________________
२२८
महामुनिश्रीव्यासप्रणीतं -
[ २ भूमिखण्डे
४३
तगृहं सर्वतो भद्रं तस्यैव शिवशर्मणः । भिक्षां देहीत्युवाचार्थ सुदेवा दुःखपीडिता ।। शिवशर्माऽथ शुश्राव भिक्षाशब्दं द्विजोत्तमः । मङ्गला नाम वै भार्या लक्ष्मीरूपा वरानना ।। ४४ [*ni इसन्प्राह धर्मात्मा शिवशर्मा महामतिः । हंसन्तीं दुर्बलां प्राप्तां भिक्षार्थी द्वारमागताम् ४५ समाहूय प्रिये चैनां देहि त्वं भोजनं शुभे । कृपया परयाऽऽविष्टा ज्ञात्वा मां तु समागताम् ४६ प्रोवाच मङ्गला कान्तं दास्यामि प्रियभोजनम् । एवमुक्त्वा च भर्तारं मङ्गला मङ्गलान्विता ॥ ४७ पुनर्मा भोजयामास मिष्टान्नेन सुदुर्बलाम् । मामुवाच स धर्मात्मा शिवशर्मा महामुनिः ॥ ४८ का त्वमत्र समायाता कथं वा भ्रमसे जगत् । केन कार्येण सर्वत्र कथयस्व ममाग्रतः ॥ एवमाकर्ण्य तद्वाक्यं भर्तुःश्चैव महात्मनः । स्वरेण लक्षितः कान्तो मया वै पापया तदा ॥ व्रीडयाऽधोमुखी जाता दृष्टो भर्ता यदा मया । मङ्गला चारुसर्वाङ्गी भर्तारमिदमब्रवीत् ।। का चेयं हि समाचक्ष्व त्वां दृष्ट्वा हि विलज्जति । कथयस्व प्रसादेन का च एषा भविष्यति ५२ इति श्रीमहापुराणे पाद्मे भूमिखण्डे वनोपाख्याने सुकलाचरित एकपञ्चाशत्तमोऽध्यायः ॥ ५१ ॥ आदितः श्लोकानां समथ्र्यङ्काः – ५९२७
४९
५०
५१
अथ द्विपञ्चाशत्तमोऽध्यायः ।
शिवशर्मोवाच
२
३
४
६
७
मङ्गले श्रूयतां वाक्यं यदि पृच्छसि सांप्रतम् । यदर्थं हि त्वया पृष्टं तन्निबध वरानने ॥ इयं हि सांप्रतं प्राप्ता बराकी भिक्षुरूपिणी । वसुदत्तस्य विप्रस्य सुतेयं चारुलोचने ।। सुदेवा नाम भद्रेर्यं मम जाया प्रिया सदा । केनापि कारणेनैव देशं त्यक्त्वा समागता ।। मम दुःखेन दग्धेयं वियोगेन वरानने । मां ज्ञात्वा सा समायाता भिक्षुरूपेण ते गृहम् ॥ एवं ज्ञात्वा त्वया भद्र आतिथ्यं परिशोभनम् । कर्तव्यं च न संदेह ईच्छन्त्या मम सुप्रियम् ॥ ५ भर्तुर्वाक्यं निशम्यैव मङ्गला पतिदेवता । हर्षेण महताऽऽविष्टा स्वयमेव सुमङ्गला ।। स्नानाच्छादनभोज्यं च मम चक्रे वरानने । रत्नकाञ्चनयुक्तैश्च भरणैश्च पतिव्रता || अहं हि भूषिता भद्रे तथैव पतिकाम्यया । तयाऽहं सुखिता देवि मानस्नानैश्च भोजनैः ॥ ८ भर्त्राऽहं मानिता भद्रे जातं दुःखमनन्तकम् । ममोरसि महाती सर्वप्राणविनाशनम् ॥ तस्या मानं मया दृष्टमात्मनश्च सुदुष्कृतम् । चिन्ता मे दारुणा जाता यया प्राणा व्रजन्ति मे १० कदा सुवचनं दत्तं न मया पापया भृशम् । अस्यैव विप्रवर्यस्य ह्याचरन्त्या च दुष्कृतम् ।। ११ पादप्रक्षालनं नैव चाङ्गसंवाहनं न हि । एकान्तं न मया दत्तं तस्यैव हि महात्मनः ॥ १२ कथं संभाष्यमस्यैव करिष्ये पापनिश्चया । रात्रौ चैव तदा तत्र पतिता दुःखसागरे || १३ एवं हि चिन्तमानायाः स्फुटितं हृदयं मम । गताः प्राणाः शरीरं में त्यक्त्वा तत्र वरानने ।। १४ * एतचिहान्तर्गतः पाटो . पुस्तके नास्ति ।
९
१३
१ ज. थ तदाऽहं दुः । २ ज वराकीं । ३ ग. घ. ज. ट. ड. महामतिः । ४ ग घ ङ. छ. झ. ट. ड. कस्य । ५ ज. तत्सर्वे । ६ ग. घ. ज. ट. ड. न कस्य का च भ । ७ ज. ने। त्वद्रेहे सां । ८ ज. ने। वसुदेवा नाम चेय । ९. घ. ज. यं न मे जा । १० ज. इत्युवाच मम प्रियः । भ । ११ ग. घ. ज. ट. श्च आसनैश्च । १२ क. ख. ग घ. छ. ज. श. ट. ड. यथा । १३ ज. मे पतितं धरणतिले । अ' ।