________________
१०२ व्यधिकशततमोऽध्यायः]
परपुराणम् । भाले सुपये मृगनाभिपनसमुत्यतेजामकरैविभाति ॥ सीमन्तमूले तिलकस्य तेजः प्रकाशयेवूपश्रियं मुलांके ॥ केशेषु मुक्ताफलके च भाले तस्याः सुशोभा विकरोति नित्यम् । यथा तु चन्द्रः परितो विभाति सुरम्यचेष्टेव विभाति तद्वत् ॥ संपूर्णचन्द्रोऽपि यथा विभाति ज्योत्स्नानिपातेन हिमांशुतेजः। तस्यास्तु वक्त्रं परिभाति तद्वच्छोभाकरं विश्वविशारदं च ॥ हिमांशुरेवापि कलङ्कयुक्तः संक्षीयते नित्यकलाविहीनः। संपूर्णमस्त्येव सदैव हृष्टं तस्यास्तु वक्त्रं परिनिष्कलङ्कम् ॥ गन्धं विकाशं कमले स्वकीयं ततः समालोक्य सुखं न लेभे । पद्मानना सर्वगुणोपपन्ना मदीयभावः परिनिर्मितयम् ॥ गन्धं स्वकीयं तु विपश्य प तस्या मुखाद्वाति जगत्समीरः ।
लज्जाभियुक्तं सहसा बभव जलं समाश्रित्य सदैव तिष्ठति ॥ *कतिमातिनियतबुद्ध्या सुधियो वदन्ति समदननृपतेः कोशं समुद्रकलाभिः। सुवरदशनरत्नेहाँस्यलीलाभियुक्ता अरुणअधरविम्ब शोभमानस्तु आस्यः ।। शुद्धा सुनासिका तस्याः सुकर्णी रत्नभूषितौ । हेमकान्तिसमोपेतो कपोली दीप्तिसंयुतौ ॥ ५३ रेखात्रयं प्रशोभेत ग्रीवायां परिसंस्थितम् । सौभाग्यसंपच्छारैस्तिस्रो रेखा इहैव हि ॥ ५४ सुस्तनी कठिनौ पीनौ वर्तुली बिल्वमंनिभी । तस्याः कन्दर्पकलशावभिषेकाय कल्पितौ ॥ अंसावतीव शोभेते सुसमी मानसाविती ॥ सुभुजौ वर्तुलौ स्निग्धौ सुवर्णी लक्षणान्वितौ । सुसमौ करपयौ तौ पद्मवर्णों मुशीतलौ ॥ ५६ दिव्यलक्षणसंपन्नौ पद्मस्वस्तिकसंयुतो । सरलाः पद्मसंयुक्ता अङ्गल्यो नखसंयुताः॥ ५७ नखानि मणिभासीनि जलबिन्दुनिभानि च । पद्मगर्भप्रतिच्छन्नो वर्णस्तदसंभवः ॥ ५८ पद्मगन्धा च सवोङ्गे पोव भाति भामिनी । सवेलक्षणसंपना नगकन्या सुशोभिता ॥ ५९ रक्तोत्पलनिभा पादो सुशक्तो चातिशोभनो । रत्नज्योतिःसमाकारा नखाः पादाप्रसंभवाः६० यथोद्दिष्टं च शास्त्रेषु तथा चार प्रदृश्यते । सर्वाभरणशोभाजी हारकरणनूपुरा ॥ ६१ मेखलाकटिसूत्रेण काञ्चीनादेन राजते । नीलेन पट्टवस्त्रेण परां शोभांगता तु सा ॥ ६२ कचकेनापि दिव्येन सुरक्तेन गुणान्विता । पार्वतीकल्पिताद्भावागुणं पाप्ता महोदयम् ॥ ६१ कल्पद्रुमान्मुदं लेभे शंकरं वाक्यमब्रवीत् । यथोक्तं तु त्वया देव तथा दृष्टं वनं मया ॥ यादृशं कथ्यते भावस्तादृशं परिदृश्यते ।
सूत उवाचअथ सा चारुसर्वाङ्गी तयोः पार्थे समेत्य वै । पादाम्बुज ननामाय सा भक्त्या उभयोर्मुदा॥६५ उवाच वचनं स्निग्धं त्वं हारि च सा तदा । कस्मादृष्टा त्वया मातः कथयस्वात्र कारणम् ॥६६
देव्युवाचवृक्षस्य कौतुकाद्भावान्मया वै प्रत्ययः कृतः । सघः प्राप्तं फलं भद्रे भवतीरूपसंपदा ॥ ६७
* सर्वपुस्तकेषु च्छन्दोभङ्गोऽथासंगतिश्च । १ क. ख. च. लक्ष्णौ । २ क. स. ड. छ. अ. सुश्लक्ष्णौ ।