________________
११ एकषष्टितमोऽध्यायः ]
कुकल उवाच
कस्य पुण्यस्य सङ्गेन तपसश्च सुरोत्तमाः । सभार्याय वरं दातुं भवन्तो हि समागताः ॥
१४
पद्मपुराणम् ।
इन्द्र उवाच
१६
एषा सती महाभागा सुकला चारुमङ्गला । अस्याः सत्येन तुष्टाः स्म दातुकामा वैरं तब ॥ १५ समासेन तु संप्रोक्तं सर्ववृत्तान्तमेव च । तस्याश्चरितमाहात्म्यं श्रुत्वा भर्ता स हर्षितः ॥ तया सह स धर्मात्मा हर्षव्याकुललोचनः । ननाम देवताः सर्वा दण्डवच्च पुनः पुनः ॥ यान्तु तुष्टिं महाभागास्त्रयो देवाः सनातनाः । अन्ये च ऋषयः पुण्याः कृपां कृत्वा ममोपरि १८ जन्मजन्मनि देवानां भक्तिमेवं करोम्यहम् । धर्मे सत्ये रतिः स्यान्मे भवतां हि प्रसादतः ॥ १९ पश्वाद्धि वैष्णवं लोकं सभार्यः सपितामहः । गन्तुमिच्छाम्यहं देवा यदि तुष्टा महौजसः ॥ २०
१७
देवा ऊचु:
एवमस्तु महाभाग सर्व तव भविष्यति । सुकलेयं महापुण्या तव पत्नी यशस्विनी ॥ विष्णुरुवाच -
२४५
अथैकपष्टितमोऽध्यायः ।
२२
इत्युक्त्वा पुष्पवृष्टिं तां तयोरुपरि भूपते । चक्रुर्जगुः पुण्यगीतं ललितं मधुरं ततः ।। गन्धर्वा गीततत्त्वज्ञा ननृतुश्चाप्सरोगणाः । ततो देवाः सगन्धर्वाः स्वं स्वं स्थानं नृपोत्तम ।। २३ वरं दत्त्वा प्रजग्मुस्ते स्तूयमानाः पतिव्रताम् । नारीतीर्थं समाख्यातमन्यत्किं प्रवदामि ते ॥ २४ एतत्ते सर्वमाख्यातं पुण्याख्यानमनुत्तमम् । यः शृणोति नरो राजन्सर्वपापैः प्रमुच्यते । श्रद्धया शृणुयान्नारी सुकलाख्यानमुत्तमम् । सौभाग्येन सुसत्येन पुत्रपौत्रैश्च युज्यते ॥ मोदते धनधान्यैव सह भर्त्रा सुखी भवेत् । पतिव्रता भवेत्सा च जन्मजन्मनि नान्यथा ॥ २७ ब्राह्मणो वेदवित्क्षत्रियो विजयी भवेत् । [धनधान्यं भवेत्तस्य वैश्यगेहे न संशयः ॥ २८ धर्मज्ञो जायते राजन्सदाचारः सुखी भवेत् । शूद्रः सुखमवाप्नोति पुत्रपौत्रः प्रवर्धते ।। विपुला जायते लक्ष्मीर्धनधान्यैरलंकृतः ] ॥
२५ २६
+ इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनोपाख्याने सुकलाचरिते पटितमोऽध्यायः ॥ ६० ॥ आदितः श्लोकानां समथ्र्यङ्काः - ५१२०
वेन उवाच -
भार्यातीर्थं समाख्यातं सर्वतीर्थोत्तमांत्तमम् । पितृतीर्थं समाख्याहि पुत्राणां तारणं परम् ॥ विष्णुरुवाच --
कुरुक्षेत्रे महापुण्ये कुण्डलो नाम भूसुरः । सुकर्मा नाम सत्पुत्रः कुण्डलस्य महात्मनः ।। गुरू तस्य महावृद्धौ धर्मज्ञौ शास्त्रकारिणौ । द्वावेतौ तौ महाप्राज्ञौ जरया परिपीडितौ ॥
२१
२९
२
३
t
* एतचिहान्तर्गतः पाठः क ख ग घ ङ च छ झ ट पुस्तकस्थः । अत्र 'इति पद्मपुराणे चतुर्थखण्डः समाप्तः इति ग. पुस्तके । 'इति चतुर्थखण्डः समाप्तः' इति घ. पुस्तके। (भूमिखण्डस्याऽऽदिभागोऽयम्) एतदपि क्वचित्पुस्तके दृश्यते ।
१ ङ. वरत्रयम् । स' । २क. ख. ड. च. छ. झ ट ड ढ नः । यदि तुष्टा म े । ३ क. ख. ङ. व. छ. झ. ८. 'कोविदौ । द्वा' |