________________
११४
महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेविष्णोश्चैव प्रसादात्स सर्वसिद्धिर्बभूव ह । सद्भावं चिन्तयामास अञ्जनार्थ द्विजोत्तमः ॥ १९ उपायं ब्राह्मणश्रेष्ठस्तपसस्तेजसः किल । चकार सोऽप्युपायज्ञो मायया ब्रह्मवित्तमः ॥ २० तेषामग्रे ततो व्याज शिवशर्मा व्यदर्शयत् । महता ज्वररोगेण मृता माता विदर्शिता ॥ २१ तैस्तु दृष्ट्वा मृता माता पितरं वाक्यमब्रुवन् । यया वयं महाभाग गोगारे प्रवर्धिताः॥ २२ कलेवरं परित्यज्य स्वयमेव गता क्षयम् । अपहाय गता सेयं स्वर्ग तात किमुच्यते ॥ २३ शिवशर्मोपरिभवं पुत्रं भक्तिपरायणम् । यज्ञशर्माणमाहूय इत्युवाच द्विजोत्तमः॥ अनेनापि सुतीक्ष्णेन शस्त्रेण निशितेन वे । विच्छिद्याङ्गानि सर्वाणि यत्र तत्र लिपस्व हि ॥ २५ तत्कृतं तेन पुत्रेण यथादेशं श्रुतं पितुः । समायातः पुनः पश्चापितरं वाक्यमब्रवीत् ॥ २६ यथादिष्टं त्वया तात तत्सर्वं कृतवानहम् । समादिश ममान्यच्च कार्यकारणमद्य च ॥ तच्च सर्व करिष्यामि दुर्लभं दुर्जयं पितः ॥ तमाज्ञाय महाभागं पितृभक्तं स च द्विजः । निश्चयं परमं ज्ञात्वा द्वितीयस्य विचिन्तयन ॥ २८ वेदशर्माणमासाद्य गच्छ त्वं मम शासनात् । स्त्रिया विना न युक्तोऽस्मि स्थातुं कन्दर्पमोहिनः ॥ या मया दर्शिता नारी सर्वसौभाग्यसंपदा । एनामानय वन्स त्वं ममार्थे कृतनिश्चयः ॥ ३० एवमुक्तस्तथा प्राह करिष्ये तव सुप्रियम् । पितरं तं नमस्कृत्य तामुवाच गतस्ततः ॥ ३१ त्वां देवि याचते तातः कामबाणप्रपीडितः । अतस्त्वं जरया युक्तं प्रसादसमुखी भव ॥ ३२ भज त्वं चारुसङ्गि पितरं मम सुन्दरि । एवमाणितं तस्य मायया वेदशर्मणः ॥ ३३
व्युवाचजरया पीडितस्यापि नैवेच्छामि कदाचन । सश्लप्ममुखरोगम्य व्याधिग्रस्तस्य सांप्रतम् ॥ ३४ शिथिलस्यापि चाऽऽर्तस्य तस्य वृद्धस्य संगमम् । भवन्तं रन्तुमिच्छामि करिष्य तव सुप्रियम् ॥३५ भवन्तं नृपसौभाग्यैर्गुणरत्नरलंकृतम् । दिव्यलक्षणसंपन्नं दिव्यरूपं महाजसम् ॥ ३६ किं करिष्यसि चानेन वृद्धेन शृणु मानद । ममाङ्गभांगभावन सर्व प्राप्स्यसि दुर्लभम् ॥ ३७ यद्यत्त्वमिच्छसे विष तत्तदमि न संशयः । एतद्वाक्यं महछत्वा अपियं पापसंकुलम् ।। ३८
वेदशर्मोवाचअधर्मयुक्तं ते वाक्यमयुक्तं पापमिश्रितम् । नेदृशं मां वदेवि पितृभक्तं ह्यनागसम् ॥ ३९ पितुरर्थं समायातस्त्वामहं प्रार्थये शुभे । अन्यदेव न वक्तव्यं भज त्वं पितरं मम ॥ ४० यद्यत्त्वमिच्छसे देवि त्रैलोक्ये सचराचरे । तत्तद्दनि न संदेहो देवराज्यादिकं शुभे ॥ ४१
सयुवाचएवं समर्थो दातुं मे पितुरर्थे यदा भवान् । तदा मे दर्शयाद्यैव सेन्द्रांस्त्वं समहेश्वरान् ॥ ४२ दातुमेवं समर्थोऽसि दुर्लभं मम सांप्रतम् । किं ते बलं महाभाग दर्शयस्व त्वमात्मनः॥ ४३
वेदशर्मोवाचपश्य पश्य बलं देवि प्रभावं तपसो मम । मयाऽऽहताः समायाता इन्द्राद्याः सुरसत्तमाः।। ४४ वेदशर्माणमूचुस्ते किं कुर्मा हि द्विजोत्तम । यमेवमिच्छसे विम तं वै दो न संशयः॥ ४५
वेदशर्मोवाचयदि देवाः प्रसन्ना मे प्रसादसुमुखा यदि । इमां तु विपुलां भक्तिं पादयोः पितुरेव मे ॥ ४६
१ अ. आत्मनाऽर्थ । २ ग. घ. ङ. छ. ज. ड. ढ. 'ज्याधिकं । ३ क ख. च. झ. शभम् ।