________________
५ पञ्चमोऽध्यायः ] पद्मपुराणम् ।
१२१ एवं बहुतिथे काले शतसंख्ये गते सति । शिवशर्माऽपि पश्यैवं भक्तिं दृष्ट्वा विचिन्त्य ॥ ३५ मया वै पूर्वमिन्युक्तं सुपुत्रं यज्ञसंज्ञकम् । मातृखण्डानिमान्पुत्र यत्र तत्र क्षिपस्व हि ॥ ३६ मद्वाक्यं पालितं तेन कृता न मातरि कृपा । एतत्स्वल्पतरं दुःखं निर्जीवे घातमिप्यता ॥ ३७ माहसं तु कृतं तेन पुत्रेण वेदशर्मणो । अस्याधिकमहं मन्ये यतोऽयं चलते न च ॥ ३८ निमेषमात्रमेवापि साहसं कारयेत्पुनः । अस्याधिकस्तु संपन्नः प्रभावस्तपसः परः ॥ ३९ नित्यं समाराधनेऽपि वधिकं चास्य दृश्यते । तस्मादस्य परीक्षा चै समये तपसः कृता ॥ ४० भक्तिभावात्तथा सत्यान्नेव पुत्रः प्रणश्यति । मायया च निजातेऽपि कुष्ठरोगो निदर्शितः ॥४१ श्लेप्ममूत्रमलानां च घृणा नेव करोति च । व्रणाशोधयते नित्यं स्वहस्तेन महायशाः॥ ४२ अङ्गसंवाहनं तद्वत्करोति च महामतिः । दुःसहं वचनं मां दारुणं सहते सदा ॥ ४३ कुन्सने ताडने चैव सदा मिष्टप्रवाचकः । एवं दुःखसमाचारो मम पुत्रो महामतिः ॥ ४४ दुःखानां मागरे मनो बहुक्लेशैस्तु क्लेशितः । अपनेष्याम्यहं दुःखं विष्णोश्चैव प्रसादतः ॥ ४५ चिन्तयित्वा चिरं विप्रः शिवशर्मा महामतिः । पुनर्मायां चकाराथ कुम्भादपहृतं पयः ॥ पश्चात्तं च समाहूय सोमशर्माणमब्रवीत् ॥ नव हस्ते मया दत्तममृतं व्याधिनाशनम् । तन्मे शीघ्रं प्रयच्छस्व यथा पानं करोम्यहम् ॥ येन नीरुग्भवाम्यद्य प्रसादाद्विष्णुशर्मणः ॥ एवमुक्ते तदा वाक्ये ऋषिणा शिवशर्मणा । समुत्थाय त्वरायुक्तः सोमशर्मा कमण्डलुम् ॥ १८ तं च रिक्तं ततो दृष्ट्वा द्यमृतेन विना कृतम् । कम्य पापम्य वै कर्म केन मे विपियं कृतम् ॥ ४९ इति चिन्तापरो भूत्वा सोमशर्मा मुदुःग्विनः । पितुग्ग्रे च वृत्तान्तं कथयिष्याम्यहं यदा ॥ कोपं प्रयास्यति तदा गुरुर्मे व्याधिपीडितः ॥ सुचिरं चिन्तयित्वा तु सोमशर्मा महामतिः । यदि मे सत्यमस्तीति गुरुशुश्रूषणं यदि ॥ ५१ तपस्तप्तं मया पूर्व निव्येलीकन चेतसा । दमशोचादिभिः सत्यं धर्ममेव प्रपालितम् ॥ तदा घटोऽमृतयुतो भवत्वेष न संशयः ॥ यावदेवं महाभागश्चिन्तयित्वा विलोकयेत् । तावच्चामृतपूर्णस्तु पुनरेवाभवद्धटः॥ ५३ नं दृष्ट्वा हर्पसंयुक्तः मोमशर्मा महायशाः । गत्वा गुरुं नमस्कृत्य कुम्भमादाय सत्वरम् ॥ ५४ गृहाण त्वं पितश्चेमं पयःकुम्भं समागनम् । पानं कुरु महाभाग गदान्मुक्तो भवाचिरम् ॥ ५५ एतद्वाक्यं महापुण्यं सत्यधर्मार्थकं पुनः । शिवशर्मा सुतस्यापि श्रुत्वा च मधुराक्षरम् ॥ हर्षेण महताऽऽविष्ट इदं वचनमब्रवीत् ॥
इति श्रीमहापुराणे पाद्म भूमिखण्डे शिवशपिाख्याने चतुर्थोऽध्यायः ॥ ४ ॥ आदिप्तः श्लोकानां समयङ्काः-३३६६
अथ पनमोऽध्यायः । शिवशर्मोवाचनपसा दमशौचाभ्यां गुरुशुश्रूषया तथा । भक्त्या भावेन तुष्टोऽस्मि तवाद्य च सुपुत्रक॥ त्यजस्व(त्यजामि) वैकृतं रूपं मत्तः सुखमवामुहि ॥
___१ क. ख. च. णा । तात्कालिकमहं मन्ये यथा कर्ता भव निह । नि । २ क. ख. च. छ. झ. 'रः । तयोः सुपुत्रयोवाऽपि । ३ क.ख. च. छ. झ. च मयंव बद्दशः कृ। ४ क.स. च. छ. स. त्मनं' ताडनं पत्रः सर्वदेव प्रवाहकः । ५ क. ख. च. छ झ. क । गृहाण वैष्णवं सूक्तं म ।
सपा ॥