________________
महामुनिश्रीव्यासप्रणीतं
[ आदिखण्डेकिं त्वया न श्रुतं लोके अवध्याः सन्ति योषितः । किं तु तुभ्यं गुणा ह्येते दहन व्यर्दनं प्रति॥३९ न कारुण्यं दया वाऽपि दाक्षिण्यं वा स्त्रियोपरि। दयां कुर्वन्ति म्लेच्छाश्च देहन प्रेक्ष्य योषितः॥४० म्लेच्छानामपि कष्टोऽसि दुर्निवार्यो ह्यचेतनः । एते चैव गुणास्तुभ्यं दहनोत्सादनं प्रति ॥ ४१ आसामपि दुराचारः स्त्रीणां किंच निपातने । दुष्ट निघृण निर्लज हुताश मन्दभाग्यक ॥ ४२ निराश त्वं दुराचार बालान्दहसि निर्दय । एवं विलपमानां तां जल्पमानां बहुस्वरम् ॥ ४३ अन्याः(न्ये) क्रोशन्ति संक्रुद्धा बालशोकेन मोहिताः।दहते निर्दयो वह्निःसंक्रुद्धः सर्वशत्रुवत् ॥४४ पुष्करिण्या जले ज्वाला कूपेष्वपि तथैव च । अस्मान्संदह्य म्लेच्छ त्वं कां गतिं प्रापयिष्यसि ॥ एवं प्रलपतां तासां (तेषां ) वह्निर्वचनमब्रवीत् ।
४८ वैश्वानर उवाचस्ववशो नैव युष्माकं विनाशं तु करोम्यहम् । अहमादेशकर्ता वै नाहं कर्ताऽस्म्यनुग्रहम् ॥ ४६ अत्र क्रोधसमाविष्टो विचरामि यथेच्छया । ततो बाणो महातेजास्त्रिपुरं वीक्ष्य दीपितम् ॥ ४७ आसनस्थोऽब्रवीदेवमहं देवेविनाशितः । अल्पसारैर्दुराचारैरीश्वरस्य निवेदितः ॥ ४८ अपरीक्ष्य ह्यहं दग्धः शंकरेण महात्मना । नान्यः शक्तस्तु मां हन्तुं वजेयित्वा महेश्वरम् ॥ ४९ उत्थितः शिरसा कृत्वा लिङ्गं त्रिभुवनेश्वरम् । निर्गतः स पुरद्वारात्परित्यज्य सुहृत्स्वयम् ॥५० रत्नानि तु विचित्राणि स्त्रियो नानाविधास्तथा । गृहीत्वा शिरसा लिङ्गं न्यस्य नगरमण्डले ५१ स्तुवते देवदेवेशं त्रैलोक्याधिपतिं शिवम् । हर त्वयाऽहं निर्दग्धो यदि वध्योऽस्मि शंकर ॥ ५२ त्वत्मसादान्महादेव मा मे लिङ्गं विनश्यतु । अर्चितं हि महादेव भक्त्या परमया सदा॥ ५३ त्वया यद्यपि वध्योऽहं मा मे लिङ्ग विनश्यतु । प्राप्यमेतन्महादेव त्वत्पादग्रहणं मम ॥ ५४ जन्म जन्म महादेव त्वत्पादनिरतो यहम् । तोटकच्छन्दमा देवं स्तुत्वा तु परमेश्वरम् ॥ ५५
शिव शंकर सर्वकराय नमो भव भीम महेश्वर भीम नमः ॥ कुसुमायुध देहविनाशकर त्रिपुरान्तकरान्धकचूर्णकर ॥ प्रमदामिय कामविभक्त नमो हि नमः सुरमिद्धगणेनमितः ॥ हयवानरसिंहगजेन्द्रमुखैरनिहस्वसुदीर्घमुग्वेश्च गणः ॥ उपलब्धुमशक्यतरैरसुरैर्व्यथितो न शरीरशतैर्वहुभिः । प्रणतो भगवन्बहुभक्तिमताऽचलचन्द्रकलाधर देव नमः ।। सह पुत्रकल–कलापधनैः सततं जय देव अनुस्मरणम् । व्यथितोऽस्मि शरीरशतैर्बहुभिर्गमिताऽद्य महानरकस्य गतिः ॥
न निवर्तति यन्मम पापगतिः शुचिकर्मविशुद्धमपि त्यजति । अनुकम्पति दिग्भ्रमति भ्रमति भ्रम एष कुबुद्धि(दि) निवारयति ॥ यः पठेत्तोटकं दिव्यं प्रयतः शुचिमानसः । बाणस्यैव यथा रुद्रस्तस्यैव वरदो भवेत् ॥ ६? इमं स्तवं महादिव्यं श्रुत्वा देवो महेश्वरः । प्रसन्नस्तु तदा तस्य स्वयं देवो महेश्वरः ॥ ६२
ईश्वर उवाचन भेतव्यं त्वया वत्स सौवर्णे तिष्ठ दानव । पुत्रपौत्रः सपत्नीकर्याभिः स्वजनैः सह ॥ ६३
१क. च्छाऽपि द । २ क. दहनं। ३ क. प्रेष्य । ४ क. योषिताम् । ५ क. स्तुवतो । ६ ट. 'मो रिपुी । ७क. 'लास्तवदे। ८ट 'अगवादिध। ९ ख. अ. जहि दहि अ। १० ख. अ. 'मिताऽद्य महानरकस्य गतिम् । न ।