________________
१०३ व्यधिकशततमोऽध्यायः ] पत्रपुराणम् । पुत्राणां धनधान्यस्य ते वंशस्य च सांप्रतम् । सर्व ते नाशयित्वाऽहं यास्यामि च न संशयः॥७॥ यथा त्वयाऽहमानीता चरन्ती परमं तपः । पतिकामा प्रवाञ्छन्ती नहुषं चाऽऽयुनन्दनम् ॥ ७४ तथा त्वां मम भर्ता हि नाशयिष्यति दानव । मन्निमित्त उपायोऽयं दृष्टो देवेन वै पुरा ॥ ७५ सत्येयं लौकिकी गाथा यां गायन्ति विदो जनाः । प्रत्यक्षं दृश्यते लोके न विन्दन्ति कुबुद्धयः।। यत्र येन प्रभोक्तव्यं यस्माहुःखसुखादिकम् । सत्यं च भुज्यते तत्र तस्मादेव न संशयः॥ ७७ कर्मणोऽस्य फलं भुक्ष्व स्वकीयस्य महीतले । यास्यसे निरयं स्थानं परदाराभिमर्शनात् ॥७८ सुतीक्ष्णं हि सुधारं तु सुखङ्गं च विघट्टति । अङ्गुल्यग्रेण कोपाय तथा मां विद्धि सांप्रतम् ॥७९ सिंहस्य संमुखं गत्वा क्रुद्धस्य गर्जितस्य वो । को लुनाति मुखात्केशान्साहसाकारसंयुतः ।। ८० सत्याचारां दमोपेतां नियतां तपसि स्थिताम् । निधनं चेच्छने सद्यो यो वै मां भोकुमिच्छति ॥ स मणिं कृष्णसर्पस्य जीवमानस्य सांप्रतम् । ग्रहीतुमिच्छत्येवापि यथा कालेन प्रेषितः ॥ ८२ भवांस्तु प्रेषितो मृढ कालेन काममोहितः । तदा त ईदृशी जाता कुमतिः किं न पश्यासि ॥ ८३ ऋते तु आयुपुत्रेण समालोकयते हि कः । अन्यो हि निधनं याति मम गात्रावलोकनात् ॥ ८४ एवमाभाष्य तं दुष्टं गङ्गातीरं गता सती । मशोका दुःखसंविना नियता नियमान्विता ॥ ८५ पूर्वमाचरितं घोरं पतिकामनया तपः । तव नाशार्थमद्याहं चरिष्ये दारुणं तपः॥ ८६ यदा त्वां निहतं दुष्ट नहुषेण महात्मना । निशितैर्वनसंकाशेर्बाणैराशीविषोपमैः॥ ८७ रणे निपतितं पाप मुक्तकेशं सलोहितम् । गंतोत्साहं प्रद्रक्ष्यामि तदा यास्याम्यहं पतिम् ॥ ८८ एवं सुनियमं कृत्वा गङ्गातीरे अनुत्तमे । संस्थिता हुण्डनाशाय निश्चिता शिवनन्दिनी ॥ ८९
वह्नर्यथा दीप्तिमती शिखोज्ज्वला तनोभियुक्ता पदहेत्सुलोकान् ॥
क्रोधेन दीप्ता विबुधेशपुत्रिका गङ्गातटे दुश्वरमाचरत्तपः ॥ कुञ्जल उवाच--- एवमुक्त्वा महाभागा शिवस्य तनया गता । गङ्गाम्भसि ततः स्नात्वा सुपुरे काश्चनाहये ॥ ९१ तपश्चचार तन्वङ्गी हुण्डस्य वधहेतवे । अशोकसुन्दरी बाला सत्येन च समन्विता ॥ ९२ हुण्डोऽपि दुःखितो जान आत्मना पापचेतमा । चिन्तयामास संतप्ता यतीव वचनानलैः ॥ ९३ समाहूय अमात्यं तं कम्पनाख्यमथाब्रवीत् । समाचष्ट प्रवृत्तान्तं तस्याः शापोद्भवं महत् ॥ ९४ शप्तो ह्यशोकसुन्दर्या शिवस्यापि सुकन्यया । नहुषस्यापि मे भर्तुस्त्वं तु हस्तान्मरिष्यासि ॥ ९५ नैवं स्यात्तु ह्यसौ गर्भ आयोर्भार्या न गुर्विणी। यथा तु स्यादलीकस्तु तस्याः शापस्तथा कुरु ९६
कम्पन उवाचअपहृत्य पियां तस्य आयोश्चापि समानय । अनेनापि प्रकारेण तव शत्रुर्न जायते ॥ ९७ [*नो वा प्रपातयस्व त्वं गर्भ तस्याः प्रभीषणेः । अनेनापि प्रभावेण तव शत्रुर्न जायते ॥९८ जन्मकालं प्रतीक्षस्व नहुषस्य दुरात्मनः । अपहृत्य समानीय जहि त्वं पापचेतनम् ॥ ९९ एवं संमन्त्र्य तेनापि कम्पनेन स दानवः । अभूत्स चोद्यमी ह्येवं नहुषस्य प्रणाशने ॥ १००
* एतचिहान्तर्गतः पाठः उ. पुस्तकस्थः । १ ङ. छ. तनिमित्त । २ ग. घ. ज. ट. ठ. ड. वा । कौतुकान्मृगकोपेन साहसात्कर्तुमिच्छति । स । ३ क. ख.. च. छ. झ. इ. ड. कालमोहितः । ४६. ट. गतासं च प्र। छ. गताशं च प्र। ५क. ख. र.च. छ.स. ह. द. निबला। ६ . आपयुक्तेन चें। क. ख. मदनानलैः । ८ ङ. छ. श. ड. व जातस्त्वसी ।