________________
९९ पञ्चनवतितमोऽध्यायः ]
पद्मपुराणम् ।
३२१
जन्मान्तरं च संप्राप्य नित्यं चानं प्रभुज्यते । अन्नदानं प्रयच्छन्ति नित्यं हि ब्राह्मणाय ये ॥ मिष्टान्नपानं भुञ्जन्ति ते नराः स्वर्गगामिनः ||
५४
५५
अन्नमेव वदन्त्येते ऋषयो वेदपारगाः । प्राणरूपं न संदेहममृताद्धि समुद्भवम् ॥ प्राणास्तेन प्रदत्ता हि येन चान्नं समर्पितम् । अन्नदानं महाराज देहि त्वं वै प्रयत्नतः ॥ ५६ एवमाकर्ण्य वै राजा जैमिनेस्तु महद्वचः । पुनः पप्रच्छ तं विप्रं जैमिनिं ज्ञानपण्डितम् ॥ इति श्रीमहापुराणे पाये भूमिखण्डे वेनोपाख्याने गुरुतीर्थे चतुर्नवतितमोऽध्यायः ॥ ९४ ॥ आदितः श्लोकानां समथ्र्यङ्काः – ७६८९
I
५७
अथ पवनवतितमोऽध्यायः ।
सुवाहुरुवाच
स्वर्गस्य मे गुणान्ब्रूहि सांप्रतं वै द्विजोत्तम । एतत्सर्वं द्विजश्रेष्ठ करिष्यामि सभाविकम् ।। जैमिनिरुवाच
नन्दनादीनि दिव्यानि रम्याणि विविधानि च । तत्रोद्यानानि पुण्यानि सर्वकामप्रदानि च ।। २ सर्वकामफलैर्वृक्षैः शोभनानि समन्ततः । विमानानि सुदिव्यानि सेवितान्यप्सरोगणैः ॥ सर्वत्रैव विचित्राणि कामगानि वशानि च । तरुणादित्यवर्णानि मुक्ताजालान्तराणि च ॥ चन्द्रमण्डलशुभ्राणि हेमशय्यासनानि च ।।
४
५
सर्वकामसमृद्धाश्च सर्वदुः ग्वविवर्जिताः । नराः सुकृतिनस्तेषु विचरन्ति यथासुग्वम् ॥ न तत्र नास्तिका यान्ति न स्तेना नाजितेन्द्रियाः । न नृशंसा न पिशुनाः कृतन्ना न च मानिनः ॥ ६ सत्याश्रयस्थिताः शूरा दयावन्तः क्षमापराः । यज्वानो दानशीलाश्च तत्र गच्छन्ति मानवाः ॥ ७ न रोगा न जरा मृत्युर्न शोको न हिमातप । न तत्र क्षुत्पिपासा च न ग्लानिश्वापि कस्यचित् ॥ ८ एते चान्ये च बहवो गुणाः स्वर्गस्य भूपते । दोषास्तत्रैव ये सन्ति ताञ्शृणुष्व च भूपते ।। शुभस्य कर्मणः कृत्स्नं फलं तत्रैव भुज्यते । न चात्र क्रियते भूप दोषस्तत्र महानयम् ॥ असंतोपश्च भवति दृष्ट्वाऽन्येषां परां श्रियम् । सुखव्याप्तमनस्कानां सहसा पतनं तथा ॥ इह यत्क्रियते कर्म फलं तत्रैव भुज्यते । कर्मभूमिरियं राजन्फलभूमिश्च सा स्मृता ॥
९
१०
११
१२
सुबाहुरुवाच
महान्तस्तु इमे दोषास्त्वया स्वर्गस्य कीर्तिताः । निर्दोषाः शाश्वता येऽन्ये तांस्त्वं लोकान्वद द्विज ।। १३
जैमिनिरुवाच
१५
आब्रह्मसदनादेव दोषाः सन्ति च वै नृप । अत एव हि नेच्छन्ति स्वर्गप्राप्तिं मनीषिणः ।। १४ आ ब्रह्मसदनादूर्ध्वं तद्विष्णोः परमं पदम् । शुभं सनातनं ज्योतिः परं ब्रह्मेति तद्विदुः ।। न तत्र मूढा गच्छन्ति पुरुषा विषयात्मकाः । दम्भलोभभयक्रोधद्रोहद्वेषैरभिद्रुताः ॥ निर्ममा निरहंकारा निर्द्वद्वाः संयतेन्द्रियाः । ध्यानयोगरताचैव तत्र गच्छन्ति साधवः ॥ एतत्ते सर्वमाख्यातं यत्त्वया परिपृच्छितम् ॥
५ घ. ड, छ, झ ट ठ ड ट ट्वा दीप्तां प । २ ड. "हान्तः स्वरूपा ये दो ।
४१
१६
१७
१८