________________
७० सप्ततितमोऽध्यायः] पद्मपुराणम् ।
२७१ एवं दानविशेषेण धर्मराजपुरं नरः। यस्माधाति सुखेनैव तस्माद्धर्म समाचरेत् ॥ २४ ये पुनः क्रूरकर्माणः सदा दानविवर्जिताः । भुञ्जते दारुणं दुःखं नरके नृपनन्दन ॥ २५ तथा सुखं प्रभोक्ष्यन्ति दानं कृत्वा तु चातुलम् । तेषां स्वयं भवेत्सौख्यं कर्मयोगरतात्मनाम्र६ अप्रमेयगुणैर्दिव्यैर्विमानैः सार्वकामिकैः । अस.यस्तत्पुरं व्याप्त माणिनामुपकारकैः॥ २७ सहस्रसोमदिव्यं वा सूर्यतेजःसमप्रभम् । रुद्रलोकामिति प्रोक्तमशेषगुणसंयुतम् ॥ २८ सर्वेषां शिवभक्तानां तत्पुरं परिकीर्तितम् । [रुद्रक्षेत्रे मृतानां च जङ्गमस्थावरात्मनाम्] ॥२९ अप्येकदिवसं भक्त्या यः पूजयति शंकरम् । सोऽपि याति शिवं स्थानं किं पुनर्बहुशोर्चयन्३० वैष्णवा विष्णुभक्ताश्च विष्णुध्यानपरायणाः । तेऽपि यान्ति च वैकुण्ठं समीपं चैव चक्रिणः ३१ ब्रह्मवादी च धर्मात्मा ब्रह्मलोकं प्रयाति सः । पुण्यकर्ता सुपुण्येन पुण्यलोकं प्रयाति च ॥ ३२ तस्मादीशं सदा भक्त्या भावयेदात्मनाऽऽत्मनि । हरौ वाऽपि महाराज युक्तात्मा ज्ञानवान्स्वयम् ॥ तस्मात्सर्वविचारेण भावदोषविचारतः ॥ एवं विष्णुप्रभावेन विशिष्टेनापि कर्मणा । नरैः स्थानमवाप्येत वेशभावानुरूपतः ॥ १४ इत्येतदपरं प्रोक्तं श्रीमच्छिवपुरं महत् । देहिनां कर्मनिष्टानां पुनरावर्तकं स्मृतम् ॥ १५ ऊर्व शिवपुराज्ज्ञेयं वैष्णवं लोकमुत्तमम् । वैष्णवा मानवा यान्ति विष्णुध्यानपरायणाः ॥ ३६ ब्राह्मणा ब्रह्मलोकं तु सदाचारा नरोत्तमाः। प्रयान्ति यज्विनः सर्वे सुनीतास्तत्र कोविदाः ३७ इन्द्रलोकं तथा यान्ति क्षत्रिया युद्धगामिनः। अन्ये च पुण्यकर्तारः पुण्यलोकान्प्रयान्ति च ॥३८ इति श्रीमहापुराणे पाद्म भूमिखण्डे वेनोपाख्याने ययातिचरिते मातापितृतीर्थ एकोनसप्ततितमोऽध्यायः ॥ ६९ ॥
आदितः श्लोकानां समष्ट्यङ्काः--६९४४
अथ ममतितमोऽध्यायः ।
मातलिरुवाचयमपीडां प्रवक्ष्यामि महातीवां सुदारुणाम् । भुञ्जन्ति पापिनः सर्वे कूटास्ते ब्रह्मघातिनः ॥ १ कचित्पापाः प्रपच्यन्ते तीवेण नरकामिना । कचित्सिहेकैाघ्रर्दशैः कीटैस्तु दारुणैः॥ २ कचिन्महाजलोकोभिः कचिच्चाजगरैः पुनः । मक्षिकाभिश्च रौद्राभिः कचित्सर्विषोल्वणैः ॥ १ मत्तमातङ्गयूथैश्च बलोत्कृष्टैः प्रमाथिभिः । पन्थानमुल्लिखद्भिश्च तीक्ष्णशृङ्गैर्महाद्वषैः ॥ ४ महाशृङ्गेश्च महिषैर्दुष्टगात्रप्रवाधकैः । डाकिनीभिश्च रौद्राभिविकटाक्षश्च राक्षसैः॥ व्याधिभिश्च महारौदैः पीड्यमाना व्रजन्ति ते । महौतुलासमारूढा दोल्यमाना अतीव ते ॥ ६ महावेगमधूतास्ते महाचण्डन वायुना । महापाषाणवर्षेण भिद्यमानाश्च सर्वतः ॥ पतद्भिर्वनिर्घोषैरुल्कापातैश्च दारुणः । प्रदीप्ताङ्गारवर्षेण हन्यमाना ब्रजन्ति ते ॥
___*एतचिहान्तर्गतः पाठः क. स्व. इ. च. छ. झ. ड. द. पुस्तकस्थः । १४. न्ति धर्मकर्तार एव च । ते। २ ड. स्वपुण्येन । ३ञ. "विवार्जितः । ४छ.स. ह. विसृष्टे । ५क. ख.. च. छ. झ. ढ. परी तां तत्र । अ. पूनी । ६ क. ख. उ. च. छ. स. ह. द. शालिनः।७क. ख..च.छ. झ. इ.. क्ररास्ते। क. ख, च. ड. व्रणव विषाग्नि । ९घ.. रुष्टयेत्रप्रसाध । १.क.ख.घ...छ. झ. ट. ठ. इ. इ. 'करालश्च । ११ ट. हादोलास।
८