________________
२४४ महामुनिश्रीव्यासप्रणीत
[ २ भूमिखण्डेभवांश्चौरस्त्वमी चौरा यैश्च भुक्तं च लोलुपैः । त्वया दत्तस्य श्राद्धस्य अन्नमेवं तया विना ॥२७ सुपुत्रः श्रद्धयोपेतः श्राद्धदानं ददाति यः । भार्यादत्तेन पिण्डेन तस्य पुण्यं वदाम्यहम् ॥ २८ यथाऽमृतस्य पानेन पितॄणां तृप्तिर्जायते । पितॄणां नात्र संदेहः सत्यं सत्यं वदाम्यहम् ॥ २० गाईस्थस्य च धर्मस्य भार्या भवति स्वामिनी । त्वयैवं तां विना मूढ चौरकर्म कृतं वृथा ॥ ३० अमी पितामहाश्चौरा येश्च भुक्तं तया विना । भायो पचति चेवानं स्वहस्तेनामृतोपमम् ॥ ३१ तदन्नमेव भुञ्जन्ति पितरो हृष्टमानसाः । तेनैव तृप्तिमायान्ति संतुष्टाश्च भवन्ति ते ॥ ३२ तस्माद्भायर्या विना धर्मः पुरुषाणां न सिध्यति। [*नास्ति भार्यासमंतीर्थ सुपुंसां गतिदायकम् ॥ भायाँ विना हि यो धर्मः स एव विफलो भवेत ॥
इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनोपाख्यान एकोनषष्टितमोऽध्यायः ।। ५९ ॥
आदितः श्लोकानां समष्टयङ्काः-६२७३
अथ षष्टितमोऽध्यायः ।
कृकल उवाचकथं मे जायते सिद्धिः कथं पितृविमोचनम् । तन्मे सुविस्तरेणापि धर्मराज वदाधुना ॥ ?
धर्मराज उवाचगच्छ गेहं महाभाग त्वां विना दुःखिताऽभवत् । संबोधय त्वं सुकला सुपुण्यां धर्मचारिणीम् ॥ श्राद्धदानं गृहं गत्वा तस्या हस्तेन व कुरु ॥ स्मृत्वा पुण्यानि तीर्थानि पूजय त्वं सुरात्तमान् । तीर्थयात्राकृता सिद्धिस्तव चैव भविष्यति ॥३ भार्या विना हि यो लोको धर्म साधितुमिच्छति। विलोप्य धर्म गार्हस्थ्यमेकाकी विचरेद्वनम् ॥ विफलो जायते लोके नान्नमश्नन्ति देवताः ॥ यज्ञाः सिद्धिं न चाऽऽयान्ति गृहिणीरहिते गृहे । स एकाकी समर्थो न धमार्थसाधनाय च ॥५
विष्णुरुषाचएवमुक्त्वा गतो धर्मो यथाऽऽयातस्तथा पुनः। कृकलोऽपि स धर्मात्मा स्वगृहं प्रति प्रस्थितः ॥६ स्वगृहं प्राप्य मेधावी दृष्ट्वा तां च पतिव्रताम् । सार्थवाहेन तेनापि मुमुदे वाऽन्तरात्मना ॥ ७ तया समागतं दृष्ट्वा भर्तारं धर्मकोविदम् । कृतं सुमङ्गलं कर्म भर्तुरागमने तदा ॥ ८ समाचष्टे स धर्मात्मा धर्मस्यापि विचेष्टितम् । समाकर्ण्य महाभागा भर्तुर्वाक्यं मुंदावहम् ॥ धर्मवाक्यं प्रशस्याथ अनुमेने च तं तथा ॥ अथासौ ककलश्चापि तया सार्धं सुपुण्यकम् । चकार श्रद्धया श्राद्धं देवपूजां गृहे स्थितः ॥ १० पितरो देवगन्धर्वा विमानैश्च समागताः । तुष्टुवुस्तो महात्मानौ दंपती मुनयस्तथा ॥ ११ अहं चापि तथा ब्रह्मा देव्या युक्तो महेश्वरः। सर्वे देवाः सगन्धर्वास्तस्याः सत्येन तोषिताः१२ ऊंचुस्तौ तु महात्मानौ धर्मज्ञौ सत्यपण्डितौ । भार्यया सह भद्रं ते वरं वरय सुव्रत ॥ १३
* एतचिहान्तर्गतः पाठः क. स्व. ङ. च. छ. झ. ट. ढ. पुस्तकस्थः । १ क. ख. ड. च. छ. स. ढ. व वञ्चिता मू । २ ड. स्वभायो । ३ क. ख. ङ. च. छ. झ. ट. ड. द. द्धिं तदा यान्ति यदा स्यादृहिणी । ४ क. ख. ग. च. झ. ट. ड. द. पि स्वस्थान प्राप्य बुद्धिमान् । त। ५ छ. सुश्रद्धया ।