________________
४९ एकोनपञ्चाशत्तमोऽध्यायः ] पवपुराणम् ।
२२१ सर्वधर्मार्थतत्त्वज्ञो वेदशः श्रुतवान्बली । दाता भोक्ता गुणग्राही सगुणान्वेत्ति भूपतिः॥ २ राज्यं चकार मेधावी प्रजा धर्मेण पालयेत् । एवमेव महातेजा उग्रसेनः प्रतापवान् ॥ ३ वैदर्भविषये पुण्ये सत्यकेतुः प्रतापवान् । तस्य कन्या महाभागा पद्माक्षी कमलानना ॥ ४ नाम्ना पद्मावती नाम सत्यधर्मपरायणा । सा स्त्रीणां च गुणयुक्ता द्वितीयेव समुद्रजा ॥ ५ वैदर्भी शुशुभे राजस्वगुणैः सत्यकारणैः । माथुरस्तूग्रसेनस्तु ह्युपयेमे सुलोचनाम् ॥ ६ तया सह महाभागः सुखं रेमे प्रतापवान् । अतिप्रीतो गुणैस्तस्यास्तया सह सुखी भवेत् ।। ७ तस्याः स्नेहेन प्रीत्या वै स मुग्धो मथुरेश्वरः । पद्मावती महाभाग तस्य प्राणप्रियाऽभवत् ॥ ८ तया विना न बुभुजे तया सह प्रक्रीडयेत् । तया विना न वै लेभे परमं सुखमेव सः॥ ९ एवं प्रीतिकरौ जातो परस्परमनुत्तमौ । स्नेहवन्तौ द्विनश्रेष्ठ सुखसंप्रीतिदायको ॥ १० सत्यकेतुश्च राजेन्द्रः सस्मार स पद्यावतीम् । स्वसुतां तां महाभागां माता तस्याः सुदुःखिता॥११ सा दूतान्प्रेषयामास वैदर्भी माथुरं प्रति । उग्रसेनं नृवीरेन्द्र सादरेण द्विजोतम ॥ १२ गत्वा दूतोऽथ मथुरां राजानं वाक्यमब्रवीत् । विदर्भाधिपतिं भक्त्या स स्नेहेन न्यवेदयत् ॥१३ आत्मनः कुशलं घूते भवतां परिपृच्छति । सत्यकेतुर्महाराज त्वामेवं परिस्निग्धवान् ॥ १४ दर्शनाय सुतां चाऽऽर्य पद्यावतीं च प्रेषय । यदि त्वं मन्यसे नाथ प्रीतिस्नेह हि तस्य च ॥१५ प्रेषयस्व महाभागां तव प्रीतिकरां सदा । औत्सुक्येन महाराज सा शोकेनानुवर्तते ॥ १६ समाकर्ण्य ततो वाक्यमुग्रसेनो नरोत्तमः । पीत्या स्नेहेन तस्यापि सत्यकेतोर्महात्मनः ॥ १७ दाक्षिण्येन च विप्रेन्द्र प्रेषयामास भूपतिः । पद्मावती पियां भार्यामुग्रसेनः प्रतापवान् ॥ १८ प्रेषिता तेन राजेन्द्र गता पद्मावती स्वकम् । पूर्व गृहं सती सा तु महाहर्षेण संयुता ॥ १९ पितृपूर्व कुटुम्बं तु ददृशे चारुमङ्गला । पितुः पादौ ननामाथ शिरसा सत्यतत्परा ॥ २० आगतायां महाराज पद्मावत्यां द्विजोत्तम । हर्षेण महताऽऽविष्टो विदर्भाधिपतिपः॥ २१ वर्धिता मानंदानेश्च वस्त्रालंकारभूषणः । पद्मावती मुखेनापि पितुर्गेहे प्रवर्तते ॥ सखीभिः सहिता सा तु निःशवं परिवर्तते । रमते सा तदा तत्र यथापूर्व तथैव च ॥ गृहे वने तडागेषु प्रासादेषु तथैव च । पुनर्वाला बभूवाथ निर्लज्जैव पर्वतेते ॥ निःशङ्का वर्तते विप्र सखीभिः सह सर्वदा । पतिव्रता महाभागा हर्षेण महताऽन्विता ॥ २५ मुखं तु पितृगेहस्य दुर्लभं श्वाशुरे गृहे । एवं ज्ञात्वा तदा रेमे कदा ईदृग्भविष्यति ॥ २६ अनेन मोहभावेन क्रीडालुब्धा वरानना । सखीभिः सहिता नित्यं वनेषूपवने तदा ॥ २७ इति श्रीमहापुराणे पाझे भमिखण्डे वेनोपाख्याने मुकलाचरितेऽटाचत्वारिंशोऽध्यायः ॥ ८ ॥
आदितः श्लोकानां समष्टयङ्काः-५७६०
अर्थकोनपश्चाशत्तमोऽध्यायः ।
ब्राह्मण्युवाचएकदा तु महाभाग गता सा पर्वतोत्तमम् । रमणीयं वनं दृष्ट्वा कदलीखण्डमण्डितम् ॥ १
१ ग घ. ज. वान्वशी । दा'। २ ज. 'णान्वितविग्रहः । रा।३ ग. घ. ट. ड. महासेन । ४ ज. 'जे क्रीढत्येव निरन्तरम् । त। ५ ज. यादवेन्द्र । ६ म. 'तमः । उप्रमेन महाराज रा। उ. 'समः । उग्रमेन स गत्वा तुरा। ७ ज. से वीर श्वश्रोः प्रीतिकरं सदा । । ८ ग. घ. ज. नरेश्वरः । ९ ज. पितुः । १० ग. घ. ट. संकुलम् । ११ ज. महाभाग । १२ ज. नृपोत्तमः । १३ ज. 'तिस्तदा । । १४ ज. 'नदेश्चैव ।१५ ज. व च पूर्ववत् । निः । १६ ज. 'नेषु बजते सदा।