________________
महामुनिश्रीव्यासप्रणीतं
[१ आदिखण्डेततो गच्छेत राजेन्द्र क्रतुतीर्थमनुत्तमम् । विख्यातं त्रिषु लोकेषु सर्वपापप्रणाशनम् ॥ यान्यान्मार्थयते कामान्पशुपुत्रधनानि च । मामुयात्तानि सर्वाणि तत्र स्नात्वा नराधिप॥ १० ततो गच्छेत राजेन्द्र त्रिदशद्योति विश्रुतम् । तत्र ता ऋषिकन्यास्तु तपोऽतप्यन्त सुव्रताः ॥ ११ भर्ता भवतु सर्वासामीश्वरः प्रभुरव्ययः । प्रीतस्तासां महादेवो दण्डिरूपधरो हरः॥ १२ विकृताननबीभत्सस्तच तीर्थमुपागतः । तत्र कन्या महाराज वराय परमेश्वरः ॥ १३ कन्यासंघ वरयतः (?) कन्यादानं प्रयच्छति । तीर्थ तत्र महाराज दशकन्येति विश्रुतम् ॥ तत्र सात्वाऽर्चयेद्देवं सर्वपापैः प्रमुच्यते ॥ ततो गच्छेत राजेन्द्र स्वर्गबिन्दुरिति श्रुतम् ॥ तत्र स्नात्वा नरो राजन्दुर्गतिं च न पश्यति ॥ १५ अप्सरेशं ततो गच्छेत्स्नानं तत्र समाचरेत् ॥ क्रीडते नागलोकस्थः अप्सरैः सह मोदते ॥ १६ सतो गच्छेत राजेन्द्र नरकं तीर्थनुत्तमम् । तत्र स्नात्वाऽर्चयेद्देवं नरकं च न गच्छति ॥ १७ भारभूतं ततो गच्छेदुपवासपरायणः । एतत्तीर्थ समासाद्य अवतारं तु शांभवम् ॥ अर्चयित्वा विरूपाक्षं रुद्रलोके महीयते ।। तमिस्तीर्थे नरः स्नात्वा भारभूते महात्मनः । यत्र तत्र मृतस्यापि ध्रुवं गाणेश्वरी गतिः ॥ १९ कार्तिकस्य तु मासस्य अर्चयित्वा महेश्वरम् । अश्वमेधाच्छतगुणं प्रवदन्ति मनीपिणः ॥ २० दीपकानां शतं कृत्वा घृतपूर्ण तु दापयेत् । विमानः सूर्यसंकाव्रिजते यत्र शंकरः ।। वृषभं यः प्रयच्छेत शङ्खकुन्देन्दुसंनिभम् । वृषयुक्तेन यानेन रुद्रलोकं स गच्छति ॥ २२ चरुमेकं तु यो दद्यात्तस्मिंस्तीर्थे नराधिप । पायसं मधुसंयुक्तं भक्ष्याणि विविधानि च ॥ २३ यथाशक्त्या तु राजेन्द्र भोजयेत्स हदक्षिणम् । तस्य तीर्थप्रभावेण सर्व कोटिगुणं भवेत् ॥ २४ नर्मदाया जलं सिक्त्वा अर्चयित्वा वृषध्वजम् । दुर्गतिं च न पश्यन्ति तस्य तीर्थप्रभावतः ।।२५ एतत्तीर्थ समासाद्य यस्तु प्राणान्परित्यजेत् । सर्वपापविशुद्धात्मा बजने यत्र शंकरः ॥ २६ जलप्रवेशं यः कुर्यात्तस्मिंस्तीर्थे नराधिप । हंसयुक्तन यानेन रुद्रलोकं म गच्छति ॥ २७ यावञ्चन्द्रश्च सूर्यश्च हिमांश्च महोदधिः । गङ्गाद्याः सरिता यावत्तावत्स्वर्गे महीयते ।। २८ अनाशकं तु यः कुर्यात्तस्मिस्तीथ नराधिप । गर्भवास तु राजेन्द्र न पुनजोयत नरः ॥ २९ ततो गच्छेत राजेन्द्र अटवीतीर्थमुत्तमम् । तत्र स्नात्वा नरो राजन्निन्द्रस्यार्धासनं लभेत् ॥ ३० रातीर्थ ततो गच्छेत्सर्वपापप्रणाशनम् । तत्रापि स्नातमात्रस्य ध्रुवं गाणेश्वरी गतिः॥ ३१ एरण्डीनर्मदायाश्च संगम लोकविश्रुतम् । तत्र तीर्थ महापुण्यं सर्वपापप्रणाशनम् ।। ३२ उपवासपरां भूत्वा नित्यं ब्रह्मपरायणः । तत्र स्नात्वा तु राजेन्द्र मुच्यते ब्रह्महत्यया ॥ ३३ ततो गच्छेत राजेन्द्र नर्मदोदधिसंगमम् । जमदग्निरिति ख्यातं सिद्धां यत्र जनार्दनः ॥ ३४ यत्रेष्ट्वा बहुभिर्यहरिन्द्रा देवाधिपोऽभवत् । तत्र स्नात्वा नरो राजनर्मदोदधिसंगमे ॥ ३५ त्रिगुणस्याश्वमेघस्य फलं पामोति मानवः । पश्चिमोदधिसायुज्यं मुक्तिद्वारविघाटनम् ॥ ३६ तत्र देवाः सगन्धर्वा ऋषयः सिद्धचारणाः । आराधयन्ति देवेशं त्रिसंध्यं विमलेश्वरम् ॥ ३७ सर्वपापविशुद्धात्मा रुद्रलोके महीयते । विमलेश्वरपरं तीर्थ न भृतं न भविष्यति ॥ ३८ तत्रोपवासं कृत्वा ये पश्यन्ति विमलेश्वरम् । सर्वपापविशुद्धात्मा (?) रुद्रलोकं ब्रजन्ति ते ॥३९
१४. देवश्चण्डरू । २ ख. अ. परमेश्वरम् । ३ क. 'न्या ऋद्धि च य संवत्कन्या । ४ ख. अ. अमरः । ५ क. एवं तीर्थ । ६ ट, स्पृट्वा । ७ ख.ज. तच्च ।