________________
२४०
महामुनिश्रीव्यासप्रणीत
[ २ भूमिखण्डेसूत उवाचएकदा तु तया प्रोक्तं क्रीडया सुकला प्रति । सखे पश्य वनं सौम्यं दिव्यैर्वृक्षरलंकृतम् ॥ १५ तत्र तीर्थ परं पुण्यमस्ति पातकनाशनम् । नानावल्लीवितानेश्च सुपुण्यैः परिशोभितम् ॥ १६ आवाभ्यामपि गन्तव्यं पुण्यहेतोर्वरानने । समाकर्ण्य तया सार्धं सुकला मायया तदा ॥ १७ प्रविवेश वनं दिव्यं नन्दनोपममेव सा । सर्वतुकुसुमोपेतं कोकिलाशतनादितम् ॥ गीयमानं सुमधुरैर्नादैर्मधुकरैरपि । कूजद्भिः पक्षिभिः पुण्यैः पुण्यध्वनिसमाकुलम् ॥ १९ चन्दनादिसुक्षैश्च सौरभैश्च विराजितम् । सर्वभावैः सुसंपूर्ण माधव्या माधवेन वै ॥ २० चरितं मोहनायैव मुकलायाश्च कारणात् । तया सार्ध प्रविष्टा सा तद्वनं सर्वभावनम् ॥ २१ ददर्श सौख्यदं पुण्यं मायाभावं न विन्दति । पश्यमाना वनं दिव्यं तया सह जनेश्वरः (र)।।२२ सुकौतुकान्यनेकानि दैवयुक्तानि तानि सा । तया रत्या सुसंयुक्तः कामः शक्र(क्रः) समागतः॥ सर्वभोगपतिर्भूत्वा कामलीलासमाकुलः । कामदेवं समाभाष्य एषा सा सुकलाऽऽगता ॥ २४ पहरस्व महाभागां क्रीडायाः पुरतः स्थिताम् । मायां कृत्वा समानीतां क्रीडया तव संनिधौ ।। पौरुषं दर्शयाचैव यद्यस्ति कुरु निश्चितम् ।
२५ काम उवाचआत्मरूपं दर्शयस्व चतुरं लीलयाऽन्वितम् । येनाहं प्रहर त्वेनां पञ्चवाणैः सहस्रदृक् ॥ २६
इन्द्र उवाचकाऽऽस्ते सुपौरुषं मूढ येन लोकं वितन्वितम् । ममाऽऽधारपरो भृत्वा योद्धुमिच्छमि सांप्रतम् २७
काम उवाचतेनापि देवदेवेन महादेवेन शूलिना । पूर्वमेव हतं रूपं मम कायो न विद्यते ॥ २८ इच्छाम्यहं यदा नारी हन्तुं शृणुप्व सांप्रतम् । पुंसः कायं समाश्रित्य ह्यात्मरूपं प्रदर्शये ॥ २९ पुमांसं वा सहस्राक्ष नार्याः कायं समाश्रये । पूर्व दृष्ट्वा यदा नारी तामेव परिचिन्तयेत् ॥ ३० चिन्त्यमानस्य पुंसस्तु नारीरूपं पुनः पुनः । अदृष्टं तत्समाश्रियं पुंसमुन्मादयाम्यहम् ॥ ३१ तथाऽप्युन्मादयाम्येव नायोगमनसंशयः । संस्मरणात्स्मरो नाम मम जातं सुरेश्वर ॥ ३२ तादृशोऽतादृशो रङ्गवस्तुरूपं समाश्रये । आत्मतेजःप्रकाशन बाध्यबाधकतां व्रजेत् ॥ ३३ [*नारीरूपं समाश्रित्य धीरं पुरुष प्रमोहयेत् । पुरुषं तु समाश्रित्य भावयामि सुयोषितम् ॥३४ रूपहीनोऽस्मि हे इन्द्र अस्मद्पं समाश्रयेत् । तव रूपं समाश्रित्य तां साधये यथेप्सिताम् ॥३५ एवमुक्त्वा स देवेन्द्र कायं तस्य महात्मनः । सखाऽसो माधवस्यापि ह्याश्रित्य कुसुमायुधः॥३६
तामेव हन्तुं कुसुमायुधोऽपि साध्वीं सुपुण्यां कृकलस्य भार्याम् ।
समुत्सुकस्तिष्ठति बाणपाणिर्लक्ष्यं तु तस्या नयनं विलोक्य ।। इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनोपाख्याने सुकलाचारते सप्तपश्चाशत्तमोऽध्यायः ॥ ५७ ॥
आदितः श्लोकानां समष्टयङ्काः-६२०२
* एतचिहान्तर्गतः पाठो ज. ट. . पुस्तकस्थः ।
१ छ. स. द. सुपुष्पैः । २ क. ख. ग. घ. ङ. छ झ. ट. ढ. मायया । ३ क. ख. ड. छ. झ. ड. द. विडमित। ४ म. 'त्य पुंस्त्वमासादं। ५. 'म् । पुंस्त्वादापाद । ६. नार्या गर्भे न ।