________________
२१४
महामुनिश्रीव्यासप्रणीतं -
व्यथितस्तुरगः स किरिः किटिना न हि याति क्षितौ स हि विद्धगतिः । तुरगः पतितो भुवि तुण्डहतो लघुस्यन्दनमेव गतो नृपतिः ॥ स हि गर्जति शूकरजातिरवैरथ संस्थितकोशलयेन जत्रैः । गदया निहतः किल भूपतिना रणमध्यगतः स हि यूथपतिः ॥ परित्यज्य तनुं च स्वकां हि तदा गत एव हरेर्गृहमेव वरम् ॥ कृत्वा हि युद्धं समरे हि तेन राज्ञा समं शूकरराजराजः ॥ पपात भूमौ मरुता नगो यथा ववर्षिरे देववराः सुपुष्पैः ॥ ] तस्योपरि पुष्पचयः सुजातः संतानकानामपि सौरभश्व ॥ सकुङ्कुमैचन्दनदृष्टिमेव कुर्वन्ति देवाः परितुष्टमानाः || विपश्यमानः स हि तेन राज्ञा चतुर्भुजः सोऽपि बभूव राजन (?) | दिव्याम्बरो भूषण दिव्यरूपः स्वतेजसा भाति दिवाकरो यथा ॥ दिव्येन यानेन गतो दिवं तदा सुपूज्यमानः सुरराजदेवैः || गन्धर्वराजः स बभूव भूयः पूर्व स्वकं कायमित्र त्यक्त्वा ॥ इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनोपाख्याने सुकलाचरिते चतुश्चत्वारिंशोऽध्यायः ॥ ४४ ॥ आदितः श्लोकानां समथ्र्यङ्काः -- ५५७३
अथ पञ्चचत्वारिशोऽध्यायः ।
[ २ भूमिखण्डे
५
*
एतच्चिहान्तर्गतोऽयं पाठः क ख ग घ ङ च छ झ ट ड ढ पुस्तकस्थः ।
१ ङ. ट. श्वानश्च । २ ज. 'ताः । कनीयसस्त्रयस्त्वेव गता गिरिवनान्तरम् । तौ जग्मतु रणभुवं तेषा ।
19
८
१०
सुकलोवाच
2
३
अथ ते लुब्धकाः सर्वे शूकरी प्रति जग्मिरे । शूराश्च दारुणाः प्राप्ताः पाशहस्ताश्च भीषणाः || १ चतुरश्च ततो डिम्भान्वृत्वा स्थिता च शुकरी । कुटुम्बेन समं कान्तं हतं दृष्ट्वा महाहवे || भर्तुर्मे चिन्तितं प्राप्तमृषिदेवैश्व पूजितः । गतः स्वर्गं महात्माऽसौ वीरेणानेन कर्मणा ॥ अनेनापि यथा यास्ये स्वर्ग भर्ता स तिष्ठति । तथा सुनिश्चितं कृत्वा पुत्रान्प्रति विचिन्तितम् ॥ ४ यदा जीवन्ति मे बालाश्चत्वारो वंशधारकाः । भवत्यस्य सुवीरश्व कोलस्यापि महात्मनः ॥ केनोपायेन पुत्रान्वै रक्षायुक्तान्करोम्यहम् । इति चिन्तापरा भूत्वा दृष्ट्वा पर्वतसंकटम् ॥ तत्र मार्ग सुविस्तीर्ण निष्काशाय प्रयास्यते । तानुवाच महाराज पुत्रान्प्रति विमोहिता ॥ यावत्तिष्ठाम्यहं पुत्रास्तावद्गच्छन्तु शीघ्रगाः । तेषां मध्ये सुतो ज्येष्ठः कथं यास्यामि मातरम् ॥८ त्यक्त्वा स्वजीव लोभाच्च धिङ्मां मातः सुजीवितम् । पितृर्वैरं करिष्यामि साधयिष्ये रणे रिपुम् ।। गृहीत्वा त्वं कनीयसो भ्रातॄंस्त्रीन्दुर्गकन्दरम् ।।
९.
११
१०
मातरं पितरं त्यक्त्वा यो याति स हि पापधीः । नरकं च प्रयात्येव कृमिकोटिसमाकुलम् ॥ तमुवाच सुदुःखार्ता त्वां त्यक्त्वाऽहं कथं सुत । प्रयास्यामि महापापा त्रयो गच्छन्तु मे सुतः ॥ ११ त्रयस्तु पुरतः कृत्वा द्वाभ्यामपि च भूपते । जग्मतुर्दुर्गमार्गेण [तेषामेव सुपश्यताम् || तेजसा सुबलेनापि गर्जन्तश्च पुनः पुनः ॥
6
१२