________________
६१ एकषष्टितमोऽध्यायः ]
पद्मपुराणम् ।
२४७
३२
1
३४
यं यं त्वं वाञ्छसे कामं तं तं प्राप्स्यसि नान्यथा । सर्वकाममयी सिद्धिः स्त्रत एव भविष्यति ।। समाकर्ण्य ततो वाक्यं पिप्पलोऽपि महामनाः । प्रणम्य देवताः सर्वा भक्त्या नमितकन्धरः ।। ३१ हर्षेण महताऽऽविष्टो देवाप्रति उवाच ह । इदं चैव जगत्सर्वे मम वश्यं यथा भवेत् ।। तथा कुरुध्वं भो देवा विद्यधरो भवाम्यहम् । एवमुक्त्वा स मेधावी विरराम नृपोत्तम ।। ३३ एवमस्त्विति ते प्रोचुर्द्विजश्रेष्ठं सुरास्तदा । दत्वा वरं महाभाग जग्मुस्तस्मै महात्मने । गतेषु तेषु देवेषु पिप्पलो द्विजसत्तमः । ब्रह्मण्यं साधयेन्नित्यं विश्ववश्यं प्रचिन्तयेत् ।। तदाप्रभृति राजेन्द्र पिप्पलो द्विजसत्तमः । विद्याधरपदं लब्ध्वा कामगामी महीयते । एवं स पिप्पल विद्याधरपदं गतः । संजातो देवलोकेशः सर्वविद्याविशारदः ।। एकदा तु महातेजाः पिप्पलः परिचिन्तयेत् । विश्वं वश्यं भवेत्सर्व मम दत्तो वरोत्तमः ॥ ३८ तदर्थ प्रत्ययं कर्तुमुद्यतो द्विजसत्तमः । यं यं चिन्तयते वश्यं तं तं हि वशमानयेत् ॥ एवं तत्प्रत्ययं ज्ञात्वा मनसा परिकल्पितम् । द्वितीयो नास्ति वै लोके मत्समः पुरुषोत्तमः ॥ ४०
३५
३६
३७
३९
सूत उवाच -
1
४२
४३
एवं हि चिन्तमानस्य पिप्पलस्य महात्मनः । ज्ञात्वा मानसिकं भावं मारसस्तमुवाच ह ।। ४१ सरस्तीरगतो राजन्सुस्वरं व्यञ्जनान्वितम् । स्वनं सौष्ठवमंयुक्तमुक्तवान्पिप्पलं प्रति ।। कस्मादुद्वहसे गर्वमेवं त्वं परमात्मकम् । सर्ववश्यात्मकी सिद्धिं नाहं मन्ये तत्रैव हि ॥ वश्यावश्यमिदं कर्म अर्वाचीनं प्रशस्यते । पराचीनं न जानासि पिप्पल त्वं हि मूढधीः ॥ ४४ वर्षाणां तु सहस्राणि यावत्रीणि त्वया तपः । ममाचीर्ण ततो गर्व भवान्मूढ इहागतः ।। ४५ कुण्डलस्य सुतो धीरः सुकर्मा नाम यः सुधीः । वश्यावश्यं जगत्सर्वं तस्याऽऽसीच्छृणु सांप्रतम् ।। अर्वाचीनं पराचीनं स वै जानाति बुद्धिमान् । लोके नास्ति महाज्ञानी तत्समः शृणु पिप्पल ॥ न दत्तं तेन वै दानं न ध्यानं परिचिन्तितम् । हुतयज्ञादिकं कर्म न कृतं तेन वै कदा ॥ ४८ न गतस्तीर्थयात्रायां सद्गुरूपासनं न च । नो कदा कृतवान्वि धर्मसेवार्थमुत्तमम् ॥ स्वच्छन्दचारी ज्ञानात्मा पितृमातृसुहृत्सदा । वेदाध्ययनसंपन्नः सर्वशास्त्रार्थकोविदः ॥ यादृशं तस्य वै ज्ञानं बालस्यापि सुकर्मणः । तादृशं नास्ति ते ज्ञानं वृथा त्वं गर्वमुः ॥
TSS
४९ ५०
५१
पिप्पल उवाच -
को भवान्पक्षिरूपेण मामेत्रं परिकुत्सयेत् । कस्मान्निन्दामि मे ज्ञानं पराचीनं तु कीदृशम् ॥ ५२ तन्मे विस्तरतां ब्रूहि त्वयि ज्ञानं कथं भवेत् । अर्वाचीनगतिं सर्वा पराचीनस्य सांप्रतम् ॥ ५३ वद त्वमण्डजश्रेष्ठ ज्ञानपूर्व सुविस्तरम् । किं वा ब्रह्मा च विष्णुश्व किं वा रुद्रो भविष्यसि ॥ ५४
सारस उवाच -
नास्ति ते तपसो भावः फलं नास्ति श्रुतस्य वा । यत्त्वया परितप्तस्य तपसश्च फलं शृणु ॥ ५५ कुण्डलस्यापि पुत्रस्य बालस्यापि यथा गुणः । तथा ते नास्ति वै ज्ञानं पराचीनस्य तत्पदम् ५६ इतो गत्वाऽपि पृच्छ त्वं मम रूपं द्विजोत्तम । स वदिष्यति धर्मात्मा सर्वज्ञानं तवैव हि ॥ ५७
१ क. ख. घ. ङ. च. छ. झ. ट. ड. ढ. "र्ण्य महद्वाक्यं । २ न. द्याधारो । ३ घ. ट. ड. त्यं वश्याव । ४क. ख. गृ. घ. ङ. च. छ. झ. ट. ड. ह. 'लो नाम विद्याधरमहामतिः । सं । ५ क ख ग घ ङ च छ झ ट ड ढ त् । वश्याव । ६ ड. नं तं स्वरसं । ७ क. ख. ङ. च. छ. झ. ट. ड. उ. ज्ञानं ।