________________
महामुनिश्रीव्यासपणीत
[ १ आदिखण्डे होमाश्चैवोपवासाच्च शुक्लतीर्थफलं महत् । शुक्लतीर्थ महापुण्यं ना तु संव्यवस्थितम् ॥ १॥ चाणिक्यो नाम राजर्षिः सिदि तत्र समागतः। एतत्क्षेत्रं समुत्पत्रं योजनावृत्तिसंस्थितम् ॥ १॥ शुक्लतीर्थ महापुण्यं सर्वपापपणाशनम् । पादपाग्रेण दृष्टेन ब्रह्महत्यां व्यपोहति ॥ १. अहमत्र ऋषिश्रेष्ठ तिष्ठामीत्युमया सह । वैशाखे विमले मासि कृष्णपक्षे चतुर्दशी ॥ १॥ कैलासाचापि निर्गम्य तत्र संनिहितो वहम् । देवकिंनरगन्धर्वाः सिद्धविद्याधरास्तथा ॥ १५ गणाश्चाप्सरसो नागाः सर्वदेवाः समागताः । गगनस्थास्तु तिष्ठन्ति विमानैः सर्वकामकैः ।। १८, शुक्लतीर्येषु राजेन्द्र आगता धर्मकाङ्गिणः । रजकेन यथा वस्त्रं शुक्लं भवति वारिणा ॥ १९ आजन्मसंचितं पापं शुक्लतीर्थ व्यपोहति । स्नानं दानं महापुण्यं मार्कण्ड ऋषिसत्तम । २० शुक्लतीर्थात्परं तीर्थ न भूतं न भविष्यति । पूर्वे वयसि कर्माणि कृत्वा पापानि मानवः ॥ २॥ अहोरात्रोपवासेन शुक्लतीर्थे व्यपोहति । तपसा ब्रह्मचर्येण यज्ञैर्दानेन वा पुनः॥ देवदानेन या पुष्टिर्न सा ऋतुशतैरपि । कार्तिकस्य च मासस्य कृष्णपक्षे चतुर्दशी ॥ घृतेन स्नापयेद्देवमुपोष्य परमेश्वरम् । एकविंशकुलोपेतो न च्यवेच्चैश्वरात्पदात् ॥ २४ शुक्लतीर्थ परं तीर्थमृषिसिद्धनिषेवितम् । तत्र स्नात्वा ततो राजन्पुनर्जन्म न विद्यते ॥ २५ स्नात्वा वै शुक्लतीर्थेऽपि अर्चयेवृषभध्वजम् । जागरं कारयेत्तत्र नृत्यगीतादिमङ्गलैः ॥ २६ प्रभाते शुक्लतीर्थे तु स्नानं वै देवतार्चनम् । आचार्य भोजयेत्पश्चाच्छिवव्रतपरः शुचिः॥ २७ भोजनं च यथाशक्त्या वित्तशाठ्यं न कारयेत । प्रदक्षिणं ततः कृत्वा शनैर्देवान्तिकं व्रजेत्॥२८ एवं वै कुरुते यस्तु तस्य पुण्यफलं शृणु । दिव्ययानसमारूढः स्तूयमानोऽप्सरोगणैः ॥ २९ शिवतुल्यबलोपेतस्तिष्ठत्याभूतसंप्लवम् । शुक्लतीर्थे तु या नारी ददाति कनकं शुभम् ॥ ३० घृतेन स्नापयेद्देवं कुमारं चाभिपूजयेत् । एवं या कुरुते भक्त्या तस्याः पुण्यफलं शृणु ॥ ३१ मोदते देवलोकस्था यावदिन्द्राश्चतुर्दश । अयने वा चतुर्दश्यां संक्रान्तौ विषुवे तथा ॥ . ३२ स्नात्वा तु सोपवासः स निर्जितात्मा समाहितः । दानं दद्याद्यथाशक्त्या प्रीयेतां हरिशंकरौ॥३॥ शुक्लतीर्थप्रभावेण सर्व भवति चाक्षयम् । अनाथं दुर्गतं विषं नाथवन्तमथापि वा ॥ उद्वाहयति यस्तीर्थे तस्य पुण्यफलं शृणु ॥ यावत्तद्रोमसंख्या तु तत्प्रसूतिकुलेषु च । तावद्वर्षसहस्राणि शिवलोके महीयते ॥ ३.
इति श्रीमहापुराणे पाय आदिखण्ड ऊनविशोऽध्यायः ॥ १९ ॥
आदितः श्लोकानां समष्ट्यङ्काः-७७६
अथ विंशोऽध्यायः ।
नारद उवाचततस्तु नरकं गच्छेत्स्नानं तत्र समाचरेत् । स्नातमात्रो नरस्तत्र नरकं न च पश्यति ॥ ? अस्य तीर्थस्य माहात्म्यं शृणु त्वं पाण्डुनन्दन । तस्मिंस्तीर्थे तु राजेन्द्र यान्यस्थीनि विनिक्षिपेत्॥२ विलयं यान्ति सर्वाणि रूपवाञ्जायते नरः । गोतीर्थ तु ततो गच्छेदृष्ट्वा पापात्प्रमुच्यते ॥ ३ ततो गच्छेत राजेन्द्र कपिलातीर्थमुत्तमम् । तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ॥ ४ ज्येष्ठमासे तु समाप्ते चतुर्दश्यां विशेषतः। तत्रोपोष्य नरो भक्त्या कपिलां यः प्रयच्छति ॥ ५