________________
२८२
महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेमन्माविष्टधर्मात्मा तां दृष्ट्वा चारुलोचनाम् । ईदृपा न दृष्टा मे युवती विश्वमोहिनी ॥ ४१ चिन्तयित्वा क्षर्ण राजा कामसंसक्तमानसः। तस्याः स विरहेणापि लुब्धोऽभून्नृपतिस्तदा॥४२ कामाग्निना दह्यमानः कामज्वरेण पीडितः । कथं स्यान्मम चैवेयं कथं भावो भविष्यति ॥ ४३ यदीयं प्राप्यते तर्हि सफलं जीवितं भवेत् । [*यदा मां गूहते बाला पद्मास्या पद्मलोचना]४४ एवं विचिन्त्य धर्मात्मा ययातिः पृथिवीपतिः । तामुवाच वरारोहां का त्वं कस्यासि वा शुभे४५ पूर्व दृष्टा तु या नारी सा दृष्टा पुनरेव च । तां च पप्रच्छ धर्मात्मा का चेयं तव पार्श्वगा ॥ ४६ सर्व कथय कल्याणि अहं हि नहुषात्मजः । सोमवंशप्रसूतश्च सप्तद्वीपाधिपः शुभे ॥ ४७ ययाति म मे देवि ख्यातोऽहं भुवनत्रये । त्वयि संगच्छते चेतो भावमेवं प्रवाञ्छते ॥ ४८ देहि मे संगम भद्रे कुरुष्व प्रियमेव मे । यं यं हि वाञ्छसे कामं तं तं दमि न मंशयः॥ ४९ दुर्जयेनापि कामेन हतोऽहं वरवणिनि । नस्पात्राहि सुशीलं मां प्रपन्नं शरणं तव ॥ ५० राज्यं च सकलामुवी शरीरं चापि चाऽऽत्मनः । संगमे तव दास्यामि त्रैलोक्यमिदमेव ते ॥५१ तस्य राज्ञो वचः श्रुत्वा सा स्त्री पद्मनिभानना । विशाला स्वसखीं प्राह ब्रूहि राजानमागतम् ॥ नाम चोत्पत्तिस्थानं च पितरं मातरं शुभे । ममापि भवते कामो अस्याग्रे च निवेदय ॥ ५३ तस्याश्च कासितं ज्ञात्वा विशाला भूपति तदा । उवाच मधुरालापैः श्रूयतां नृपनन्दन ॥ ५४
विशालोवाचकाम एप पुरा दग्धो देवदेवेन शंभुना । रुरोद सा रतिर्दुःखाद्भहीना हि सुस्वरम् ॥ ५५ अस्मिन्सरसि राजेन्द्र रतिहि न्यवसत्सदा । तस्याश्च विप्रलापं तु सुस्वरं करुणान्वितम् ॥ ५६ समाकर्ण्य ततो देवी कृपया परयाऽन्विता । संजाता राजराजेन्द्र शंकरं वाक्यमब्रवीत् ॥ ५७ जीवयस्व महादेव पुनरेव मनोभवम् । वराकीयं महाभाग भर्तृहीना हि दुःविता ॥ ५८ कामेनाथ समायुक्तामस्मत्स्नेहात्कुरुप्प वै । तच्छत्वा च वचः प्राह जीवयामि मनोभवम् ॥ ५९ कायेनापि विहीनोऽयं पञ्चबाणो मनोभवः । भविष्यति न संदही माधवस्य सखा पुनः ।। ६० दिव्येनापि शरीरेण वर्तयिप्यति नान्यथा । महादवप्रमादन मीनकंतुः स जीविनः ॥ ६१ आशीभिरभिनन्धव देव्याः कामं मनोभवम् । गच्छ काम प्रवर्तस्व नित्यं हि प्रियया सह ॥६२ तावन्मत्र्ये महातेजाः स्थितिसंहारकारकः । पुनः कामः मरः प्राप्ता यत्राऽऽस्ते दुःखिता रतिः॥ इदं कामसरो राजन्नत्र सा संस्थिता रतिः । दग्धे तस्मिन्महाभागे मन्मथे दुःखधपिणि ।। ६४ रत्याः कोपात्समुत्पन्नः पावको दारुणाकृतिः । अतीव दग्धा तेनापि सा रतिर्मोहमूर्छिता ॥६५ अश्रुपातं मुमोचाथ भर्तृहीना नरोत्तम । नेत्राभ्यां हि जले तस्याः पतिता अश्रुविन्दवः ॥ ६६ तेभ्यो जातो महाशोकः सर्वसौख्यप्रणाशकः । [क्षणात्पश्चात्समुद्भते अश्रुभ्यो नृपसत्तम ॥६७ वियोगो नाम दुर्मेधास्तेभ्यो जज्ञे प्रणाशकः] । दुःखसंतापको चाभी जज्ञाते दारुणी तदा॥६८ मूर्छा नाम ततो जज्ञे दारुणा सुखनाशिनी । शोकाज्जज्ञे महाराज कामज्वरोऽथ विभ्रमः ॥ ६९ मलापो बहुलश्चैव उन्मादो मृत्युरेव च । तस्यास्तदाऽश्रुबिन्दुभ्यो जज्ञिरे विश्वनाशकाः ॥ ७०
* एतचिहान्तर्गतः पारः छ. झ. ट. ठ. ड. पुस्तकस्थः । एञ्चिहान्तर्गतः पाठो ड. पुस्तकस्थः ।
१. थाकृष्टचित्तोऽसौ तां। २ क.ख.इ.च. छ. झ. ड. . वदःखसमाचारी य । ३ ङ, छ. झ. ड.ई. सुदीनं। ४. 'पि मे भावं कामं ममाग्रे । ङ. द. "पि भावं मे काममस्याये। ५ छ. झ. ड. त्याः कण्ठात्स। ६ ङ. छ. म. द. पो विल'।