________________
१८०
महामुनिश्रीव्यासपणीनं
[ २ भूमिखण्डेकर्मणैव हि तस्यापि व्यापार परिवर्तयेत् । मृत्योश्चापि महाभागा लोभात्पुण्या प्रजायते ॥ ४६ सुनीथा नाम वै कन्या संजातेषा महात्मनः । पितुः कर्मविपाकेन क्रीडमाना सदैव सा ॥ प्रजानां शास्ति कर्तारं पापपुण्यनिदर्शनम् ॥ सा तु कन्या महाभागा सुनीथा नाम तस्य सा । रममाणा वनं प्राप्ता सखीभिः परिवारिता४८ तत्रापश्यन्महाभागं गन्धर्वतनयं वरम् । गीतकोलाहलस्यापि सुशचं नाम सा तदा ॥ ४९ ददर्श चारुसर्वाङ्गं संतपन्तं महत्तपः । गीतविद्यासुसिद्ध्यर्थं ध्यायामनं सरस्वतीम् ॥ ५० तस्यापराधमेवासी संचकार दिने दिने । सुशङ्कः क्षमते नित्यं गच्छ गच्छेति सोऽब्रवीत् ॥ ५१ प्रेषिता नैव गच्छेत्सा विघ्नमेव समाचरेत् । तेनैवमुक्ता सा क्रुद्धाऽताडयत्तपसि स्थितम् ॥ ५२ तामुवाच ततः क्रुद्धः सुंशङ्कः क्रोधमूर्छितः । दुष्टे पापसमाचारे कस्माद्विन्नं त्वया कृतम् ॥ ५३ ताडनात्ताडनं भद्रे न कुर्वन्ति महाजनाः । आक्रुष्टा नैव क्रुध्यन्ति चंति धर्मस्य संस्थितिः ॥ ५४ त्वयाऽहं घातितः पापे निर्दोपस्तपसि स्थितः। एवमुक्त्वा स धर्मात्मा सुनीथां पापचारिणीम् विरराम महाक्रोधाज्ज्ञात्वा नारी निवर्तितः । ततः सा पापमोहाद्वा वाल्याद्वा तमिहेव च ॥५६ समुवाच महात्मानं मुंशङ्ख तपसि स्थितम् । त्रैलोक्यवासिनां तातो ममैव परिघातकः ॥ ५७ असतो घातयन्नित्यं सतो न परितापयेत् । नैव दोषो भवेत्तस्य महापुण्यन वर्तयेत् ॥ ५८ एवमुक्त्वा सुनीथा तु पितरं वाक्यमब्रवीत् । मया हि ताडितस्तात गन्धर्वतनयो वने ॥ ५९ तपस्तपन्स वे तात कामक्रोधविवर्जितः । मामुवाच स धर्मात्माऽकामरागसमास्थितः ॥ ६० न ताडयेत्ताडयन्तं क्रोशन्तं नैव क्रोशयेत् । इत्युवाच स मां तात तन्मे त्वं कारणं वद ॥ ६१ एवमुक्तः स वै मृत्युः सुनीथां द्विजसत्तमाः । किंचिन्नोवाच धर्मात्मा प्रश्नप्रत्युत्तरं ततः ॥ ६२ वनं प्राप्ता पुनः सा हि सुशावं तपसि स्थितम् । कशाघातस्ततो दुष्टा जघान तपतां वरम् ॥ ६३ सुशवस्ताडितो विप्रा मृत्योश्चैव हि कन्यया। ततः क्रुद्धा महातेजाः शशाप तां सुमध्यमाम् ॥६४ निर्दोषोऽपि च वै भद्रे यस्मात्त्वयैव ताडितः । अहमेवं तपःसंस्थस्तस्माच्छापं ददाम्यहम् ॥६५ गार्हस्थ्यं हि समास्थाय सङ्गो भी यदा तदा।पापाचारमयः पुत्रो देवब्राह्मणनिन्दकः ।। ६६ सर्वपापरतो दुष्टस्तव गर्भाद्भविष्यति । एवं शप्त्वा गतश्चासी तप एव समाश्रितः ॥ ६७ गते तस्मिन्महाभागे सा सुनीथाऽऽगता गृहम् । समाचष्टे महात्मानं पितरं प्रति सा द्विजाः ॥६८ यथा शप्ता तदा तेन गन्धर्वतनयेन तु । तत्सर्व संश्रुतं तेन मृत्युना परिभाषितम् ॥ ६९ कस्मात्त्वया ताडितोऽस्ति तपस्त्री दांपवर्जितः । युक्तं नव कृतं भद्रे तपतस्तस्य ताडनम् ॥ ७० एवमाभाप्य धर्मात्मा मृत्युः परमदुखितः। [* बभूव स हितं तस्या दिष्टमेवं विचिन्तयन् ] ७१
सूत उवाचअत्रिपुत्री महातेजा अङ्गो नाम महीपतिः । एकदा तु गती विप्रास्तद्वनं प्रति नन्दनम् ॥ ७२ तत्र दृष्टो देवराजस्तनेन्द्रः पाकशासनः । अप्सरसां गणयुक्तो गन्धर्वः किंनरस्तथा ॥ ७३ [' गीयमानो महास्तोत्रक्रषिभिर्देवमङ्गलैः । ] गीयमानी गीतकैश्च सुस्वरः सप्तकैस्तथा ॥ ७४ * अ. पुस्तकस्थोऽयमेतचिह्नान्तर्गत: पाट: । एतञ्चिदान्तर्गतोऽयं पाठो ग. घ. इ. छ. झ. ट. ड. द. पुस्तकस्य ।
१ क. स्व. ड. च. छ. झ. ढ. प्रयोजयेत् । २ क. ख. ङ. च. छ. झ. द. विपश्यव की । ३ ट.'म वश्यगा । र । ४ ज. सुसखं । ५ क. ख. ड. च. छ. झ. ड. ढ. सुमखः । ६ क. ख. ड. च. छ. स. ढ. दष्टे । ७ क. खड. च छ. झ. इ. द. सुसख ८ ज. जातो। ९ ड. छ. झ क्त्वा गता सा तु । १० क. ख. ग. घ. ङ. च. छ. झ. ट. ड. द. त्मा क्रोधरा । ११ क. ख. ङ. च. छ. झ. ड ढ. सुसख । १२ क. ख. ङ. च. छ. झ. ड. द. व वने सं। १३ क. ख, ङ. च. छ. झ. . प्रतापवान् ।