SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ महामुनिश्रीभ्यासपणीतं [ २ भामखण्डेविवेक उवाचमुखेन स्थीयते देव भवता विश्वनायक । आगते त्वयि संसारे किं किं भुक्तं सुखं शुभम् ॥७७ __ आत्मोवाचगर्भवासे महदुःखं प्रभुक्तं दारुणं मया। [*भुक्तमेव महाप्राज्ञ ज्ञानहीनेन वै सदा]॥ ७८ देहेऽपि ज्ञानविभ्रष्टो जातोऽहं लोकसंगतः । बाल्ये चाज्ञानतस्तात कृत्याकृत्यं कृतं मया ॥ ७९ तारुण्ये च कृता क्रीडा भुक्ता भार्या अनेकशः। वार्धकं प्राप्य संतप्तः पुत्रशोकादिभिस्तथा॥८० भार्यादीनां वियोगेस्तु दग्धोऽस्म्यहमहनिशम् । दुःखेरनेकसंवर्णैः संतप्तोऽस्मि दिने दिने ॥ ८१ दिवा रात्रौ महापाज्ञ न विन्दामि सुख कचित् । एवं दुःखैः सुसंतप्तः किं करोमि महामते ॥८२ तमुपायं वदस्वैव सुखं विन्दामि येन वै । अस्मात्संसारजालौघान्मोचयाद्य सुवन्धनात् ॥ ८३ विवेक उवाचभवाञ्शुद्धोऽस्ति निद्वो ह्यपापोऽस्ति जगत्पते । वशं गच्छ महात्मानं वीतरागं सुखपदम् ॥ ८४ निःसंशयं त्वया दृष्टं नग्नमाचारवजितम् । सुखप्रदर्शको ह्येष सर्वसंतापनाशकः ॥ ८५ एवमाकर्ण्य शुद्धात्मा वीतरागं गतः पुनः। तमुवाच सुसंदीनः श्रूयतां वचनं मम ॥ ८६ सुखं विन्दामि येनाहं तं मार्ग मम दर्शय । एवमस्तु महाप्राज्ञ करिष्ये वचनं तव ॥ पुनर्गच्छ विवेकं हि सुखवार्ता कृता त्वया । सुखमार्गस्य वै वक्ता तव एष भविष्यति ॥ ८८ [+वीतरागेण पुण्यन प्रेषिती गतवान्प्रभुः । तमुवाच महात्मानं विवेकं शुद्धसत्तमम् ॥ ८९ सुखं मे दर्शय त्वं हि वीतरागेण प्रेषितः । भवच्छरणमापन्नो रक्ष संसारदारुगात ॥ ९० विवेक उवाचज्ञानं गच्छ महाप्राज्ञ स ते सर्व वदिष्यति । आत्मा तथोक्तः संप्राप्तो यत्र ज्ञानं प्रतिष्ठितम् ९१ भो भो ज्ञान महातेजः सर्वभावप्रदर्शक । शरणं त्वामहं प्राप्तः सुखं मागे प्रदर्शय ॥ ९२ ज्ञानमुवाचभृत्योऽहं तव लोकेश त्वं मां वत्स न सुव्रत । मया ध्यानेन वै पूर्व वारितस्त्वं पुनः पुनः ९३ पश्चात्मकानां सङ्गेन चाऽऽपदं प्राप्तवान्भवान् । ध्यानं गच्छ महापाज्ञ स त दाता सुखस्य च ९४ ज्ञानेन प्रेषितो ह्यात्मा ध्यानमाश्रित्य संस्थितः । मुखमत्यन्तसिद्धं च ध्यान में दर्शयस्व ह ॥ भवच्छरणमायातं मामेवं परिरक्षय ॥ एवं संभाषितं तस्य ध्यानमाकर्ण्य तद्वचः । समुवाच पुनश्चापि तमात्मानं स मित्रवत् ॥ ९६ नैव त्याज्योऽस्म्यहं तात सर्वकर्मसु संस्थितः । त्वयैव वीतरागेण विवकेन सदेव हि ॥ ९७ ध्यानयुक्तो भवस्व त्वमात्मानमवलोकय । आत्मवांस्त्वं स्थिरो भूत्वा निरातकोऽविकल्पितः९८ यथा दीपो निवातस्थः कजलं वमते स्थिरम् । तथा दोषान्मज्वलित्वा दर्शनं हि प्रयास्यसि९९ एकान्तस्थो निराहारो मिताशी भव सर्वदा। निद्वः शब्दसंहीनो निश्चलोपासने स्थितः ॥१०० * ड. छ. ज. अ. द. पुस्तकस्थोऽयं पाठः । + क. ख. ड. च. छ. झ. अ. ड पुस्तकस्थाऽयं पाठः । १क.ख. ग. इ. च. छ. ज झ. ट. ड ढ. 'हःखमसा दा।२ क. ख. च. छ. झ. 'संबन्धः सं ग. ड. "संबद्धैः सं। ३ क. ख. च. छ. झ. 'समृढ: कि । ४ क. ख. ङ. च. छ. छ. ड.ट. एवं । ग. घ. वनं । ५ क. ख. च. छ.स. निःसङ्गं यत्त्वया । ६ क. ख. ङ. च. छ. ज. स. ट. इ. ढ. 'नं प्रहृष्टवान् । ने। ७ क. ख. च. छ. श. ज्ञानयुक्तो। ८क. ख, ङ. च. छ. ज. स.ट. ड. द. निर्वाणं । ९ क.ख. च. छ. श. रोऽमता' । १०. सर्वसं हीनो ।
SR No.010652
Book TitlePadmapurana Part 01
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1893
Total Pages387
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy