________________
११८ महामुनिश्रीव्यासमणीतं
[ २ भूमिखण्डेपितृभक्तस्य देवेश दुःसह सर्वथा विभो । तेजोभङ्गो न कर्तव्यो ब्राह्मणानां महात्मनाम् ॥ ३० पुत्रपौत्रैः समस्तैस्तु ब्रह्मविष्णुहरं पुनः । नाशयन्ते न संदेहो यदि रुष्टा द्विजोत्तमाः॥ ३१ नाऽऽगच्छेद्यद्भवानद्य तदा ते राज्यमुत्तम् । आत्मतपःप्रभावेण अन्यस्मै तु महात्मने ॥ दातुकामस्तु संजातो रोषपूर्णेन चक्षुषा ॥ भवानद्य समायातो वरं दातुमिहेच्छसि । अमृतं देहि देवेन्द्र पितृभक्तिं तथाऽचलाम् ॥ ३३ एवंविधं वरं देहि यदि तुष्टोऽसि शत्रुहन् । एवं ददामि पुण्यं ते वरं चामृतसंयुतम् ॥ ३४ एवमाभाष्य तं विप्रममृतेन च संभृतम् । स कुम्भं दत्तवांस्तस्मै प्रीयमाणेन चाऽऽत्मना ॥ ३५ अचला ते भवेद्विम भक्तिः पितरि सर्वदा । एवमाभाष्य तं विषं विससर्ज सहस्रक् ।। ३६ प्रसनोऽभूञ्च तदृष्ट्वा विप्रतेजः सुदुःसहम् । विष्णुशर्मा ततो गत्वा पितरं वाक्यमब्रवीत् ।। ३७ तात इन्द्रात्समानीतममृतं व्याधिनाशनम् । अनेनापि महाभाग नीरुजो भव सर्वदा ॥ अमृतेन त्वमद्यैव परां तृप्तिमवामुहि ॥
३८ एतद्वाक्यं महच्छ्रुत्वा शिवशर्मा सुतस्य हि । सुतान्सर्वान्समाहूय प्रीयमाणेन चेतसा ॥ ३९ पितृभक्तियुता यूयं मद्वाक्यपरिपालकाः । वरं वृणुध्वं सुमीताः पुत्रका दुर्लभं भुवि ॥ ४० एवंमाभाषितं तस्य शुश्रुवुः सर्वसंमताः । ते सर्वे तु समालोक्य पितरं प्रत्यथाप्नुवन् ॥ ४१ अस्माकं जीवतान्माता गता या यममन्दिरम् । नीरजा भवतादेवी प्रसादात्तव सुव्रत ॥ ४२ भवान्पिता इयं माता जन्मजन्मान्तरे पितः । वयं सुता भवेमेति सर्वे पुण्यकृतस्तथा ॥ ४३
शिवशर्मोवाचअद्यैवापि मृता माता भवतां पुत्रवत्सला । जीवमाना सुहृष्टा सा एष्यते नात्र संशयः ॥ ४४ एवमुक्ते शुभे वाक्य ऋषिणा शिवशर्मणा । तेषां माता समायाता प्रहष्टा वाक्यमब्रवीत् ।। ४५ एतदर्थ समुत्पन्नं सुवीर्य तनयं वरम् । नराः सत्पुत्रमिच्छन्ति कुलवंशप्रभावकम् ॥ ४६ स्त्रियो लोके महाभागाः सुपुण्याः पुण्यवत्सलाः । सुतमिच्छन्ति सर्वत्र पुण्यगं पुण्यसाधकम् ४७ कुक्षि यस्या गतो गर्भः सुपुण्यः परिवर्तते । पुण्यान्पुत्रान्प्रसृते या सा नारी पुण्यभागिनी ॥ ४८ कुलाचारं कुलाधारं पितृमातृप्रतारकम् । विना पुण्येः कथं नारी संपामोति सुरो(तो)त्तमम्॥४९ न जाने कीरशैः पुण्यरेष भर्ता सुपुण्यभाक् । संजातो धर्मवीर्योऽपि धर्मात्मा धर्मवत्सलः ॥ ५० यस्य वीर्यान्मया प्राप्ता यूयं पुत्रास्ततोऽधिकाः। एवं पुण्यप्रभावोऽयं भवन्तः पुण्यवत्सलाः॥ ५१ मम पुत्रास्तु संजाताः पितृभक्तिपरायणाः । अहो लोकेषु पुण्येश्च सुपुत्रः परिलभ्यते ॥ ५२ एकैकशोऽधिकाः पञ्च मया प्राप्ता महाशयाः । यज्वानः पुण्यशीलाश्च तपस्तेजःपराक्रमाः ॥५३ एवं सवर्धितास्ते तु तया मात्रा पुनः पुनः । हर्षेण महताऽऽविष्टाः प्रणेमुर्मातरं मुदा ॥ ५४
पुत्रा ऊचु:सुपुण्यैः पाप्यते मातः सुमाता पिता किल । भवती पुण्यकर्ती तु नो भाग्यस्तु प्रवर्तिता ॥५५ यस्या गमोन्तरं प्राप्य सुपुण्येश्च प्रवर्धिताः । जन्मजन्मनि त्वं माता पिता चेष भवलिति ॥ ५६
पितोवाचशृणुध्वं मामकाः पुत्राः सुवरं पुण्यदायकम् । मयि तुष्टे सुता भोगाननुभुञ्जन्तु चाक्षयान् ॥ ५७
क.ब. ग. घ. च. छ. स. देवराट् । २ क. ख. च. छ. झ. नान्यथा । ३ ग. रेऽपि नः । । ४ क. ख. च. छ. स. सुपुण्यैः परिवर्धते । ज. सगुण्यः । ५ क. ख. च छ. झ. शुभाः । ग. घ. ज, ड. ढ. सुताः ।