________________
५१एकपञ्चाशत्तमोऽध्यायः ] पद्मपुराणम् ।
२२७ बधे दारुणो गर्भः सर्वलोकभयंकरः । तामुवाच ततो गर्भः पद्मावतीं स मातरम् ॥ १७
मात्तं व्यथसे मातश्चौषधीभिर्दिने दिने । पुण्येन वर्धते चाऽऽयुः पापेनाल्पं तु जीवितम् १८ आत्मकर्मविपाकेन जीवन्ति च म्रियन्ति च । आमगर्भा म्रियन्त्यन्ते त्वपकास्तु महीतले ॥ १९ जातमात्रा म्रियन्त्यन्ये कति ते यौवनान्विताः । बालवृद्धाश्च तरुणा आयुषो वशतां गताः॥२० सर्वे कर्मविपाकेन जीवन्ति च म्रियन्ति च । ओषध्यो मत्रदेवाश्च निमित्तानि न संशयः ॥२१ मामेव हि न जानासि भवती यादृशो ह्यहम् । दृष्टः श्रुतस्त्वया पूर्व कालनेमिर्महाबलः ॥ २२ दानवानां महावीर्यस्त्रैलोक्यस्य भयप्रदः । देवासुरमहायुद्धे हतोऽहं विष्णुना पुरा ॥ २३ साधनाय च तद्वैरमागतोऽस्मि तवोदरे । साहसं च श्रमं माना कुरुष्व दिने दिने ॥ २४ एवमुक्त्वो द्विजश्रेष्ठ मातरं विरराम सः। माता चं उद्यमं त्यज्य महादुःखादभूत्तदा ॥ २५ देशाब्दाश्च गता यावत्तावदृद्धिमवामुयात् । पश्चाजज्ञे महातेजाः कंसोऽभून्स महाबलः ॥ २६ येन संत्रासिता लोकास्त्रैलोक्यस्य निवासिनः । यो हतो वासुदेवेन गतो मोक्षं न संशयः ॥२७ एवं श्रुतं मया कान्त भवितव्यं भविष्यति । पुराणेप्वेव सर्वेषु निश्चितं कथितं तव ॥ २८ पितृगेहे स्थिता कन्या नाशमेवं प्रयाति सा । गृहवासाय मे कान्त[*कन्यामोहं न कारयेत् २९ इमां दुष्टां महापापां परित्यज्य स्थिरो भव । प्राप्तव्यं तु महापापं दुःखं दारुणमेव च ॥ लोके श्रेयस्कर कान्त] तेद्भुव त्वं मया सह ।।
शूकर्युवाचंएतद्वाक्यं सुमनं तु श्रुत्वा स हि द्विजोत्तमः । त्यागे मनिं चकारासौ ममाहूता व(त्व)हं तथा ।। सकलं वस्त्रशृङ्गारं मम दत्तं शुभे शृणु । तवैव दुर्नयर्विप्रः शिवशर्मा द्विजोत्तमः ॥ ३२ गतो वै मतिमान्दुष्टे कुलदुष्टपचारिणि । यत्र ते तिष्ठते भर्ता तत्र गच्छ न संशयः॥ न्वया यद्रोचते स्थानं यथा दृष्टं तथा कुरु ॥ एवमुक्त्वा महाभागे पितृमातृकुटुम्बकैः । परित्यक्ता गता शीघ्र निर्लजाऽहं वरानने ॥ ३४ न लभाम्यहमेवापि वासस्थानं सुखं शुभे । भसंयन्ति च मां लोकाः पुंश्चलीयं समागता ॥ ३५ अटमाना गता देशात्कुलमानेन वजिता । देशे गुर्जरके पुण्ये माराष्ट्र शिवमन्दिरे ॥ ३६ वनस्थलेति विख्यातं नगरं वृद्धिसंकुलम् । अतीव पीडिता देवी क्षुधयाऽहं यदा भृणु ॥ ३७ कपरं हि करे गृह्य भिक्षार्थमुपचक्रमे । गृहाणां द्वारदेशेषु प्रविशामि सुदुःखिता॥ ३८ मम रूपं विपश्यन्ति लोकाः कुत्सन्ति भामिनि । न ददति च मे भिक्षां पापा चेयं समागता ॥ एवं दुःखसमाचारा महारोगेण पीडिता । अटमाना यदा दृष्टं गृहमेकमनुत्तमम् ।। ४० तुङ्गमाकारसंवेष्टं वेदशालासमन्वितम् । वेदध्वनिसमाकीर्ण बहुविमसमाकुलम् ॥ धनधान्यसमाँकीर्ण दासीदासैरलंकृतम् । प्रविवेश गृहं रम्यं लक्ष्म्या मुदितमेव तत् ॥
* एतचिदान्तर्गतः पाठो अ. पुस्तके नास्ति । १ ज.ड. हासुरः।दा।२ ज. स्मि धरातले साग.घ.टस्मि वरानने । सा।३ ग. घ. ज, ट... क्त्वा ततस्तां च मा । ४ ग. घ. ज. ट. ड. च वचनं तस्य श्रुत्वा दःखातिदःखिता । । ५ ज. दश मासा ग । ढ. दशाहाश्च । ६ ग. घ. ज. ट. 'तेजा दुःसहश्च म। ७ ग. घ. ज. ट. गतः स्वर्ग न । ८ ग. घ. ट. निखिल । ज. लिखितं । ग. घ. ज. ट. तद्बज त्वं । १० ज 'च-तयाक्त वमदत्तस्त श्र। ११४. वस्तुश। १२८. 'टे वातदु। १३ ङ. छ.. 'नस्थानेति । १४ . छ. स. द. तदा । १५ ग. घ. ज. ट. मलरू। १६ ग. घ. ङ. छ. झ. ट. द. मया । १७ ग. स. ज. ट. 'मायुक्त दासीदासेन संकुलम् ।
४