________________
१२० महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेभवादृशं न पश्यामि तपसोऽभिसमन्वितम् । गुणत्रातः सुपुण्यैश्च किमिदं वर्तितं त्वयि ॥ . दासवदेवताः सर्वा वर्तन्ते सर्वदा तव । आदेशं प्राप्य विप्रेन्द्र चाऽऽकृष्टास्तेजसा तव ॥ १० सवाओं केन पापेन गदोऽयं वेदनान्वितः । संजातो ब्राह्मणश्रेष्ठ तन्मे कथय कारणम् ॥ ११ इयं पुण्यवती माता महापुण्या पतिव्रता । या हि भर्तप्रसादेन त्रैलोक्यं धर्तुमिच्छति ॥ सा कथं दुःखमामोति किं नास्ति तपसः फलम् ॥
१२ रागद्वेषौ परित्यज्य विविधेनापि कर्मणा । या च शुश्रूषते कान्तं [*सा कथं दुःग्यमामुयात् ॥१३ या तु पूजयते कान्तं ] देववद्गुरुवत्सला । सा कथं दुःखमामोति कुष्ठरोगं सुदुःखदम् ॥ १४
शिवशर्मोवाचमा शुचस्त्वं महाभाग भुज्यते कर्मजं फलं । नरेण कर्मयुक्तेन पापपुण्यमयेन हि ॥ १५ शोधनं च कुरुप्व त्वमुभयो रोगयुक्तयोः । [*शुश्रूपणं महाभाग यदि पुण्यमिहेच्छसि ॥ १६ एवमुक्ते शुभे वाक्ये सोमशर्मा महायशाः । शुश्रूपां वा करिष्यामि युवयोः पुण्ययुक्तयोः ।। १७ मया पापेन दुष्टेन कृपणेन द्विजोत्तम । किं कर्तव्यामिहाद्येव यो गुरू न हि पूजयेत ॥ १८ एवमाभाष्य र्दुःखाद्वा तयोर्दुःखेन दुःखितः । श्लेप्ममत्रपुरीपं स उभयोः पर्यशोधयत ॥ १९ पादप्रक्षालनं चक्रे पादसंवाहनं तथा । स्नानस्थानादिकं चापि तयोर्भक्त्याऽन्विनः स्वयम् २० द्वावेतो हि गुरू विप्रः सोमशर्मा महायशाः । तीर्थ नयति धर्मात्मा स्कन्धमारोप्य सत्तमः ॥ २१ द्वावेतो हि स्वहस्तेन स्नापयित्वा तु मङ्गलः । सुमत्रवेदविच्चैव स्नानस्य विधिपूर्वकम् ॥ २२ तर्पणं हि पितृणां तु देवतानां तु पूजनम् । द्वाभ्यामपि सधर्मात्मा स कारयति नित्यशः ॥ २३ स्वयं होमं करोत्यग्नौ पंचत्यन्नमनुत्तमम् । संज्ञापयति सुप्रीतो द्वावेतौ च महागुरू ॥ २४ शय्यासने च तो विमः प्रस्वापयति नित्यशः । वस्त्रपुप्पादिकं मर्व ताभ्यां निन्यं प्रयच्छति २५ ताम्बूलं बहुगन्धाग्यमुभयोरर्पयेत्स तु । सोमशर्मा महाभागस्ताभ्यामपि च पृरयेत् ॥ २६ मूलं पयः सुभक्ष्याचं नित्यमेव ददात्यसी । तयोस्तु वाञ्छितं नित्यं सोमशर्मा महायशाः ।। २७ अनेन क्रमयोगेण नित्यमेव प्रसादयेत् । सोमशर्मा सुधर्मात्मा पितरो परिपूजयेत् ॥ २८ सोमशर्माणमाहूय पिता कुत्सति निष्ठुरः । निन्दितनिपुरैर्वाक्यस्ताडयन्मुष्टिभिः सदा ॥ २९ कृते कार्ये कृते पुण्ये नित्यमेव सुते पुनः । न कृतं शोभनं मह्यं त्वयैव कुलपांसुना ॥ ३० एवं नानाविधैर्वाक्यनिष्ठरेर्दुःखदायकैः । अताडयद्दण्डघातः शिवशर्मा सदाऽऽतुगः ॥ ३१ एवं कृतेऽपि धर्मात्मा नैव कुप्यति कहिचित् । मनसा वचमा चैव कर्मणा त्रिविधन च ॥ ३२ संतुष्टः सर्वदा सोऽपि पितरं परिपूजयत् । यज्ज्ञात्वा शिवशर्मा च चरितं स्वीयमीक्षते ॥ ३३ अमृतं मत्कृते चापि ह्यानीतं विष्णुशर्मणा । [* पुण्ययुक्तः स धर्मात्मा पितृभक्तिपरः सदा ॥३४
* क. ख. च. छ. झपुस्तकेष्वेवायं पाटः। + क. स्व. च. छ झपुस्तकस्थोऽय पाटः ।
१ छ. सा तेजसाऽपि वा । गु।: ग. घ. ८. . ढ. क्यं कर्तु। ३ क. ख. ग. दु. च छ. ज. झ. ट. ड. हि । अन्यमेव कु। ४ क. ख. च. छ. झ. दुःखात्मा । ५ क ख. च छ. झ धर्मार्थ । ६ ड ज झ. ज. ट. 'पञ्चयज्ञम' । ७ क. ख. ग. ङ. च. छ. ज. ड. भु मापयादि । ८ क. ख. च. 'रू । म ह्यासने च ती विप्र आस्था । ९ ग, टु. ज. ट. इ. स. 'हुमूलान्य । १० म. 'मन्यत्तथाऽर्पये। ११ ग. छ. निन्दल्येव मुतं पु। क. ख. च. निन्दत्यनं मुतं पु। १२ च. परितोषयेत् । १३ ग, घ, ङ. ज. ट. ड. ढ. 'त् । तद्वत्स सोमशर्मा च मातरं पितरं दिन । अ। १४ क. ख. च. छ. झ. 'तं रक्षते सोऽपि ।