________________
३४४
महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डे
उवाच वाक्यं स्निग्धेव अशोकसुन्दरीं प्रति । काऽसि कस्यासि सुभगे तिष्ठसि त्वं तपोवने ।। ४६ किमर्थं क्रियते वाले कामशोषणकं तपः । तन्ममाऽऽचक्ष्व सुभगे किं निमित्तं सुदुष्करम् ॥ ४७ तनिशम्य शुभं वाक्यं दानवेनापि भाषितम् । मायारूपेण च्छन्नेन साभिलाषेण सत्वरम् ||४८ आत्मसृष्टिसुवृत्तान्तं प्रवृत्तं तु यथा पुरा । तपसः कारणं सर्व समाचष्टे सुदुःखिता ॥ उपप्लवं तु तस्यापि दानवस्य दुरात्मनः । मायारूपं न जानाति सौहृदात्कथितं तया ॥
४९
५०
हुण्ड उवाच
साधुव्रताऽसि हे देवि सम्यग्व्रतपरायणा । साधुशीलसमाचारा सोवाचाशोकसुन्दरीम् ॥ अहं पतिव्रता भद्रे पतिव्रतपरायणा ।।
५१
तपश्चरामि सुभगे भर्तुरर्थे महासती । मम भर्ता हतस्तेन हुण्डेनापि वरात्मना तस्य नाशाय वै घोरं तपस्यामि महत्तपः ||
५२
1
५३
५४
५६
५७
एहि मे स्वाश्रमे पुण्ये गङ्गातीरे वसाम्यहम् । अन्यैर्मनोहरैर्वाक्यैरुक्ता प्रत्ययकारकैः ॥ हुण्डेन सखिभावेन मोहिता शिवनन्दिनी । समाकृष्टा सुवेगेन महामोहेन मोहिता ॥ नीता चाऽऽत्मग्रहं दिव्यमनौपम्यं सुशोभनम् । मेरोः सुशिखरे पुत्र वैड्र्याख्यं पुरोत्तमम् ||५५ स्वस्त्रीवर्गगणोपेतं काञ्चनाख्यं सदा शुभम् । तुङ्गप्रासादसंबाधैः कलशैर्दण्डचामरः ॥ नानावृक्षसमोपेतैर्वनैनीलैर्घनोपमैः । वापीकूपतडागैश्च नदीभिस्तु जलाशयैः ॥ शोभमानं महारत्नैः प्राकारैर्हेमसंयुतः । सर्वकामसमृद्धार्थैः पूर्ण दैत्यगृहस्तथा ॥ ददृशे सा पुरं रम्यमशोकसुन्दरी तदा । कस्य देवस्य संस्थानं कथयस्व सखे मम । सोवाच दानवेन्द्रस्य पूर्व दृष्टस्य वै त्वया । हुण्डस्य स्थानमेतद्धि सोऽहं दानवपुंगवः ॥ मया त्वं तु समानीता मायया चात्र भामिनि । [तामाभाष्य गृहं नीता शातकौम्भं सुशोभनम् नानावेश्मैः समाजुष्टं कैलासशिखरोपमम् ] । निवेश्य सुन्दरीं तत्र दोलायां कामपीडितः ।। ६२ पुनः स्वरूपी दैत्येन्द्रः कामबाणप्रपीडितः । करसंपुटमाबध्य उवाच वचनं तदा ।।
५८
५९
६०
६३
यं यं त्वं वाञ्छसे भद्रे तं तं दद्मि न संशयः । भज मां त्वं विशालाक्षि भजन्तं कामपीडितम् ॥ अशोकसुन्दर्युवाच -
नैव चालयितुं शक्या भवता दानवेश्वर । मनसाऽपि न वै धार्या मम मोहं समागतम् ।। (१) ६५ भवादृशैर्महापापैर्देवैर्वा दानवाधम । दुष्प्राप्याऽहं न संदेह एवं प्राह पुनः पुनः ||
६६
६७
६८
स्कन्दानुजा सा तपसाऽभियुक्ता जाज्वल्यमाना महता रुषा च । संहर्तुकामा परिदानवं तं कालस्य जिहेव यथा स्फुरन्ती ॥ सा प्रोवाच पुनर्देवी तमेवं दानवाधमम् । उग्रं कर्म कृतं पाप आत्मनाशनहेतवे ।। आत्मनाशाय नाशाय स्वजनस्यास्य वै त्वया । स्वगृहं प्रापिता दीप्ता सुशिखा कृष्णवर्त्मनः ६९ arisशुभः कूटपक्षी सर्वशोकैः समुद्रतः । गृहं स प्रविशेद्यस्य तस्य नाशो भवेद्ध्रुवम् ॥ स्वजनस्य च सर्वस्य धनस्य च कुलस्य च । स द्विजो नाशमिच्छेत विशत्येवं यदा गृहम् ॥ ७१ तथा तेऽहं गृहं प्राप्ता तव नाशं समीहती । जीवं कुलं धनं धान्यं पुत्रपौत्रादिकं तथा ॥ ७२
७०
* एतचिहान्तर्गत: पाठश्छपुस्तकस्थः ।
१ क. ख. ङ. व. ड. ड. मायामोहेन । २ छ नसो नेव संधान म । ३ ङ. छ. उ. 'देहो मा वदस्व पु । ४ झ. "था च कुर्कुट पक्षी सर्वलोकेऽप्यमङ्गलः । गृ । ५ क. ख. ङ. च. छ. झ. ढ. तव ।