________________
७७ सप्तसप्ततितमोऽध्यायः] परपुराणम् । बकुलाशोकपुनागैर्नारीकेलैश्च तिन्दुकैः । पूगीफलैश्च खजूरैः कुमुदैः सप्तपर्णकः ॥ १३ पुष्पितैः कर्णिकारैश्च नानाक्षैः सदाफलैः । पुष्पितामोदसंयुक्तैः केतकैः पाटलैस्तथा ॥ १४ पश्यमानो महाराजो ददर्श सर उत्तमम् । पुण्योदकेन संपूर्ण विस्तीर्ण पञ्चयोजनम् ॥ १५ हंसकारण्डवाकीर्ण जलपक्षिनिनादितम् । कमलैश्वापि मुदितं श्वेतोत्पलविराजितम् ॥ १६ रक्तोत्पलैः शोभमानं हाटकोत्पलमण्डितम् । नीलोत्पलैः प्रकाशन्तं(?)कलारैरतिशोभितम् ॥१७ मत्तैर्मधुकरैश्वापि सर्वत्र परिनादितम् । [ *एवं सर्वगुणोपेतं ददर्श सर उत्तमम् ॥ १८ पञ्चयोजनविस्तीर्ण दशयोजनेदीर्घकम् । तडागं सर्वतोभद्रं दिव्यभावैरलङ्कृतम्] ॥ १९ रथवेगेन संखिन्नः किंचिच्छ्रमेण पीडितः । निषसाद तंटे तस्यै श्रितश्छायां सुशीतलाम् ॥ २० स्नात्वा पीत्वा जलं शीतं पद्मसौगन्ध्यवासितम् । मर्वश्रमोपशमनममृतोपममेव तत् ॥ २१ शीतच्छायाश्रितेनापि राज्ञा तेन च भूतले । गीतध्वनि समाकर्ण्य गीयमानं यथा तथा ॥ २२ यथा स्त्री गायते दिव्या तथाऽयं श्रूयते ध्वनिः । गीतप्रियो महाराज एवं चिन्तां परां गतः २३ चिन्ताकुलस्तु धर्मात्मा यावचिन्तयते क्षणम् । नावनारी वरा काचित्पीनोन्नतपयोधरा ॥ २४ नृपतेः पश्यमानस्य गता दृष्टिपथं बने । सर्वाभरणशोभाङ्गी शीललक्षणसंपदा ॥ [तस्मिन्वने समायाता नृपतेः पुरतः स्थिता । सा पृष्टा नेन वै राज्ञा का त्वं किंकारणाऽऽगता वद सर्व विशालाक्षि तच्छ्रुत्वा वचनं तु सा । नोवाच किंचिद्भूपालं लजमाना वरानना ॥ २७ प्रहस्यैवं गता शीघ्र वीणावादनतत्परा । विस्मयेनापि राजेन्द्रो महना व्यातस्तदा ॥ २८ मया संभाषिता चापि न सा ब्रूते तथोत्तरम् । तनश्चिन्तां समापेदे ययातिः पृथिवीपतिः ॥ २९ योऽसौ मृगो यथा दृष्टश्चतुःशृङ्गसुवर्णकः । तस्मानारी समुद्भुता तत्सत्यं प्रतिभाति मे ॥ ३० मायारूपमिदं सत्यं दानवानां भविष्यति । [*चिन्तयित्वा क्षणं राजा ययातिर्नहुषात्मजः] ३१ यावञ्चिन्तयते राजा तावन्नारी महावने । अन्तर्धानं गर्ता विप्र प्रहस्य नृपनन्दनम् ॥ २२ एतस्मिन्नन्तरे गीतं सुस्वरं नृपतिः पुनः । शुश्राव परमं दिव्यं मूर्छनातालसंयुतम् ॥ ३३ जगाम सत्त्वरं राजा यत्र गीतध्वनिर्महान् । जलान्ते पुष्कले चैव महत्सदनमुत्तमम् ॥ ३४ तस्योपरि वरा नारी शीलरूपगुणान्विता । दिव्यलक्षणसंपन्ना दिव्याभरणभूषिता ॥ ३५ दिव्यैर्भावैः प्रभात्येका वीणादण्डकधारिणी । गायन्ती सुन्दरं गीतं तालमानलयान्वितम् ॥३६ तेन गीतप्रभावेन मोहयन्ती चराचरम् । देवान्मुनिगणान्सर्वान्दैत्यान्गन्धर्वकिन्नरान् ॥ ३७ तां च दृष्ट्वा विशालाक्षी रूपतेजोपशालिनीम् । संसारे नास्ति चैवान्या नारीदृशी चराचरे॥३८ पुरा नटो जरायुक्तो नृपते काम एव हि । संचरंश्च महाकामस्तदाऽसौ प्रकटोऽभवत् ॥ ३९ घृतं स्पृष्ट्वा यथा वह्नी रश्मिमान्संमजायते । तां च दृष्ट्वा तथा कामस्तत्कायात्मकटोऽभवत् ॥४.
* एतचिहान्तर्गतः पाठः क. ख. ड.च. छ. स.ट. ड.. पुस्तकस्थः । एतच्चिदान्तर्गतः पाठः क.ख. घ.. च. छ. स. ड. ढ. पुस्तकस्थः । * एतचिहान्तर्गतः पाठः क. न. घ. इ. च. छ. स.ट. ठ... द. पुस्तकस्थः ।
१क. ख. च. ड. 'नकीलकम् । २ क. ख. घ. दु. च. छ. झ. द. 8. ड. वने । ३ इ. 'स्य अन्तश्या ४ क.स. घ. ङ. च. छ. स. ट. ठ. ड. द. वृक्षच्छायाधितेनापि । ५ क. ख. 3. च. छ. ग. ह. . 'ता। तामुवाच महाराजः का हि कस्य भविष्यसि । किमर्थे हि समायाता तन्मे त्वं कारण वद । पृष्टा सती तदा तेन न किंचिदपि पिप्पल । शुभाशभंग भूपालं ब्रूते नैव बरा।६ क. ख. घ. हु. च. छ झ.ट. . द. ता राजन्प्रह। क.ख. च. छ.स. करेल्वेव सहक दलमू । ३. करे चैव सहस्रदलम। द. द. करं चैव सहस्रदलम। ८. कायमेव ।