________________
,
.
.
a
२४६ महामुनिश्रीव्यासप्रणीतं
[२ भूमिखण्डेतयोः शुश्रूषणं चक्रे भक्त्या च परया ततः । धर्मज्ञो भावसंयुक्तो ह्यहर्निशमरिंदम ॥ ४ तस्माद्वेदानधीते स पितुः शास्त्राण्यनेकशः । सर्वाचारपरो दोन्तः सत्यवाज्ञानवत्सलः॥ ५
संवाहनं चक्रे गुर्वोश्च स्वयमेव सः । पादप्रक्षालनं चैव स्नानभोजनका क्रियाम् ॥ ६ भक्त्या चैव स्वभावेन सततं तन्मयो भवेत् । मातापित्रोश्व राजेन्द्र उपचर्या करोति सः॥ ७
सूत उवाच-- तद्वर्तमानकाले तु बभूव नृपसत्तम । पिप्पलो नाम वै विप्रः कश्यपस्य कुलोद्भः॥ धर्मकर्मा महाभाग जितात्मा जितविग्रहः । दमशौचशमोपेतः कामक्रोधविवर्जितः ॥ दशारण्ये गतो धीमाज्ज्ञानशान्तिपरायणः । सर्वेन्द्रियाणि संयम्य तपस्तेपे महामनाः ॥ १० तपःप्रभावतस्तस्य जन्तवो गतविग्रहाः । वसन्ति सुयुगे तत्र एकोदरगता इव ॥ तत्तपस्तस्य मुनयो दृष्ट्वा विस्मयमाययुः । नेदृशं केनचित्तप्तं यथाऽसौ तप्यते मुनिः॥ १२ देवाश्च इन्द्रप्रमुखाः परं विस्मयमाययुः । अहो अस्य तपस्तीत्रं शमश्चेन्द्रियसंयमः ॥ १३ निर्विकारो निरुद्वेगः कामक्रोधविवर्जितः । शीतवातातपसहो धराधर इव स्थितः ॥ १४ विषये विमुखो धीरो मनसोऽतीतसंग्रहः । न शृणांति यथा शब्दं कस्यचिट्विजसत्तमः ॥ १५ संस्थानं तादृशं गत्वा स्थित्वा एकाग्रमानमः । ब्रह्मध्यानमयो भूत्वा सानन्दमुखपङ्कजः ॥ १६ अश्मकाष्ठ इवात्यर्थं निश्चेष्टो गिरिवस्थितः । स्थाणुवदृश्यते चासी सुस्थिरो धर्मवन्सलः॥ १७ तपःक्लिष्टशरीरोऽतिश्रद्धावाननसूयकः । एवं वर्षमहस्रकं संजातं तस्य धीमतः ॥ १८ पिपीलिकाभिर्बह्वीभिः कृतं मृद्भारसंचयम् । तस्योपरि महाकायं वल्मीकानां च मन्दिरम् ॥ १९ वली(ल्मी)कोदरमध्यस्थो जडीभृत इव स्थितः । स एवं पिप्पला विप्रस्तप्यते सुमहत्तपः ॥२० कृष्णसप॑स्तु सर्वत्र वेष्टितो द्विजसत्तमः । तमुग्रतेजसं विषं दशन्ति स्म विषाल्बणाः॥ २१ संप्राप्य गात्राणि विषं त्वचं तस्य न भेदयेत् । तेजसा तस्य विप्रस्य नागाः शान्तिमथाऽऽगमन तस्य कायात्समुद्भता अर्चिषो दीप्ततेजसः । नानारूपाः सुबहुशो दृश्यन्त च पृथक्पृथक ।। २३ यथा वह्नः प्रदृश्यते तथैव च नृपोत्तम । यथा मेघोदर सूर्यः प्रविष्टो भाति राश्मिभिः ॥ वल्मीकस्थस्तथा विप्रः [*पिप्पलो भाति तेजसा ।। सर्प दंशन्ति विप्रं तं ] सक्रोधा दशनैरपि । न भिन्दन्ति दंष्टाग्राचम भित्त्वा नृपोत्तम ॥ २५ [ एवं वर्षसहस्रैकं तप आचरतस्ततः । गतं च राजराजेन्द्र मुनस्तस्य महात्मनः ॥ २६ त्रिकालं साध्यमानस्य लीलातपवधान्वितम् । गतं कालं महाराज पिप्पलस्य महात्मनः ।। २७ तद्वच्च वायुभक्षं च कृतं तेन महात्मना ] । त्रीणि वर्षसहस्राणि गतान्येवं च भूपते ॥ २८ तस्य मूनि ततो देवः पुष्पवृष्टिः कृता पुरा । ब्रह्मज्ञोऽसि महाभाग धर्मज्ञाऽसि न संशयः॥ सर्वज्ञानमयोऽसि त्वं संजातः स्वेन कर्मणा ॥
* एतचिहान्तगतोऽयं पाठः क. ख. घ. ह.च. छ.ज. झ. ड. द. पुस्तकस्थः । । एतचिहान्तर्गतोऽयं पाटः क. ख. घ. ङ. च. झ. ड. द. पुस्तकस्थः ।
१क. ख. घ. च. छ. झ. ड. कृपया। २ क. घ. ड. च. छ. झ. इ. ढ. दान्तो धर्मज्ञो ज्ञान । ३ क. ख. ड. च. छ. स. ढ. तयाने । ४ क. ख घ. ड. च. छ. झ. ड. ढ. 'वः । तपस्तेपे निराहारो जि। ५ क. ख. ड. च. छ. झ. ड. ढ. 'तमत्सरः । । ६ ड. दयाशौचदमोपेतः । ७ ड. निराहारो। ८ इ. "नपरोभ । ९ क. ख. ड. च. छ. झ. 'तानि तस्य तप्यतः । त।