________________
३०० महामुनिश्रीन्यासप्रणीत
[ २ भूमिखण्डेनित्यं चैव रसाढ्यानि आहारार्थ सुपुत्रकाः। नीत्वा फलानि दंपत्योर्निक्षिपन्ति प्रयत्नतः॥३५ मातुरर्य महाभागा भक्त्या भावेन तोषिताः । संतुष्टा आहारमुत्पाद्य भक्षयन्ति पठन्ति च ॥३६ तत्र क्रीडारताः सर्वे विलसन्ति सहोदराः । संध्याकालं समाज्ञाय पितुरन्तिकमुत्तमम् ॥ आयान्ति भक्ष्यमादाय गुर्वर्थ तु प्रयत्नतः॥ पश्यतस्तस्य विप्रस्य च्यवनस्य महात्मनः। आगताश्च द्विजाः सर्वे पितुर्नीडं सुशोभनम् ॥ ३८ [ *पितरं मातरं चोभौ ननमुस्ते महामते । ताभ्यां भक्ष्यं समासाद्य उपतस्थुस्तयोः पुरः ॥३९ सर्वे संभाषिताः पित्रा मानितास्ते सुतोत्तमाः। मात्रा च कृपया राजन्वचनैः प्रीतिदायकैः ॥ पक्षवातेन शीतेन मातापित्रोश्च ते तदा ॥ तेषां मायाधनं तौ द्वौ चक्राते पक्षिणी नृप । आशीभिरभिनन्द्यैव द्वाभ्यामपि सुपुत्रकान् ॥ ४१ तेश्च दत्तं सुसंपुष्टमाहारममृतोपमम् । तावेव हि सुसंप्रीतिं चक्राते द्विजसत्तमाः॥ ४२ पिबेते निर्मलं तोयं तीर्थकोटिसमुद्भवम् । स्वस्थानं तु समाश्रित्य सुखसंतुष्टमानसौ ॥] ४३ सोऽशित्वा भार्यया सार्ध तैश्च संतुष्टमानसः। कथां दिव्यां सुपुण्यां च चकार तनयैदिजः ॥४४
विष्णुरुषाचपित्रा तु कुञ्जलेनापि उज्ज्वलः स्वात्मजस्ततः । क गतश्चेति संपृष्टः किमपूर्वं त्वया पुनः ॥ तत्र दृष्टं श्रुतं यच्च तन्मे कथय नन्दन ॥ कुञ्जलस्य पितुर्वाक्यं समाकर्ण्य स उज्ज्वलः । पितरं प्रत्युवाचाथ भक्त्या नमितकंधरः॥ कृत्वा मूर्धा प्रणामं च कथां चक्रे मनोहराम् ॥
उज्ज्वल उवाच -- प्लक्षद्वीपं महाभाग नित्यमेव प्रयाम्यहम् । महता उद्यमेनापि न्वाहारार्थ महामने ॥ प्लक्षद्वीपे महाभाग सन्ति देशा अनेकशः । पर्वताः सरितोद्यानवनानि च सरांसि च ॥ ग्रामाश्च पत्तनाश्चेव प्रजाश्चातिप्रमोदिताः ॥ सदा सुखेन संतृष्टा लोकाः सन्ति सुतेजसः । दानपुण्यनयोपेताः श्रद्धाभावसमन्विताः ॥ ४९ प्लक्षद्वीपे महाराज आसीत्पुण्यमतिः सदा । दिवोदासेति विख्यातः सत्यधर्मपरायणः॥ ५० तस्यापत्यं समुत्पन्नं नारीणामुत्तमं तदा । गुणरूपसमायुक्ता सुशीला चारुमङ्गला ॥ दिव्यादेवीति विख्याता रूपेणापतिमा भुवि ॥ पित्रा विलोकिता सा तु रूपलावण्यसंयुता । प्रथमे वयसि दिव्या वर्तते चारुमङ्गला ॥ ५२ स तां दृष्ट्वा दिवोदासो दिव्यादेवीं सुतां तदा । कस्मै प्रदीयते कन्या सुवराय महात्मने ॥५३ इतिचिन्तापरो भूत्वा समालोच्य नृपोत्तमः । रूपदेशस्य राजानं समालोक्य महीपतिः॥ ५४ [' चित्रसेनं महात्मानं समाहृय नरोत्तमः।] कन्यां ददौ महात्माऽसौ चित्रसेनाय धीमते॥५५ तस्या विवाहयज्ञस्य संप्राप्ते समये नृप । मृतोऽसौ चित्रसेनस्तु कालधर्मेण वै किल ॥ ५६ दिवोदासस्तु धर्मात्मा चिन्तयामास भूपतिः । ब्राह्मणान्स समाहूय पप्रच्छ नृपनन्दनः ॥ ५७ ___* एतचिहान्तर्गतः पाठः क. ख. घ. ङ. च. छ. झ. ट. इ. ८. पुस्तकस्थः । । एतचिहान्तर्गतः पाठः क. ख. कृ. च. छ. स. पुस्तकस्थः ।
१क. ख. घ. ङ. च. छ. स. ट. ड. सौ। स्वस्थानं तु समाश्रित्य सुखसंतुष्टमानसौ। चक्राते च कथां दिव्यां सुपुण्यां पापनाशिनीम् । पि । २ क. ख. घ. ड. च. छ. झ. ड. द. प्रीतये ।