________________
महामुनिश्रीव्यासप्रणीतं
[ १ आदिखण्डेयत्र प्रसृतिर्जगतो विनाशो येनाऽऽवृतं सर्वमिदं शिवेन । तं ब्रह्मपारं भगवन्तमीशं प्रणम्य नित्यं शरणं प्रपद्ये ॥ अलिङ्गमालोकविहीनरूपं स्वयंप्रभुं चित्पतिमेकरूपम् । तं ब्रह्मपारं परमेश्वरं त्वां नमस्करिष्ये न यतोऽन्यदस्ति ।। यं योगिनस्त्यक्तसवीजयोगा लब्ध्वा समाधि परमात्मभूताः। पश्यन्ति देवं प्रणतोऽस्मि नित्यं तं ब्रह्मपारं भवतः स्वरूपम् ।। न यत्र नामादिविशेषकृप्तिन संदृशे तिष्ठति यत्स्वरूपम् । तं ब्रह्मपारं प्रणतोऽस्मि नित्यं स्वयंभुवं त्वां शरणं प्रपद्ये ॥ यद्वेदवादाभिरता विदेहं सब्रह्मविज्ञानमभेदमेकम् । पश्यन्त्यनेकं भवतः स्वरूपं तं ब्रह्मपारं प्रणतोऽस्मि निन्यम् ।। यतः प्रधानं पुरुपः पुराणो विभर्ति तेजः प्रणमन्ति देवाः। नमामि तं ज्योतिषि संनिविष्टं कालं बृहन्तं भवतः स्वरूपम् ॥ वजामि नित्यं शरणं गुहेशं स्थाणुं प्रपद्ये गिरिशं पुराणम् ।
शिवं प्रपद्ये हरमिन्दुमोलि पिनाकिनं त्वां शरणं व्रजामि ॥ स्तुखवं शङ्ककर्णोऽपि भगवन्तं कपर्दिनम् । पपात दण्डवद्भमो प्रोच्चरन्प्रणवं परम् ॥ ४४ तत्क्षणात्परमं लिङ्गं प्रादुर्भुतं शिवात्मकम् । ज्ञानमानन्दमत्यन्तं कोटिज्वालाग्निसंनिभम् ॥ ४५ शङ्ककर्णोऽथ मुक्तात्मा तदात्मा सर्वगोऽमलः । विलिल्ये विमले लिङ्गे तदतमिवाभवत् ।। ४६ एतद्रहस्यमाख्यातं माहात्म्यं ते कपर्दिनः । न कश्चिद्वेत्ति तमसा विद्वानप्यत्र मुह्यति ॥ ४७ य इमां शृणुयानित्यं कथां पापप्रणाशिनीं । त्यक्तपापी विशुद्धात्मा रुद्रसामीप्यमामुयात् ॥ ४८ पठेच्च सततं शुद्धो ब्रह्मपारं महास्तवम् । प्रातमध्याह्नसमये स योग प्राप्नुयात्परम् ॥ ४९ इति श्रीमहापुराणे पाद्म आदिखण्डे वाराणसीमाहात्म्ये पश्चत्रिंशोऽध्यायः ॥ ३५ ॥
आदितः श्लोकानां समष्ट्यङ्काः-१९३१
अध षत्रिशोऽध्याय.।
- ..
नारद उवाचवाराणस्यां महाराज मध्यमेशं परात्परम् । तस्मिन्स्थाने महादेवा देव्या सह महेश्वरः॥ ? रमते भगवान्नित्यं रुदैश्च परिवारितः । तत्र पूर्व हषीकेशा विश्वात्मा देवकीसुतः ॥ उवास वत्सरं कृष्णः सदा पाशुपतयुतः । भस्मोद्धूलितसर्वाङ्गो रुद्राध्ययनतत्परः ॥ आराधयन्हरिः शंभुं कृत्वा पाशुपतं व्रतम् ॥ तस्य ते बहवः शिष्या ब्रह्मचर्यपरायणाः । लब्ध्वा तद्वदनाज्ज्ञानं दृष्टवन्तो महेश्वरम् ॥ ४ तस्य देवो महादेवः प्रत्यक्ष नीललोहितः । ददा कृष्णस्य भगवान्वरदो वरमुत्तमम् ॥ येऽर्चयन्ति च गोविन्दं मद्भक्ता विधिपूर्वकम् । तेषां तदेश्वरं ज्ञानमुत्पत्स्यति जगन्मयम् ॥ ६ नमस्योऽर्चयितव्यश्च ध्यातव्यो मत्परर्जनः । भविष्यन्ति न संदेही मत्प्रसादाविजातयः ॥ ७ येऽत्र द्रक्ष्यन्ति देवेशं स्नात्वा देवं पिनाकिनम् । ब्रह्महत्यादिकं पापं तेषामाशु विनश्यति ॥ ८ पाणांस्त्यक्ष्यन्ति ये माः पापकर्मरता अपि। ते यान्ति तत्परं स्थानं नात्र कार्या विचारणा॥९
< --