________________
मष्टमोऽध्यायः ]
पद्मपुराणम् ।
भोपो वर्तते विप्रा द्वापरे युगमध्येके । गुणोत्तरं हैमवतं हरिवर्ष ततः परम् ॥ इति श्रीमहापुराणे पाद्म आदिखण्डे सप्तमोऽध्यायः ॥ ७ ॥ आदितः श्लोकानां समयङ्काः – २६ १
अथाष्टमोऽध्यायः ।
??
१५
ऋषय ऊचु:
जम्बूखण्डस्त्वया प्रोक्तो यथावदिह सत्तम । विष्कम्भस्य च प्रब्रूहि परिमाणं तु तत्त्वतः ॥ १ समुद्रस्य प्रमाणं च सम्यगच्छिद्रदर्शनः । शाकद्वीपं च नो ब्रूहि कुशद्वीपं च धार्मिक ॥। शाल्मलं चैव तत्त्वेन क्रौञ्च द्वीपं तथैव च ॥
सूत उवाच -
विमा: सुबहवो द्वीपा यैरिदं संततं जगत् । सप्त द्वीपान्प्रवक्ष्यामि शृणुत द्विजपुङ्गवाः ॥ अष्टादश सहस्राणि योजनानि द्विजोत्तमाः । षट्शतानि च पूर्णानि विष्कम्भो जम्बुपर्वतः || ४ लवणस्य समुद्रस्य विष्कम्भो द्विगुणः स्मृतः । नानाजनपदाकीर्णो मणिविद्रुमचित्रितः ।। नैकधातुविचित्रैश्च पर्वतैरुपशोभितः । सिद्धचारणसंकीर्णः सागरः परिमण्डलः ।। शाकद्वीपं च वक्ष्यामि यथावदिह सत्तमाः । शृणुताय यथान्यायं ब्रुवतो मम धार्मिकाः ॥ जम्बूद्वीपप्रमाणेन द्विगुणः स द्विजर्षभाः । विष्कम्भेन महाभागाः सागरोऽपि विभागशः ॥ क्षीरोदो मुनिशार्दूला येन संपरिवारितः । तत्र पुण्या जनपदास्तत्र न म्रियते जनः ॥ कुत एव हि दुर्भिक्षं क्षमातेजांयुता हि ते ।
शाकद्वीपस्य संक्षेपां यथावन्मुनिसत्तमाः । उक्त एष महाभागाः किमन्यत्कथयामि वः ।।
-
७
८
ऋषय ऊचु:
शाकद्वीपस्य संक्षेपो यथावदिह धार्मिक । उक्तस्त्वया महाप्राज्ञ विस्तरं ब्रूहि तत्त्वतः ॥ सूत उवाच -
तथैव पर्वता विमाः सप्तात्र मणिपर्वताः । रत्नाकरास्तथा नयस्तेषां नामानि वर्णये ॥ अतीव गुणवत्सर्वं तत्त्वं पृच्छ्थ धार्मिकाः । देवर्षिगन्धर्वयुतः प्रथमो मेरुरुच्यते || मागायतो महाभागा मैलयो नाम पर्वतः । ततो मेघाः प्रवर्तन्ते वर्षन्ति च सर्वशः ॥ ततः परेण मुनयो जलधारी महागिरिः । ततो नित्यमुपादत्ते वासवः परमं जलम् ॥ ततो वर्ष प्रभवति वर्षाकाले द्विजोत्तमाः । उच्चैगिरी रैवतको यत्र नित्यं प्रतिष्ठितम् ॥ रेवती दिवि नक्षत्रं पितामहकृतावधिः । उत्तरेण तु विप्रेन्द्राः श्यामो नाम महागिरिः ॥ नवमेयमभः प्रांशुः श्रीमानुज्ज्वलविग्रहः । यंत्र श्यामत्वमापन्नाः प्रजा मुदितमानसाः ॥ ऋषय ऊचु:सुमहान्संशयोऽस्माकं प्राप्तोऽयं सूत यस्तथा ( ? ) । प्रजाः कथं सूत सम्यक्संप्राप्ताः श्यामतामिह १९
११
१२
१३
१४
१५
१६
१७
१८
सूत उवाच -
सर्वेष्वेव महाप्राज्ञा द्वीपेषु मुनिपुङ्गवाः । गौरः कृष्णश्च पतगो त ( गस्त) योर्वर्णान्तरे द्विजाः ॥ २०
१. ढ. ध्यगे । गुरौं । २ ढ. म्बूद्वीपस्त्व ं । ३ ख. म. जलदो । ४ क. प्रभवन्ति । ५ क. यतः ।