________________
२२२
." our १ .
महामुनिश्रीव्यासप्रणीत- [२ भूमिखण्डेशालेस्तालेस्तमालैश्च नालिकेरैस्तथोत्कटैः । पूगीफलैर्मातुलुकै रङ्गश्चारुजम्बुकैः ।। चम्पकैः पाटलैः पुण्यैः पुष्पितैः केतकैवरैः । अशोकबकुलोपेतं नानाऔरलंकृतम् ॥ ३ पर्वतं पुष्पवन्तं च पुष्पितैश्च नगोत्तमैः । सर्वत्र शोभितं रम्यं नानाधातुसमाकुलम् ॥ ४ [*गौररम्यतरं दृष्ट्वा तदेव वनमुत्तमम् ] । तडागं सर्वतो भद्रं पुण्यतोयेन पूरितम् ॥ कमलैः पुष्पितैश्वान्यैः सुगन्धैः कनकोत्पलैः । श्वेतोत्पलैविभासन्तं रक्तोत्पलमुपुष्पितैः॥ नीलोत्पलैश्च कलारेईसैश्च जलकुकुरैः । पक्षिभिर्जलजैश्वान्यैर्नानाधातुसमाकुलम् ॥ ७ तडागं सर्वतः शुभ्रं नानापक्षिगणैर्युतम् । कोकिलानां रुतैः पुण्यैः सुखरैः परिशोभितम् ॥ ८ मयूराणां तथा शब्दैः सर्व च मधुरायते । षट्पदानां सुनादेन सर्वत्र परिशोभते ॥ ९ एवंविधं गिरिं रम्यं तदेव वनमुत्तमम् । तडागं सर्वतो भद्रं ददृशे नृपनन्दिनी ॥ १० वैदर्भी क्रीडमाना सा सखीभिः सहिता तदा । समालोक्य वनं पुण्यं सर्वत्र कुसुमाकुलम् ॥११ चापल्येन प्रभावेन स्त्रीभावेन च लीलया । पद्मावती सरस्तीरे सखीभिः सहिता तदा ॥ १२ जलक्रीडासमालीना हंसते गायते पुनः । सुखेन रममाणा सा तस्मिन्सरसि भामिनी ॥ १३ एवं विप्र तदा सा तु सुखेन परिवर्तते । गोभिलो नाम वै दैत्यो भृत्यो वोश्रवणस्य च ॥ १४ दिव्येनापि विमानेन सर्वभोगपरिष्कृतः । याति चाऽऽकाशमार्गेण तडागस्योर्वमागतः॥ १५ तेन दृष्टा विशालाक्षी वेदी निर्भया तदा । सर्वयोषिद्वरा सा हि उग्रसेनस्य वे मिया ॥ १६ रूपेणाप्रतिमा लोके सर्वाङ्गेषु विराजते । रतिर्वे मन्मथस्यापि किं वाऽपीयं हरिप्रिया ॥ १७ किं वाऽपि पार्वती देवी शची किं वा भविष्यति । यादृशी दृश्यते चेयं नारीणामुत्तमा वरा १८ अन्या चेवेशी नास्ति द्वितीया क्षितिमण्डले । नक्षत्रेषु यथा चन्द्रः संपूर्णो भाति शोभन: १९ गुणरूपकलाभिस्तु तथा भाति वरानना । पुष्करेषु यथा हंसस्तथेयं चारुहासिनी ॥ २० अहो रूपमहो भावमस्यास्तु परिदृश्यते । का कस्य शोभना बाला चारुवृत्तपयोधरा ॥ २१ विपश्य गोभिलो दैत्यः पद्मावती वराननाम् । चिन्तयित्वा क्षणं विम का कस्यापि भविष्यति॥ ज्ञानेन महता ज्ञात्वा वैदर्भीति न संशयः । दयिता उग्रसेनस्य पतिव्रतपरायणा ॥ २३
आत्मबलेन तिष्ठन्ती दुष्पाप्या पुरुषेरपि । उग्रसेनो महामूर्खः प्रेषिता येन वे वरा ॥ २४ पितुर्गेहमियं बाला स तु भाग्येन वर्जितः । अनया विना स जीवेच्च कथं कूटमतिः सदा ॥२५ किंवा नपुंसको राजा एनां यो हि परित्यजेत् । तां दृष्ट्वा स तु कामात्मा संजातस्तत्क्षणादपि॥ इयं पतिव्रता बाला दुष्पाप्या पुरुषैरपि । कथं भोक्ष्याम्यहं गत्वा कामोऽति मम पीडयेत् ॥ २७ अभुक्त्वाऽहं यदा यास्ये मृत्युमेम तदा भवेत् । अद्येव हि न संदेहो यतः कामो महाबलः ॥२८ इतिचिन्तापरो भूत्वा उपायं ससृजे तदा । कृत्वा मायामयं रूपमुग्रसेनस्य भूपतेः ॥ २९ यादृशस्तूग्रसेनश्च साङ्गोपाङ्गो महानृपः । गोभिलस्तादृशो भूत्वा गत्या च स्वरभाषया ॥ ३० यथावस्त्रो यथावेषो वयसा च तथा पुनः । दिव्यमालाम्बरधरी दिव्यगन्धानुलेपनः ॥ ३१ सर्वाभरणशोभाको यादृशो माथुरेश्वरः । भूत्वा च तादृशो दैत्य उग्रसेनमयस्तदा ॥ ३२
* एतचिहान्तर्गतोऽयं पाठो ज. पुस्तकस्थः। १ ग. घ. ङ. . ढ. पुष्पैः । २ . द. वटैः । । ३ ज. सन्नेहं । ४ ग. घ. ट. ह. विश्वसिता सा। ५ ग. घ. ज. ट. इ. दैत्यः पुत्रो ३ । ६ ग. घ. ह. ट. इ. ८ परिप्लुतः । ७ ज. मूढमतिः । ८ ग. घ ज. ड. 'माल्याम्म' । ९ ज. शः परिवेश्व।