________________
५२ द्विपञ्चाशत्तमोऽध्यायः ]
पद्मपुराणम् ।
२२९
१६
१७
१८
१९
२०
२१
२२
२३
अथ दूताः समायाता धर्मराजस्य वै तदा । [वीराश्च दारुणाः क्रूरा गदाचक्रासिधारिणः १५ तैस्तु बद्धा महाभागे शृङ्गलैर्डबन्धनैः । नीता यमपुरं तैस्तु रुदमाना सुदुःखिता ॥ मुद्गरैस्ताड्यमानाऽहं दुर्गमार्गेण पीडिता । भर्त्स्यमाना यमस्याग्रे तैस्तत्राहं प्रवेशिता ।। es यमराजेन सक्रोधेन महात्मना । अङ्गारसंचये क्षिप्ता क्षिप्ता नरकसंचये ॥ लोहस्य पुरुषं कृत्वा अग्निना परितापितः । ममोरसि समुत्क्षिप्तो निजभर्तुश्च वचनात् ॥ नानापीडातिसंतप्ता नरकाग्निप्रतापिता । तैलद्रोण्यां परिक्षिप्ता करम्भवालुकोपरि ] | असिपत्रैश्च संछिन्ना जलयत्रेण भ्रामिता । कूटशाल्मलिवृक्षेषु क्षिप्ताऽनेन महात्मना ॥ सर्वेष्वेव नरकेषु क्षिप्ताऽहं नृपनन्दिनि । पीडायुक्तेषु तत्रेषु तेनैवापि महात्मना || पूयशोणितविष्ठायां पातिता कृमिमंकुले । करपत्रैः पाटिताऽहं शक्तिभिस्ताडिता भृशम् ।। अन्येष्वेव नरकेषु पातिता नृपनन्दिनि । योनिवक्त्रे प्रक्षिप्ताऽस्मि पातिता दुःखकण्टके ।। धर्मराजेन तेनाहं नरकेषु निपातिता । बहुला योनिमासाद्य भुक्तं दुःखं सुदारुणम् ॥ गताऽहं क्रोष्टुकी योनि श्वानयोनिं पुनर्गता । सर्पकुक्कुटमार्जारीमाखुयोनिं गता वहम् ।। एवं योनिविशेषेषु पापयोनिषु तेन च । क्षिप्ताऽस्मि धर्मराज्ञा वै पीडासु सर्वयोनिषु ॥ तेनैवाहं कृता भूमौ शकरी नृपनन्दिनि । तत्र हस्ते महाभागे सन्ति तीर्थान्यनेकशः ॥ तेनोदकेन सिक्ताऽस्मि त्वयैव वरवर्णिनि । मम पापं गतं देवि प्रसादात्तव सुन्दरि ॥ तवैव तेजः पुण्येन जातं ज्ञानं वरानने । इदानीमुद्धर त्वं मां पतितां नर्कसंकटात् ॥ यदा नोद्धरमे देवि पुनर्यास्यामि दारुणाम् । नर्कयांनिं महाभागे त्राहि मां दुःखभागिनीम् ।। गताऽहं पापभावेन दीनाऽहं च निराश्रया ॥
1
२४
२५
२६
२७
२८
२९
३०
३१
सुश्रवोवाच
किं कृतं हि मया भद्रे सुकृतं पुण्यसंभवम् । येनाहमुद्धरे त्वां वै तन्मे वदस्व सांप्रतम् ॥ शूकर्युवाच --
३२
३३
३४
३५
अयं राजा महाभाग इक्ष्वाकुर्मनुनन्दनः । विष्णुरेष महाप्राज्ञो भवती श्रीर्हि नान्यथा ॥ पतिव्रता महाभागा पतिव्रतपरायणा । त्वं सती सर्वदा भद्रे सर्वतीर्थमयी प्रिया ॥ देवी सर्वमयी नित्यं देवी सर्वमयी सदा । महापतिव्रता लोक एका त्वं नृपतेः प्रिया ॥ arrator भर्ता भवर्त्यां हि न संशयः । एकस्य दिवसस्यापि पुण्यं देहि वरानने ।। ३६ पतिशुश्रूषितस्यापि यदि मे कुरुषे प्रियम् । मम माता पिता त्वं वै त्वं मे गुरुः सनातनः ।। ३७ अहं पापा दुराचारा असत्या ज्ञानवर्जिता । मामुद्धर महाभागे भीताऽहं यमताडनात् ॥
३८
सुकलोवाच
एवं श्रुत्वा तदा राज्ञी समालोक्य नृपं तदा । किं करोमि महाराज एषा किं वदते प्रभो ॥ ३९
* एतच्चिदान्तर्गतः पाठी ग. घ. ज. ट. ड. पुस्तकस्थः ।
१ ग. घ. ट. नर्कसंकटे । ज. नरकार्णवे २ ग. घ. ज. ड. सुदेवों । ३ ग घ ज ट ड द सुनिश्चित ं । ४ ग. घ. ट. सत्यसपन्ना पुण्यस्त्री सत्यसंपदा । सर्वतीर्थमयी देवी सर्वतीर्थमयी । ज. सत्यसंपन्ना पुण्यस्त्री सत्यसंपदा । सर्वतीर्थमयी देवी सर्वपुण्यमयी तथा । महा । ५ ज. एतस्य नृ । ६ ग. घ. ज. ट. त्या एकचित्तया । ए ङ. द. त्या नु अहर्निशम् । ए । छ. `त्या पुण्यकारणात् । ए। ड. त्या त्वेकचित्तया । ए ७ ग. घ. ज. ट ड ताऽपि त्वं बन्धुस्त्वं च गुरुः सखा । अ । ८ ज. असती ।