________________
१४२ महामुनिश्रीव्यासप्रणीतं
२ [ भूमिखण्डेअशोकसुन्दरीनाम्ना लोके ख्याति प्रयास्यसि । सर्वसौभाग्यसंपमा मम पुत्री न संशयः ॥ ६८ सोमवंशे तु विख्यातो यथा देवः पुरंदरः । नहुषो नाम राजेन्द्रस्तव नाथो भविष्यति ॥ ६९ एवं दत्त्वा वरं तस्यै जगाम गिरिजा गिरिम् । कैलासं शंकरेणापि मुदा सा परयान्विता ॥७० इति श्रीमहापुरोण पाद्मे भूमिखण्डे वेनोपाख्याने गुरुतीर्थे यधिकशततमोऽध्यायः ॥ १०२ ॥
आदितः श्लोकानां समष्टयङ्काः-८१३६
अथ त्र्यधिकशततमोऽध्यायः ।
कुञ्जल उवाचअशोकसुन्दरी जाता सर्वयोषिद्वरा तदा । रेमे तु नन्दने पुण्ये सर्वकामगुणान्विते ॥ ? गुरूंपाभिः सुकन्याभिर्देवानां चारुहासिनि । सर्वान्भोगान्प्रभुञ्जाना गीतनृत्यविचक्षणा ॥ २ विप्रचित्तिसुतो हुण्डो रौद्रस्तीत्रश्च सर्वदा । स्वेच्छाचारो महाकामी नन्दनं प्रविवेश ह ॥ ३ अशोकसुन्दरीं दृष्ट्वा सर्वालंकारशोभिताम् । तस्यास्तु दर्शनाईत्यो विद्धः कामस्य मार्गणैः ॥ ४ तामुवाच महाकायः का त्वं कस्यासि सुन्दरि। कस्मात्त्वं कारणाचात्र ह्यागताऽसि वनोत्तमम् ॥५
अशोकसुन्दर्युवाचशिवस्यापि सुपुण्यस्य सुताऽहं शृणु सांप्रतम् । स्वमाऽहं कार्तिकेयस्य जननी गिरिजा मम ॥६ बालभावेन संप्राप्ता लीलया नन्दनं वनम् । भवान्को हि किमर्थं तु मामेवं परिपृच्छसि ॥ ७
हुण्ड उवाचविप्रचित्तेः सुतश्चाहं गुणलक्षणसंयुतः । हुण्डेति नाना विख्यातो बलवीर्यसमन्वितः॥ दैत्यानामप्यहं श्रेष्ठो मत्समो नास्ति राक्षसः ॥ देवेषु मर्त्यलोकेषु तपसा यशसा कुलैः । अन्येषु नागलोकेषु धनभाग्यैर्वरानने ॥ दर्शनात्ते विशालाक्षि हतः कन्दर्पमार्गणैः । शरणं तेऽप्यहं प्राप्तः प्रसादसुमुखी भव ।। भवस्व वल्लभा भायो मम पाणसमा प्रिया॥
अशोकसुन्दर्युवाचश्रूयतामभिधास्यामि सर्वसंबन्धकारणम् । भवितव्या मुजातस्य लोके स्त्री पुरुषस्य हि । भवितव्यस्तथा भतो स्त्रिया यः सदृशो गुणेः॥ संसारे लोकमार्गोऽयं शृणु हुण्ड यथाविधि । अस्त्येव कारणं चात्र यथा ते न भवाम्यहम् ॥१२ सुभायों देत्यराजेन्द्र शृणुष्व यतमानसः । तरुराजादहं जाता यदा काले महामते ॥ १३ शंभोभावं सुसंगृह्य पार्वत्या कल्पिताऽस्म्यहम् । देवस्यानुमतो देव्या सृष्टो भर्ता ममैव हि ॥१४ सोमवंशे महामाज्ञः स धर्मात्मा भविष्यति । जिष्णुजिष्णुसमो वीर्ये तेजसा पावकोपमः ॥ १५ सर्वज्ञः सत्यसंधश्च त्यागे वैश्रवणोपमः । यज्वा दानपतिः सोऽपि रूपेण मन्मथोपमः ॥ १६ नहुषो नाम धर्मात्मा गुणशीलमहानिधिः । देव्या देवेन मे दत्तः ख्यातो भर्ता भविष्यति॥१७
१ घ. ट. ठ. ड. वीक्षकः । २ क. स्व. रु. च. छ. झ. इ. द. पुणुर्विष्णु। ३ क. ख. च. छ. 'मः । धर्मशः सत्यवाग्धीरस्त्यागे। ङ, झ. ड. म. धर्मज्ञः सत्यवान्धीरस्त्यागे।