________________
५ पञ्चमोऽध्यायः ]
पद्मपुराणम् ।
१२३
देवत्वं लभ्य चैवासावैन्द्रं पदमनुत्तमम् । मोक्षं यास्यति धर्मात्मा वैष्णवं धाम चोत्तमम् ॥ ३२ असंख्याता महाभागाः सृष्टेर्भावा ह्यनेकशः । मोह एवं न कर्तव्यो ज्ञानवद्भिर्महात्मभिः ॥ ३३ एतद्रः सर्वमाख्यातं यथा पृष्टं द्विजोत्तमाः । [*अन्यं पृच्छत वै प्रश्नं संदेहं वो भिनद्म्यहम् ।। ३४ विजयं देवतानां च दानवानां महाक्षयम् । कृतं हि देवदेवेन स्थापितं भुवनत्रयम् ॥
३५
ऋषय ऊचु:
इद्रत्वं कस्य संजातं देवानां राज्यधारकम् । केन दत्तं त्वमाचक्ष्व विस्तराद्विजसत्तम ॥ सूत उवाच -
३७
३८
३९
विस्तरेण प्रवक्ष्यामि इन्द्रत्वं येन सत्तमाः ] । प्राप्तमेव महाभागा यथा पुण्यतमेन च ॥ तेषु तेषु दैत्येषु समस्तेषु महाहवे । अतिनष्टेषु पापेषु गोविन्देन महात्मना ।। ततो देवाः सगन्धर्वा नागा विद्याधरास्तथा । संप्रोचुमाधवं सर्वे बद्धमाञ्जलयस्ततः ॥ भगवन्देवदेवेश हृषीकेश नमोऽस्तु ते । विज्ञापयामहे त्वां वै तत्सर्वमवधार्यताम् ।। शास्ता गोप्ता च पुण्यात्मा अस्माकं कुरु केशव । राजानं पुण्यधर्माणं त्वमिन्द्रं लोकशासनम् ४१ त्रैलोक्यस्य प्रजा देव यमाश्रित्य सुग्वं वसेत् ॥
४०
४२
३६
वासुदेव उवाच --
४३
४४
मम लोके महाभागा वैष्णवेन समन्वितः । तेजसा ब्राह्मणश्रेष्ठश्विरकालं निवासितः || तस्य कालः प्रपूर्णश्च मम लोके महात्मनः । वसतस्तस्य विप्रस्य मद्भक्तस्य सुरोत्तमाः ॥ तेजसा वैष्णवेनैव भवतां पालको हि सः । भविष्यति स धर्मात्मा सर्वधर्मानुरञ्जकः ॥ पालको धारकश्चैव स च ब्राह्मणसत्तमः । भविष्यति धर्मात्मा भवतां त्राणकारणात् ॥ ४६ अदित्यास्तनयश्चैव सुव्रताख्यो महामनाः । महावलो महावीर्यः स च इन्द्रो भविष्यति ।। ४७
४५
व
कश्यप उवाच -
यूयं वै सत्यधर्मेण वर्तमानाः सदैव हि । आवयोश्च प्रसादेन तपमश्च प्रभावतः ॥ प्राप्तवन्तो भवन्तस्तु देवत्वं चाक्षयं पदम् । वरमेवं ददाम्येष बहुमीतिसमन्वितः ॥ अमरा निर्जराचैव ह्यक्षयाच भविष्यथ । सर्वकामसमृद्धार्थाः सर्वसिद्धिसमन्विताः ॥ देवा नागाव गन्धर्वा मत्प्रसादान्महासुराः ॥
*
सूत उवाच
एवं वरान्स देशो ददौ देवेभ्य उत्तमान् । देवा विजयिनः सर्वे विष्णुना सह सत्तमाः ॥ कश्यपं पितरं द्रष्टुं मातरं च ततो गताः ॥
४८ ४९
प्रणेमुस्ते महात्मानावुभावेतौ सुखामनौ । ऊचुः प्राञ्जलयः सर्वे हर्पेण महताऽन्विताः || युवयोश्च प्रसादेन देवत्वं हि गता वयम् । ['हर्षेण महताऽऽविष्टो देवान्वाक्यमुवाच सः ] ॥ ५०
विष्णुरुवाच -
वरं वरय भद्रं ते देवमातर्यशस्विनि । मनसा चेप्सितं सर्वं तत्ते दद्मि सुनिश्चितम् ॥ अदितिरुवाच -
पूर्व पुत्रवती भूता प्रसादात्तव माधव । अमरा निर्जराः सर्वे चाक्षयाः पुण्यवत्सलाः ॥ * क. ख. य. छ. झ. ड. पुस्तकस्थोऽयं पाठः । + क ख ग घ च छ झ. पुस्तकेष्वयं पाठ: ।
५१
५२
५३
५४
५५