________________
११
महामुनिश्रीव्यासप्रणीतं
[ आदिखण्डेतपस्तप्यति यक्षेन्द्रो दिव्यं वर्षशतं महत् । तस्य तुष्टो महादेवः प्रदद्याद्वरमुत्तमम् ॥ ७ भो भो यक्ष महासत्त्व वरं शूहि यथेप्सितम् । भूहि कार्य यथेष्टं तु यद्वा मनसि वर्तते ॥ ८
कुबेर उवाचयदि तुष्टोऽसि देवेश यदि देयो वरो मम । आदिकृञ्चैव सर्वेषां यक्षाणामधिपो भवेत् ॥ ९ कुबेरस्य वचः श्रुत्वा तुष्टो देवो महेश्वरः । एवमस्तु ततश्चोक्त्वा तत्रैवान्तरधीयत ॥ १० सोऽपि लब्धवरो यक्षः शीघ्रं यक्षकुलं गतः । पूजितः सर्वयक्षेन्द्ररभिषिक्तस्तु पार्थिवः ॥ कावेरीसंगमं तत्र सर्वपापप्रणाशनम् ॥ ये नरा नाभिजानन्ति वञ्चितास्ते न संशयः । तस्मात्सर्वप्रयत्नेन तत्र स्नायीन मानवः ॥ १२ कावेरी च महापुण्या नर्मदा च महानदी । तत्र स्नात्वा तु राजेन्द्र अर्चयेदृषभध्वजम् ॥ १३ अश्वमेधफलं प्राप्य रुद्रलोके महीयते । अग्निप्रवेशं यः कुर्याद्यश्च कुर्यादनाशनम् ॥ १४ अनिवर्तिका गतिस्तस्य यथा मे शंकरोऽब्रवीत् । सेव्यमानो वरस्त्रीभिर्मोदते दिवि रुद्रवत् ॥१. षष्टिवर्षसहस्राणि पष्टिकोव्यस्तथाऽपरे । मोदते रुद्रलोकस्था यत्र यत्रैव गच्छति ॥ १६ पुण्यक्षयात्परिभ्रष्टो राजा भवति धार्मिकः । भोगवान्धर्मशीलश्च महांश्चैव कुलोद्भवः ॥ १७ तत्र पीत्वा जलं सम्यक्वान्द्रायणफलं लभेत् । स्वर्ग गम्छन्ति ने मर्त्या ये पिबन्ति जलं शुभम् १८ गङ्गायमुनयोमध्ये यत्फलं याति मानवः । कावेरीसङ्गमे स्नात्वा तत्फलं तस्य जायते ॥ १० एवं तु तस्य राजेन्द्र कावेरीसंगमं महत् । पुण्यं महत्फलं तत्र सर्वपापप्रणाशनम् ।।
इति श्रीमहापुराणे पाद्म आदिखण्ड पोडशोऽध्यायः ॥ १६ ।
आदितः श्लोकानां समष्ट्यङ्काः-६०३
अथ सप्तदशोऽध्यायः ।
. .
. .
नारद उवाचउत्तरे नर्मदाकूले तीर्थ योजनविस्तृतम् । पत्रेश्वरति विख्यातं सर्वपापहरं परम् ।। तत्र स्नात्वा नरो राजन्दैवतैः सह मोदते । पञ्च वर्षसहस्राणि क्रीडते कामरूपधृक ।। गर्जनं तु ततो गच्छेद्यत्र मेघ उपस्थितः । इन्द्रजिन्नाम संप्राप्तं तस्य तीर्थप्रभावनः ।। मेघरावं ततो गच्छेद्यत्र मेघाभिगर्जितम् । मेघनादो गणस्तत्र वरसंपन्नतां गतः ॥ ततो गच्छेत राजेन्द्र ब्रह्मावर्तमिति स्मृतम् । तत्र संनिहिता ब्रह्मा नित्यमेव युधिष्ठिर ।। तत्र स्नानासु राजेन्द्र ब्रह्मलोके महीयते ॥ ततोगारेश्वरे तीर्थे नियतो नियताशनः । सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति ॥ ततो गच्छेत राजेन्द्र कपिलातीर्थमुत्तमम् । तत्र स्नात्वा नरो राजन्गोप्रदानफलं लभेत् ॥ ७ काञ्चीतीर्थ ततो गच्छेद्देवर्षिगणसवितम् । तत्र स्नात्वा नरो राजन्गोलोकं समवामुयात् ॥ ८ ततो गच्छेत्तु राजेन्द्र कुण्डलेश्वरमुत्तमम् । तत्र संनिहितो रुद्रस्तिष्ठते उमया सह ॥ तत्र स्नात्वा तु राजेन्द्र अवध्यस्त्रिदशेरपि ॥ पिप्पलेश्वरं ततो गच्छेत्सर्वपापप्रणाशनम् । तत्र गत्वा तु राजेन्द्र रुद्रलोके महीयते ॥ १०
१ ट. सूत्रेश्वरति ।