________________
३२८ महामुनिश्रीव्यासमणीत
[ २ भूमिखण्डेअतस्तृप्त्यै द्विजश्रेष्ठ प्रायश्चित्तं वदस्व मे । कर्मणश्चात्य घोरस्य यथा शान्तिर्भवेन्मम ॥ ८५
वामदेव उवाचमायश्चित्तं न चैवास्ति ऋते भोगानरोत्तम । कर्मणश्च फलं सब तत्त्वं स्वस्य प्रभुश्व हि ॥ ८६ यत्र ते पतितः कायः प्रियायाश्चैव भूपते । युवाभ्यां हि प्रगन्तव्यं तत्र स्मरणपूर्वकम् ॥ ८७ उभाभ्यामपि भोक्तव्यः कायश्चाक्षय एव सः। [*स्वं स्वं राजन्न संदेहस्त्वया वै प्रियया सह।।]
सुबाहुरुवाचकियत्काल प्रभोक्तव्यं मयैवं प्रियया सह । तदादिश महाभाग प्रमाणं तद्वचो मम ॥ ८०
वामदेव उवाचवासुदेवाभिधं स्तोत्रं महापातकनाशनम् । यदा त्वं श्रोप्यसे राजस्तदा मोक्ष प्रयास्यसि ॥ एतत्ते सर्वमाख्यातं स्वेच्छया गच्छ तत्कुरु ॥ एवं श्रुत्वा ततो राजा भार्यया सह वै तदा । गत्वा तत्र शरीरं स्वं भुङ्क्ते वै प्रियया सह।।९१ नित्यमेव महाप्राज्ञ तद्वत्पूर्ण भवेद्वपुः । नित्यं प्रभुङ्क्तं वै राजा राज्ञी चास्य भुधान्विता ॥ ९२ यथा यथा स राजाऽपि भुङ्क्ते वै स्वकलेवरम् । हसन्ति च तदा नार्यस्तयोर्भावं वदाम्यहम्।।९३ देवैः साधे ततः श्रुत्वा चरितं तस्य भूपतेः । हास्यं च कुरुते शक्रस्तस्य राज्ञः सुरेश्वरः ॥ ९४ ततो वर्षशतान्ते तु वामदेवं महामुनिम् । स्मृत्वा स गर्हयामास आत्मानं प्रति सुव्रत ॥ ९५ न दत्तं पितृदेवेभ्यो ब्राह्मणेभ्यः कदा मया । न दत्तमतिथिभ्यो हि तदुत्थमिह भुज्यते ॥ ९६ दीनेभ्योऽपि न दत्तं मे कृपया वाऽऽतुराय च । एवं स भुङ्क्ते वै मांसं गर्हयन्स्वीयकर्म तत्॥ ९७ एवं स्वमांसं भुञ्जानं सुबाहुं प्रियया सह । हसेते च तदा दृष्ट्वा प्रज्ञा श्रद्धा च द्वे स्त्रियाँ ॥ ९८ तस्य कमविपाकस्य शुभात्मा हसते नृप । मम सङ्गप्रसङ्गन न दत्तं पापचेतसा ॥ ९९ प्रज्ञा च वचनैस्तैस्तु राजानं हसते पुनः । क गतोऽसौ महामोहा येन त्वं मोहितो नृप । १०० लोभेन मोहयुक्तेन तमोगर्ने निपातितः । तत्रापतित्वा सद्यव(?) पतितो दुःखसंकटे ॥ १०१ दानमार्ग परित्यज्य लोभमार्ग गतो नृप । भार्यया सह भुक्ष्व त्वं व्यापितः क्षुधया भृशम् १०२ एवं तं हसते |ज्ञा सुवाई, प्रिययाऽन्वितम् । एतद्वै कारणं प्रोक्तं तयोर्हास्यस्य पुत्रक ॥ १०३ भक्षमाणस्य भूपस्य देहं स्वं दुःखिते तदा । ऊचतर्देहि देहीति क्षुधा तृष्णा च ते परे ॥ १०४ क्षुधा तृष्णा महाप्राज्ञ भीमरूप भयानके । पयसा मिश्रितं भक्तं याचेते नृपतीश्वरम् ॥ १०५ एतत्ते सर्वमाख्यातं यच्चया परिपृच्छितम् । अन्यत्कि ते प्रवक्ष्यामि तद्वदख महामते ॥ १०६
एतचिहान्तर्गत: पाट: क. ख. घ. ड च. छ. झ. ट. पुस्तकस्थः ।
१ इ. दृ. 'च--साहसाकारमयुक्तं मयंव द्विजसत्तम । त। २ क. ख. घ. इ. च. छ. झ. ट. ठ. ढ. 'ज्ञा तस्य पुत्रक । य । इ. शी तत्र सुपुत्रक । य। ३ क ख. घ. ड. च. छ झ. ट. ट. इ. द. म् । प्रज्ञासाथै महाश्रद्धा चरित्रं तस्य भपतेः । हास्यं हि कुरुते नित्यं तस्य श्रद्धानुयायिनी । प्रज्ञया प्रेर्यमाणेन न दत्तं श्रद्धयाऽन्वितम् । ब्राह्मणेभ्यः ससं. कल्प्य अन्नमुद्दिश्य वैष्णवे । एवं स भक्षते मांसं स्वस्य कायस्य नित्यदा। योषित्तदात्मकायं च रसैश्चामृतसंनिर्भः । न । ४ क. ख. घ. ङ. छ. झ. ट. ठ. ड. द. भ्यः सुतोत्तम । न । ५ क.ख. ड. च. छ. झ. ह. द. हि वृद्धेभ्यश्च विशेषतः । दी। घ. ट. ठ. हि विप्रेभ्यश्च विशेषतः । दी। ६ क, ख. घ. ड. छ. झ. ट ठ ड. द. "सं स्वयमेव यथा नृप । ए । ७ घ. ट. ठ. ड. प्राज्ञं । ८ क. ख. ड. च. छ. द. ति याच्यमानः शृणुष्व हि।९ । घ. ट. ठ. ड. ति वाच्यमानः शृणुष्व हि। क्षु । ९. इ. द. मि धर्मसंदेहमिश्रितम् । वि ।