SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ३४ चतुर्थोऽध्यायः ] पुत्रा ऊचु: यदि तात प्रसन्नोऽसि वरं दातुमिहेच्छसि । अस्मान्प्रेषय गोलोकं वैष्णवं दाहवर्जितम् ॥ ५७ पितोवाच गच्छध्वं वैष्णवं लोकं यूयं विगतकल्मषाः । मत्प्रसादात्तपोभिश्च पितृभक्त्याऽनयो तथा ॥ ५९ एवमुक्ते तु तेनापि सुवाक्य ऋषिणा ततः । शङ्खचक्रगदापाणिर्गरुडारूढ आगतः । ६० सपुत्रं शिवशर्माणमित्युवाच पुनः पुनः । सपुत्रेण त्वयाऽद्यैव जितो भक्त्याऽस्मि वै द्विज ॥ ६१ पुत्रैः सार्धं समागच्छ चतुर्भिः पुण्यकारिभिः । अनया भार्यया सार्धं पुण्यया पतिकामया ।। ६२ शिवशर्मोवाच पद्मपुराणम् । ११९ अमी गच्छन्तु पुत्रा मे वैष्णवं लोकमुत्तमम् । कंचित्कालं तु नेष्यामि भूमौ वै भार्यया सह ॥ ६३ अनेनापि सुपुत्रेण अन्त्येन सोमशर्मणा । एवमुक्ते शुभे वाक्य ऋषिणा सत्यभाषिणा ।। तानुवाचाथ देवेशः सुपुत्राशिवशर्मणः ।। ६४ ६५ ६६ ६७ गच्छन्तु मोक्षदं लोकं दाहमलयवर्जितम् । एवमुक्ते ततो विमाश्चत्वारः सत्यचेतसः || विष्णुरूपधराः सर्वे बभ्रुवुस्तत्क्षणादपि । इन्द्रनीलसमा वर्णैः शङ्खचक्रगदाधराः ॥ सर्वाभरणसौभाग्या विष्णुरूपा महौजसः । रत्नकङ्कणशोभाच्या रत्नमालाभिशोभिताः ।। प्रविष्टा वैष्णवं लोकं पश्यतः शिवशर्मणः । दीपं दीपा यथा यान्ति तद्वल्लीना महामते ।। ६८ गतास्ते वैष्णवं धाम पितृभक्त्या द्विजोत्तमाः । प्रभावं तु प्रवक्ष्यामि सुसत्यं सोमशर्मणः ।। ६९ इति श्रीमहापुराणे पाद्मे भूमिखण्डे शिवशर्मोपाख्याने तृतीयोऽध्यायः ॥ ३ ॥ आदितः श्लोकानां समष्टयङ्काः - - ३३१० अथ चतुर्थोऽध्यायः । [* सूत उवाच - गतेषु तेषु गोलोकं वैष्णवं तमसः परम् । शिवशर्मा महाप्राज्ञः कनिष्ठं वाक्यमब्रवीत् ] ।। १ ब्राह्मण उवाच सोमशर्मन्महाप्राज्ञ त्वं पितुर्भक्तितत्परः । अमृतस्य महाकुम्भं रक्ष दत्तं मयाऽधुना ॥ तीर्थयात्रां प्रयास्यामि अनया भार्यया सह ।। ३ ४ एवमस्तु महाभाग करिष्ये रक्षणं शुभम् । कुम्भं दत्त्वा स मेधावी तस्य हस्ते महात्मनः ॥ दशवर्षप्रमाणं तु तपस्तेपे निरन्तरम् । कुम्भं रक्षति धर्मात्मा दिवारात्रमतन्द्रितः ।। पुनः स हि समायातः शिवशर्मा महायशाः । मायां कृत्वा महाप्राज्ञो भार्यया स हि संयुतः ॥ ५ कुष्ठरोगातुरो भूत्वा तस्य भार्या च तादृशी । मांसपिण्डोपमा त्याज्यौ द्वावेतौ हि महात्मनः ॥ ६ सकाशं तस्य धीरस्य विप्रस्य सोमशर्मणः । समागतौ हि तौ दृष्ट्वा सर्वतो हि सुदुःखितौ ॥ ७ कृपया परयाऽऽविष्टः सोमशर्मा महायशाः । तयोः पादौ नमस्कृत्य भक्त्या नमितकन्धरः ॥ ८ * पुस्तकेऽधिकमेतत् । १ च. वं दुःखव ं । २ ग घ ङ. ज. ड, ढ. 'या स्वथा । ए । ३ क ख ग घ ङ च छ ज. श. ड. ढ. सः । हारक ं । ४ ग. ङ. ज. ढ. ब्रह्मदर्शनम् ।
SR No.010652
Book TitlePadmapurana Part 01
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1893
Total Pages387
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy