________________
[ २ भूमिखण्डे
20
१
.
१५६
महामुनिश्रीव्यासप्रणीतं
अर्थकोनविशोऽध्यायः । हरिरुवाचतपसाऽनेन पुण्येन सत्येनानेन ते द्विज । स्तोत्रेण पावनेनापि तुष्टोऽस्मि त्रियतां वरः॥ ? वरं दधि महाभाग यस्ते मनसि दुर्लभः । यं यमिच्छसि कामं त्वं तं तं ते पूरयाम्यहम् ॥ २
सोमशर्मोवाचप्रथमं देहि मे कृष्ण वरमेकं सुनिश्चितम् । सुप्रसन्नेन मनसा यद्यस्ति सुदया मम ॥ ३ जन्मजन्मान्तरं प्राप्य तव भक्तिं करोम्यहम् । दर्शयस्व परं स्थानमचलं मोक्षदायकम् ॥ ४ स्ववंशतारकं पुत्रं दिव्यलक्षणसंयुतम् । विष्णुभक्तिपरं नित्यं मम वंशधारकम् ॥ सर्वज्ञ सर्वदं दान्तं तपस्तेजःसमान्वतम् । देवव्राह्मणलोकानां पालकं पूजकं शुभम् ॥ देवमित्रं पुण्यभावं दातारं ज्ञानपण्डितम् । देहि मे ईदृशं पुत्रं दारिद्यं हर केशव ॥ भवत्वेवं न संदेहो वरमेनं वृणोम्यहम् ॥
हरिरुवाचएवमेव द्विजश्रेष्ठ भविष्यति न संशयः । मत्प्रसादान्सुपुत्रस्तु तब वंशप्रतारकः ॥ भोक्ष्यसि त्वं वरान्भोगान्दिव्यान्वे मानुषानिह । समादाय परं साग्व्यं मनःसंभवजं शुभम् ।। ९ यावज्जीवसि विप्र त्वं तावदुःखं न पश्यसि । दाता भोक्ता गुणग्राही भविष्यास न मंशयः १० सुतीर्थ मरणं विप्र यास्यसि त्वं परां गतिम् । एवं वरं हरिदत्वा मप्रियाय द्विजाय सः॥ ११ अन्तर्धानं गतो देवः स्वमवत्परिदृश्यते । तदा सुमनया युक्तः सोमशर्मा द्विजोत्तमः॥ १२ सुतीर्थे पावने तस्मिन्रेवातीरे सुपुण्यदे। अमरकण्टकं विप्रा दानपुण्यं करोति सः॥ १३ गते बहुतरे काले तस्य वे सोमशमेणः । कपिलारवयाः सङ्ग स्नानं कृत्वा स निर्गतः ॥ १४ पुरतो दृष्टवान्विषः श्वेतमेकं हि कुञ्जरम् । सुप्रभं सुमदं दिव्यं सुन्दरं चारुलक्षणम् ।। नानाभरणशोभाङ्गं बहुलक्षणसंयुतम् । सिन्दरकुङ्कमेरस्य कुम्भस्थले विचचिंते ।। कर्णनीलोत्पलयुतं पताकादण्डसंयुतम् । नागोपरिस्थितो दिव्यः पुरुषो दृष्टमत्रकः ॥ १७ दिव्यलक्षणसंपन्नः सर्वाभरणभूषितः । दिव्यमालाम्बरधरो दिव्यगन्धानुलेपनः ॥ १८ सुसौम्यं सोमवत्पूर्णच्छत्रचामरमंयुतम् । नागारूढं प्रयान्तं तं पुनः पश्यति सत्तमः ॥ सिद्धचारणगन्धर्वैः स्तूयमानं सुमङ्गलम् । सगजं सुन्दरं दृष्ट्वा पुरुपं दिव्यलक्षणम् ॥ २० व्यतर्कयत्सोमशर्मा विस्मयाविष्टमानसः । कोऽयं प्रयाति दिव्याङ्गः पन्थानं प्राप्य सुव्रतः॥ २१ एवं चिन्तयतस्तस्य स गतः प्राप्तवान्गृहम् । प्राविशन्तं गृहद्वारि देवरूपं मनोहरम् ॥ २२ हर्षेण महताऽऽविष्टः सोमशर्मा द्विजोत्तमः । स्वगृहं प्रति धर्मात्मा त्वरमाणः प्रयाति च ॥ गृहद्वारं गतो यावत्तावत्तं तु न पश्यति ॥ पतितानि च पुष्पाणि प्रेक्ष्य तानि महामतिः । दिव्यानि गन्धयुक्तानि प्राङ्गणे द्विजसत्तमः।।२४ चन्दनैः कुसुमैः पुण्यैः सुगन्धैश्च विलेपितम् । स्वकीयं प्राङ्गणं दृष्ट्वा दुर्वाङ्कुरसमन्वितम् ॥ २५ स एवं विस्मयाविष्टश्चिन्तयानः पुनः पुनः । ददर्श सुमनां प्राज्ञो दिव्यमङ्गलसंयुताम् ॥ २६
१ क. ख. दृ. च. झ. ढ. सुवाञ्छित । २ क. ख. ग. घ. इ. च छ. झ. ड. ढ. सदा । ३ क. ख. ङ. च. छ. झ. २. ढ. 'ख्यं पुत्रसं । ४ क ख, ग, घ. ह. च. छ. झ इ. द. लक्ष्म्या समान्वत । ५ ञ, चापि । ६ अ. 'विष्टो हृष्यमाणः पु।