SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २७. [ २ भूमिखण्डे महामुनिश्रीव्यासप्रणीत अथैकोनसप्ततितमोऽध्यायः । मातलिरुवाचअथ धर्माः शिवेनोक्ताः शिवधर्मागमोत्तमाः । ज्ञेयो विद्भिर्विधानेन कर्मयोगप्रभेदतः॥ १ हिंसादिदोषनिर्मुक्ताः क्लेशायासविवर्जिताः । सर्वभूतहिताः शुद्धाः सुसूक्ष्मास्तु महाबलाः ॥ २ अनन्तशाखाः कथिताः शिवमूलेकमास्थिताः । ज्ञानध्यानसमायुक्ताः शिवधर्माः सनातनाः ॥३ धारयन्ति शिवं यस्माद्धार्यते शिवभाषितैः । शिवधर्माश्रितास्तस्मान्मंसारार्णवतारणाः॥ ४ अयाहिंसा क्षमा सत्य ही श्रद्धेन्द्रियसंयमः । दानमिज्या ततो ध्यानं दशकं धर्मसाधनम् ॥ ५ अथ व्यस्तैः समस्तैर्वा शिवधर्फ़रनुष्ठितैः । शिवैकस्थानसंप्राप्तिर्गतिरेकैव कल्पिता ॥ ६ यथा भूः सर्वभूतानां स्थानं साधारणं स्मृतम् । तत्स्थानं शिवभक्तानामतुलं केवलं स्मृतम् ॥ ७ यह सर्वभूतानां भोगाः सातिशयाः स्मृताः। मताः पुण्यविशेषेण भोगाः शिवपुरे तथा ॥ ८ शुभाशुभफलं चात्र भुज्यते सर्वदा नृभिः। शिवधर्मस्य चैकस्य फलं तत्रोपभुज्यते ॥ ९ यस्य यादृग्भवेत्पुण्यं श्रद्धापात्रविशेषतः । भोगाः शिवपुरे तस्य ज्ञेयाः सातिशयाः शुभाः॥१० स्थानमाप्तिः परं तुल्या भोगाः शान्तिमयाः स्मृताः। कुर्यात्तस्मिन्महास्थानं महायोगजिगीषया ११ सर्वातिशयमेवैकं भावितं च सुरोत्तमैः । आत्मयोगाधिपत्यं स्याच्छिवः सर्वजगत्पतिः ॥ १२ [*केचित्तत्रैव मुच्यन्ते ज्ञानयोगरता नराः । आवर्तन्ते पुनश्चान्ये संसारे भोगतत्पराः] ॥ १३ तस्माद्विमुक्तिमिच्छंस्तु भोगासक्तिं विवर्जयेत् । विरक्तः शान्तचित्तात्मा शिवज्ञानमवामुयात् ।।१४ ये चान्यासक्तहृदया यजन्तीशं प्रयत्नतः । तेषामपि ददातीशः स्थानं भावानुरूपतः ॥ १५ तत्रार्चयन्ति ये रुद्रं सकृदुच्छिष्टकर्मणा । तेषां पिशाचलोकेषु भोगानीशः प्रयच्छति ॥ १६ संतप्ता दुःखभावेन म्रियन्ते सर्वदेहिनः । अन्नदः प्राणदः प्रोक्तः प्राणदश्चापि सर्वदः॥ १७ तस्मादब्रमदानेन सर्वदानफल भवेत् । [*त्रैलोक्ये यानि रत्नानि भागाः स्त्रीवाहनानि च अन्नदानप्रदः सर्वमिहामुत्र फलं लभेत् ॥ यस्मादबेन पुष्टाङ्गः कुरुते पुण्यसंचयम् । अन्नप्रदातुस्तस्यार्धं कर्तुश्वार्ध न संशयः ॥ १९ धर्मार्थकाममोक्षाणां देहः परमसाधनम् । [*स्थितिस्तस्यानपानाभ्यामतस्तत्सर्वसाधनम् ॥ २० अन प्रजापतिः साक्षादनं विष्णुः शिवः स्वयम् । तस्मादन्नसमं दानं न भूतं न भविष्यति ॥२१ त्रयाणामपि लोकानामुदकं जीवनं स्मृतम् । [*पवित्रमुदकं दिव्यं शुद्धं सर्वरसाश्रयम् ॥ २२ अनपानाश्वगोवस्त्रशय्यासूत्रासनानि च । मेतलोके प्रशस्तानि दानान्यष्टौ विशेषतः ॥ २३ ___* एतचिहान्तर्गतः पाठः क. ख. ड. च. छ. झ. इ. ढ. पुस्तकस्थः । * एच्चिनान्तर्गतः पाठः क. ख. ड. च. छ. स. १. द. पुस्तकस्थः । * एतचिहान्तर्गतः पाठः क. ख. ड. च. छ. झ. द. पुस्तकस्थः। * एताच्चिदान्तर्गतः पाटः क. ख. रु. च. छ. स. ड. ढपुस्तकस्थः । १ ख..छ. स. ट. ठ. ढ. "या बहुविधास्ते च क । ड. या बहुविधास्ते च कर्मभेदप्र । २ छ. सुशान्तास्तु । ३ ङ. छ... 'नसपूष्पाद्याः शि' । ४ ड. द. म् । तत्तथा शिवभक्तानां तुल्यं शिवपुरं स्मृ । ५ क. ख. रु. च. छ. झ. . ताः । नानापु। ६ छ. शान्तिशया । ड. शान्त्याशयाः । ७ . र्यात्पुण्यमिहामुत्र म । ८ क. ख. ङ. च. छ. हाभाग।... हाभोग । ९१.र्वाधिपत्यमेवैकं तत्र नास्ति पुरोत्तमे। आ । १० क. ख. घ. उ. च. छ. स. ट. उ. . इ. त्मभोगा । ११ इ. स्यात्तत्रैवास्ति शिवाज्ञया । के । १२ क. ख. इ. च. छ. झ. इ. द. प्रसङ्गतः। १३ घ. अ.ट. ट. द.यस्यान्नदान । छ. स. इ. यस्यानपानपु।
SR No.010652
Book TitlePadmapurana Part 01
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1893
Total Pages387
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy