयाऽन्वि । ३ क ख. ड. च. छ. झ. ट . ट. भद्रे त्वं त्वं । ४ क. ख. इ. च. छ. झ. 'कायना । ५ क. ख. ड. च. छ. झ. ड. ह. सुखेन । ६ क. ख. ड.च. छ. ट.ड. ड. वं समाख्या ।