________________
[ २ भूमिखण्डे
महामुनिश्रीव्यासपणीतंअथ पञ्चपञ्चाशत्तमोऽध्यायः ।
विष्णुरुवाच
भावं विदित्वा सुरराट् तु तस्याः प्रोवाच कामं पुरतः स्थितं तम् ।। न चास्ति शक्या सुकला विजेतुं सत्यात्मकं ध्यानमुदंशिता(?)सती ॥ धर्माख्यचापं स्वकरे गृहीत्वा जानाति ध्यानं वरमेकबाणम् । योद्धं रणे संप्रति संस्थिता सती वीरो यथा दर्पितवीर्यभावः ।। जिगीषतेयं पुरुषार्थमेव त्वमात्मयुक्तः कुरु पौरुषं तु । देवा न जेतुं सुकलां समर्था यद्भव्यमेवं हि मयैव चिन्त्यम् ॥ दग्धोऽसि पूर्व त्वमिहेव शंभुना महात्मनोऽनेन समं विरोधम् । कृत्वा फलं तस्य विकर्मणश्चै प्राप्तोऽस्यलं भस्म सुमत्यमेव ॥ यथा पुरा कर्म कृतं त्वया स्मर प्रारब्धमेवं तु तथैव तीव्रम् ।। मुकुत्सितां कीर्तिमवाप्स्यमि ध्रुवं माध्वी मया सार्धमिहेव कुप्यते ॥ येऽज्ञानवन्तः पुरुषा जगत्रये वैरं विकुर्वन्ति महात्मभिः समम् । भुञ्जाव दुःखं तदनन्तपारं चापायुधास्याश्च तपोविनाशा(त) ॥ व्याघुप्य आवां तु व्रजाव काम एनां परित्यज्य सती प्रयुक्ताम् । सत्याः प्रसङ्गेन पुरा मया तु लब्धं फलं पापमयं त्वमह्यम् ॥ त्वमेव जानासि चरित्रमेतच्छतोऽस्मि तेनापि च गोतमेन । जातश्च सर्वाङ्गभगाङ्ककोऽहं भवान्गतो मां तु विहाय तत्र ।। तेजःप्रभावो ह्यतुलः सतीनां धाता ममर्थः सहितुं न सूर्यः । मुंकुत्सितं रूपमिदं तु रक्षेत्पुराऽनुसयामुनि(ना) हि शप्तम् ॥ [*निरुध्य सूर्य परितेजवन्तमुद्यन्तमेवं प्रभया सुदीप्तम् । भतुश्च मृत्यु परिज्ञाय कामं ] माण्डव्यशप्तस्य तु कोण्डिकस्य ।। अत्रेः प्रिया सत्यमया पतिव्रता स्वपुत्रतां देवत्रयं हि निन्ये । तथा पुरा मन्मथ तं श्रुतं यर्दा सत्कारयोग्याः प्रभवन्ति सत्यः । सावित्रीनाम्नी द्युमत्सेनपुत्री नीतं प्रियं सा त्विह आनिनाय । यमादहो सत्यवतश्च पत्नी सतीत्वमेवं परिपूजितं च ॥ अग्नेः शिखां कः परिसंस्पृशेट्टै भवेद्धि कः सागरमंव रूढः । गले तु बद्ध्वा मुशिला महत्तरां यो मर्तुकामः परिचालयंत्सतीम् ।। उक्ते तु वाक्ये बहुनीतियुक्त इन्द्रेण कामस्य सुशिक्षणार्थम् । आकर्ण्य वाक्यं मकरध्वजस्तु उवाच देवेन्द्रमथैनमेव ॥
* एतचिहान्तर्गतः पाठः क. ख. ग. घ. ङ. च. छ इ. इ. ढ. पुस्तकस्थः ।। १ ग. घ. ज. 'स्ति मानं सुरतेच जे । २ क. ख. ग. घ. ङ. च. छ. स. ट. ड. ड. 'ना तेन । ३ क. ङ. स. ट. 'च जातोऽस्यनाः स्मर स । ४ अ. 'रं न कु। ५ क. ख. ङ. च. छ. स. द. मुकुष्ठिनं । ६ क. ख. ग. घ. ङ. च. छ. ज.स. ट. उ. द. 'दा ममस्कारयुक्ताः प्र।