________________
महामानश्राव्यासपणात
[ आदिखण्डेआगच्छन्ति द्विजश्रेष्ठास्तत्र तिष्ठन्ति वै प्रजाः। यथोदिष्टं मया प्रोक्तं सनिर्माणमिदं जगत् ॥ १८ भुत्वेदं पृथिवीमानं पुण्यदं च मनोनुगम् । श्रीमांस्तरति विभेन्द्राः सिद्धार्थः साधुसंमतः ॥ आयुर्बलं च कीर्तिश्च तस्य तेजश्व वर्धते ॥ यः शृणोति समाख्यानं पर्वणीदं धृतव्रतः । पीयन्ते पितरस्तस्य तथैव च पितामहाः॥ ४०
इति श्रीमहापुराणे पान आदिखण्डे नवमोऽध्यायः ॥ ९ ॥
आदितः श्लोकानां समश्यङ्काः-३३९
अथ दशमोऽध्यायः ।
ऋषय ऊचु:पृथिव्या हि परिमाणं संस्थान मरितम्तथा । त्वत्तः श्रुत्वा महाभाग अमृतं पीतमेव च ॥ १ तत्र भूमौ च तीर्थानि पावनानीति नः श्रुतम् ।। आचक्ष्व नानि सर्वाणि यथाफलकराणि च ।। सविशेष महाप्राज्ञ श्रोतुमिच्छामहे तव ॥
सूत उवाचधन्यं पुण्यं महाख्यानं पृष्टमेव तपोधनाः । यथामति प्रवक्ष्यामि यथायोगं यथाश्रुतम् ॥ पुरातनं प्रवक्ष्यामि देवर्षे रदस्य हि । युधिष्ठिरेण संवादं शृणुत द्विजमत्तमाः ॥ हृतराज्याः पाण्डुपुत्रा वने तस्मिन्महारथाः । निवसन्ति महाभागा द्रौपद्या मह पाण्डवाः ॥ ५ अथापश्यन्महात्मानं देवर्षि तत्र नारदम् । दीप्यमानं श्रिया ब्राया दीप्ताग्निममतजमम् ॥ ६ स तैः परिवृतः श्रीमान्भ्रातृभिः कुरुनन्दनः । दिवि भाति हि दीप्तीजा देवैरिव शतक्रतुः ॥ ७ यथा च देवान्सावित्री याज्ञसेनी तथा पतीन । न जहो धर्मतः पार्थान्मेरुंमप्रभा यथा ॥ ८ प्रतिगृह्य ततः पूजां नारदा भगवानृषिः । आश्वासयद्धर्मपुत्रं युक्तरूपमियण च ॥ उवाच च महात्मानं धर्मराज युधिष्ठिरम् । अहि धर्मभृतां श्रेष्ठ किं प्रार्थ्यं किं ददामि ते ॥ १० अथ धर्ममुतो राजा प्रणम्य भ्रातृभिः मह । उवाच प्राञ्जलिर्वाक्यं नारदं देवसंमितम् ॥ १? त्वयि तुष्टे महाभाग सर्वलोकाभिपूजिते । कृमित्यवमन्ये हि प्रमादात्तव सुव्रत ॥ यदि त्वयाऽनुग्राह्योऽस्मि भ्रातृभिः महितोऽनघ । मंदह में मुनिश्रेष्ठ हृदिस्थं छेत्तुमर्हमि ॥ १३ प्रदक्षिणां यः कुरुते पृथिवीं तीर्थतत्परः । किं फलं तस्य कान्स्येन तहह्मन्वक्तुमहमि ॥ १४
नारद उवाचशृणु राजन्नवहितो दिलीपेन यथा पुरा । वसिष्टस्य सकाशाद्वै सर्वमतदुपश्रुतम् ॥ पुरा भागीरथीतीरे दिलीपो राजसत्तमः । धर्म्य व्रतं समास्थाय न्यबसन्मुनिवत्तदा ॥ शुभे देशे महाराज पुण्ये देवर्षिपूजिते । गङ्गाद्वारे महातेजा देवगन्धर्वसविते ॥ स पितॄस्तर्पयामास देवांश्च परमद्युतिः । ऋषींश्च तर्पयामास विधिदृष्टेन कर्मणा ॥ कस्यचित्त्वथ कालस्य जपन्नेव महामनाः । ददर्श भूतसंकाशं वसिष्ठमृषिमुत्तमम् ॥ पुरोहितं स तं दृष्ट्वा दीप्यमानमिव श्रिया । प्रहर्षमतुलं लेभे विस्मयं परमं ययौ ।
१ ख. अ. 'न परि'। २. 'रुपृष्ठं प्र। ३. वदामि । ४ क. प्राज्ञं निर्वा ।