________________
षोडशोऽध्यायः ]
पपपुराणम् । मभृति बाण त्वमवध्यत्रिदशैरपि । भूयस्तस्य वरो दत्तो देवदेवेन पाण्डव ॥ कायश्चाव्ययो लोके विचचार ह निर्भयः । ततो निवारयामास रुद्रः सप्तशिखं तथा ॥ ६५ सायं रक्षितं तस्य शंकरेण महात्मना । भ्रमते गगने नित्यं रुद्रतेजःप्रभावतः ॥ कोतु त्रिपुरं दग्धं शंकरेण महात्मना । ज्वालामालाप्रदीप्तं तु पतितं धरणीतले ॥
निपातितं तस्य श्रीशेले त्रिपुरान्तके । द्वितीय पातितं तत्र पर्वतेऽमरकण्ठके ॥ रुचे तु त्रिपुरे राजन्रुद्रकोटिः प्रतिष्ठिता । ज्वलन्तं पातितं तत्र तेन ज्वालेश्वरः स्मृतः ॥ ६९ अर्व तु प्रस्थिता तस्य दिव्या ज्वाला दिवं गता। हाहाकारस्तदा जातो देवासुरसकिंनरान्॥७० *शरं स्तम्भयेदुद्रो माहेश्वरे पुरोत्तमे । एवं व्रजेत यस्तस्मिन्पर्वतेऽमरकण्टके ॥ ७१ चतुर्दश भुवनानि स भुक्त्वा पाण्डुनन्दन । वर्षकोटिसहस्रं तु त्रिंशत्कोव्यस्तथाऽपराः॥ ७२ तो महीतलं प्राप्य राजा भवति धार्मिकः । पृथिवीमेकच्छत्रेण भुङ्क्ते नास्त्यत्र संशयः॥ ७३ एष पुण्यो महाराजै सर्वतोऽमरकण्टकः । चन्द्रसूर्योपरागेषु गच्छेद्योऽमरकण्टकम् ॥ अश्वमेधादशगुणं प्रवदन्ति मनीषिणः । स्वर्गलोकमवामोति दृष्ट्वा तत्र महेश्वरम् ॥ संनिहत्याऽऽगमिष्यन्ति राहुग्रस्ते दिवाकरे । तदेव निखिलं पुण्यं पर्वतेऽमरकण्टके ॥ ७६ पुण्डरीकस्य यज्ञस्य फलं पामोति मानवः । तत्र ज्वालेश्वरो नाम पर्वतेऽमरकण्टके ॥ सत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः ॥
७७ ज्वालेश्वर महाराज यस्तु प्राणान्परित्यजेत् । चन्द्रसूर्योपरागे तु भक्त्याऽपि शृणु तत्फलम् ॥ ७८ भमरा नाम देवास्ते पर्वतेऽमरकण्टके । रुद्रलोकमवामोति यावदाभूतसंप्लवम् ॥ ७९ अमरेश्वरस्य देवस्य पर्वतस्य नटे जले । कोटिश ऋषिमुख्यास्ते तपस्तप्यन्ति सुव्रताः ॥ समन्तायोजनं राजन्क्षेत्रं चामरकण्टकम् ॥ अकामो वा सकामो वा नर्मदायाः शुभे जले । स्नात्वा मुच्येत पापेभ्यो रुद्रलोकं स गच्छति।।८१
इति श्रीमहापुराणे पाय आदिखण्डे पञ्चदशोऽध्यायः ॥ १५ ॥
आदितः श्लोकानां समष्टयङ्काः-५८३
अथ पोडशोऽध्यायः ।
सूत उवाचपृच्छन्ति ते महात्मानो नारदं हि महाजनाः । युधिष्ठिरपराः सर्व ऋषयश्च तपोधनाः ॥ १ आख्याहि भगवंस्तथ्यं कावेरीसंगमं महत् । लोकानां च हितार्थाय अस्माकं च विवृद्धये ॥ २ सदा पापरता ये तु नरा दुप्कृतिकारिणः । मुच्यन्ते सर्वपापेभ्यो गच्छन्ति परमं पदम् ॥ एतदिच्छाम विज्ञातुं भगवन्वक्तुमहसि ॥
नारद उवाचशृणुध्वं सहिताः सर्वे युधिष्ठिरपुरोगमाः । अत्र कृत्वा महायज्ञं कुबेरः सत्यविक्रमः ॥ ४ इदं तीर्थमनुप्राप्य साम्राज्यादधिकोऽभवत् । सिद्धि प्राप्तो महाराज तन्मे निगदतः शृणु ॥ ५ कावेरी नर्मदां यत्र संगता लोकविश्रुता । तत्र स्नात्वा शुचिर्भूत्वा कुबेरः सत्यविक्रमः॥ ६
१ क. 'थिव्याम । २ क. भुक्तं । ३ ट. 'ज पर्व । ४ क. 'गमिष्यामि ।